नासतो विद्यते भावो () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः लक्षणम् उपस्थापयति । पूर्वस्मिन् श्लोके देहदेहिनोः विवेचनं कृत्वा अत्र भगवान् देहदेहिनोः विस्तारेण विवेचनं कर्तुं सदसतोः लक्षणं वदति । सः कथयति यत्, असतः भावः, सतः अभावश्च न विद्यते । तत्त्वदर्शिनः महापुरुषाः तु उभौ अपि अन्तं पश्यन्ति । अर्थात् तत्त्वमेव पश्यतीति ।

भावार्थः सम्पादयतु

'नासतो विद्यते भावः' – शरीरं जन्मनः पूर्वं नासीत्, मृत्योत्तरं च न भविष्यति । वर्तमानेऽपि शरीरं प्रतिक्षणम् अभावशीलम् अस्ति । तात्पर्यम् अस्ति यत्, शरीरं भूतवर्तमानभविष्येषु कदापि भावत्वेन न तिष्ठति, अतः तद् असद् अस्ति । तथैव संसारेऽस्मिन् भावाभावत्वाद्, तदपि असदस्ति । शरीरं तु संसारस्य प्रतिमानमात्रमेव; अतः शरीरस्य परिवर्तने संसारे परिवर्तनम् अनुभूयते । यथा संसारे सर्वदा अभावः भवति इति । पुरा संसारः नासीत्, भविष्येऽपि न भविष्यति, वर्तमाने च अभावः अस्ति इति । संसारः तु कालरूपाग्नौ काष्ठवद् निरन्तरं दह्यमानः अस्ति । काष्ठदहनोत्तरम् अङ्गारत्वेन उत भस्मत्वेन अवशिष्यते । परन्तु कालाग्नौ दहनोत्तरं संसारस्य किमपि नावशिष्यते । एवं संसारस्य पूर्णाभावः भवति; अतः असतः सत्ता न भवति इत्युक्तम् ।

'नाभावो विद्यते सतः' – यद् सद् वस्तु अस्ति, तस्य अभावः न भवति । अर्थात् यदा देहस्य जन्म नास्ति, तदा दही आसीत् । देहनाशोत्तरमपि देही भविष्यति । वर्तमानेऽपि देहः परिवर्तनशीलः अस्ति, न तु देही । तथैव यदा संसारः नासीत्, तदापि परमात्मतत्त्वं तु आसीदेव । संसाराभावे सत्यपि परमात्मत्त्वं भविष्यत्येव । संसारः परिवर्तनशीलत्वादपि परमात्मतत्त्वं तु अक्षरं तिष्ठति इति ।

'उभयोरपि.... दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः' – तयोः उभयोः अर्थात् सदसतोः, देहदेहिनोः च तत्त्वज्ञेन महापुरुषेण तयोः (सदसतोः) तत्त्वं ज्ञातमस्ति यत्, केवलं सत्तत्त्वमेव विद्यमानं भवति इति । असतः वस्तोः तत्त्वमपि सद् एवा अस्ति । एवं सतः वस्तोः तत्त्वमपि सदेवास्ति । अर्थात् उभयोः तत्त्वं तु सदेव । अतः सदसतोः तत्त्वज्ञः महापुरुषः एकमेव सत्तत्त्वं जानाति । असतः या सत्ता प्रतीयते, सा सत्ताऽपि वास्तव्येन सदः सत्ता एव । सतः सत्तया एव असदः सत्तायाः प्रतीतिः भवति । एतदेव सद् 'परा प्रकृतिः' [१], क्षेत्रज्ञः [२], पुरुषः [३], अक्षरः [४], अपरा प्रकृतिः [५], क्षेत्रं, प्रकृतिः, क्षरः चेति उक्तम् ।

अर्जुनोऽपि शरीराय शोकं कुर्वन् अस्ति यत्, युद्धत्वात् सर्वे मरिष्यन्ति इति । अतः भगवान् कथयति यत्, युद्धाभावद् ते न मरिष्यन्ति ? असद् तु मरिष्यति एव । अधुनापि तस्य नाशः जायमानः अस्ति । परन्तु तस्मिन् विद्यमानं सद् कदापि न मरिष्यति । तस्य सदः कदापि अभावः न भविष्यति । अतः एषः शोकः ते मूढता अस्ति इति । ये मृताः, जीविताः च तयोः पण्डिताः शोकं न कुर्वन्ति [६] । देही नित्यः अस्ति इत्युपस्थापयन् भगवान् "धीरः" इत्यस्य शब्दस्य उपयोगम् अकरोत् [७] । संसारस्य अनित्यतायाः वर्णनेऽपि "धीरः" इत्यस्य शब्दस्य प्रयोगः दरीदृश्यते [८] । तथा च सदसतोः विवेचनेऽत्र "तत्त्वदर्शी" इति शब्दः विद्यते । 'पण्डितः', 'धीरः', 'तत्त्वदर्शी' इत्येतेषां शब्दां प्रयोगस्य तात्पर्यम् अस्ति यत्, ये विवेकिनः सन्ति, ते शोकं न कुर्वन्ति, तथा च ये शोकं कुर्वन्ति, ते विवेकिनः नेति ।

मर्मः सम्पादयतु

अत्र पूर्वार्धे भगवान् 'भू सत्तायाम्' (भावः, अभावः), 'अस् भुवि' (असतः, सतः), 'विद् सत्तायाम्' (विद्यते) इत्येतेषां त्रयाणां सत्तावाचकधातूनाम् उपयोगम् अकरोत् । एते त्रयः धातवः किमर्थं प्रयुक्ताः चेत्, नित्यतत्त्वं प्रति लक्ष्यं कर्तुम् इति ।

संसारं वयमेकवारमेव दृष्टुं शक्नुमः, द्वितीयवारं न । किञ्च संसारः प्रतिक्षणं परिवर्तनशीलः । अतः क्षणपूर्वं किञ्चिद् वस्तु यथा आसीत्, तथा द्वितीये क्षणे न भवति । चलच्चित्रे अमुकं दृश्यं दरीदृश्यते, परन्तु वास्तव्येन तत्र प्रतिक्षणं परिवर्तनं जायमानं भवति । यन्त्रे चलच्चित्रस्य गतिः एतावती तीव्रा भवति यद्, तत्र जायमानं परिवर्तनं द्रष्टुम् अस्माकं नेत्राणि सक्षमानि न भवन्ति [९] । वास्तव्येन मर्मः अस्ति यत्, संसारः एकवारमपि न दृश्यते । यतो हि शरीरेन्द्रियमनोबुद्ध्यादिभिः करणैः वयं संसारम् अनुभवामः (पश्यामः), तानि करणान्यपि संसारस्य एव सन्ति । अतः वास्तव्येन संसारेणैव संसारः दृश्यते । यः शरीरसंसारादिभ्यः सर्वथा सम्बन्धरहितः अस्ति, सः स्वरूपेण कदापि संसारं न पश्यति । संसारस्य सम्बन्धेन एव संसारस्य प्रतीतिः भवति । अनेन सिद्ध्यति यत्, स्वरूपस्य संसारेण सह कोऽपि सम्बन्धः नास्ति इति । संसारस्य (शरीरेन्द्रियमनोबुद्ध्यादीनां) साहाय्यं विना चेतनस्वरूपं किमपि कर्तुं न शक्नोति । अनेन सिद्ध्यति यत्, क्रिया केवलं संसारे एव, स्वरूपे नैव । क्रिया, पदार्थश्च संसारस्य स्वरूपम् अस्ति । स्वरूपस्य न तु क्रियया सह, न तु पदार्थैः सह कोऽपि सम्बन्धः अस्ति । तदा सिद्ध्यति यत्, शरीरेन्द्रियमनोबुद्धिसहितस्य सम्पूर्णसंसारस्य अभावः अस्ति । केवलं परमात्मतत्त्वस्य एव सत्ता (भावः) अस्ति । तत्तत्त्वमेव निर्लिप्लरूपेण सर्वेषां प्रकाशकम्, आधारभूतञ्च ।

भाष्यार्थः सम्पादयतु

वास्तव्येन अविद्यमानानां शीतोष्णादीनां, तेषां कारणानाञ्च अवस्थितिः च नास्त्येव । यतो हि प्रमाणैः निरूपिते सति शीतोष्णादयः, तेषां कारणानि च पदार्थत्वेन नैव सिद्ध्यन्ति । किञ्च, ते शीतोष्णादयः सर्वे विकाराः सन्ति । विकाराः तु सर्वदा परिवर्तनशीलाः एव भवन्ति । यथा चक्षुसा निरूपिते सति घटादीनाम् आकारे मृदं विहाय किमपि नोपलभ्यते । अतः तद् असद् अस्ति । तथैव सर्वे विकाराः कारणं विहाय अन्यत्र अनुपलब्धत्वाद् असतः । यतः उत्पत्तेः पूर्वं, नाशोत्तरं च तेषाम् अनुपलब्धिः ।

पू. - मृदादिकारणस्य, तत्कारणस्य च तयोः कारणस्य स्वकारणाद् पृथक्त्वम् अनुपलब्धत्वाद् तेषामपि अभावः सिद्ध्यति । एवं तेषां (मृदादिकारणस्य, तत्कारणस्य कारणस्य, कारणस्यापि कारणस्य) अभावप्रसङ्गे सिद्धे सति सर्वेषाम् अभावप्रसङ्गः उद्भवति ।

उ. – एवम् अयोग्यम् । यतो हि सर्वत्र सद्बुद्धिः, असद्बुद्धिः च बुद्धिद्वयम् उपलब्धम् । यस्य पदार्थस्य विषयबुद्धिः अपरिवर्तिता भवति, सः पदार्थः सद् अस्ति, तथा च यस्य पदार्थस्य विषयबुद्धिः परिवर्तनशीला भवति, सः पदार्थः असद् अस्ति । एवम्प्रकारेण सतः, असतः च बुद्धिविभागौ बुद्धितन्त्राधारितौ ।

सर्वेषु समानाधिकरणेषु (एकमेवाधिष्ठाने इत्यर्थः) सर्वे बुद्धिद्वयं प्राप्तवन्तः । नीलं कमलं एतादृशं न, अपि तु घटः अस्ति, वस्त्रम् अस्ति, गजः चास्ति इत्यादिवद् सर्वेषु स्थानेषु बुद्ध्यौ उपलब्धे स्तः । अर्थात् नीलं कमलम् ('नीलोत्पलम्') इत्यस्मिन् ज्ञाने यथा कमले कमलत्वस्य, नीलत्वस्य च बुद्ध्यौ भवतः, तथैव गुणगुणिनोः भावविषयेऽत्र द्वे बुद्ध्यौ नाङ्गीक्रियेते । किन्तु मृगतृष्णिकायां भ्रान्त्याः कारणेन यथा अधिष्ठानस्य अतिरिक्तजलबुद्धिः अपि भवति, तथैव द्वे बुद्ध्यौ प्रदर्शयतः । अतः घटादिबुद्धीनां विषयः (घटादि) असद् अस्ति । यतो हि तस्मिन् व्यभिचारः (परिवर्तनं) भवति । परन्तु सद्बुद्धेः विषयः (अस्तित्वम्) असन्नास्ति । यतः तस्मिन् व्यभिचारः न भवति ।

पू – घटस्य नाशे सति, घटविषयकबुद्धेरपि नाशे सति च सद्बुद्धेः अपि नाशः भवति ।

उ. एतद् वचनम् अनुचितम् । यतो हि वस्त्रादिषु अन्यवस्तुषु अपि सद्बुद्धिः दरीदृश्यते । सा सद्बुद्धिः केवलं विशेषणमेव विषयीकरोति ।

पू – सद्बुद्धिवद् घटबुद्धिरपि अन्यस्मिन् घटे दृश्यते ।

उ.- एतदनुचितम्, यतो हि वस्त्रादिषु न दृश्यते ।

पू. - घटनाशे सति तस्मिन् सद्बुद्धिरपि न दृश्यते ।

उ. – तन्नोचितम्, यतः तत्र घटरूपविशेष्यस्य अभावः अस्ति । सद्बुद्धिः विशेषणं विषयिनं करोति, अतः यदा घटरूपविशेष्यस्य अभावः भवति, तदा विशेष्यं विना विशेषणस्यापि अनुपपत्तिः भवति । तदा सा सद्बुद्धिः कं विषयीकरोति ? परन्तु विषयाभावे सति सद्बुद्धेः अभावः न भवति ।

पू. – घटादिविशेष्यस्य अभावे एकाधिकरणता (द्वयोः बुद्ध्योः एकाधिकरणे अवस्थितिः) अनुचिता ।

उ. – एवमनुचितम्, यतो हि मृदतृष्णादिषु अधिष्ठानाद् अतिरिक्तस्य अन्यवस्तोः (जलस्य) अभावे सत्यपि 'जलमस्ति' इति बुद्धित्वाद् समानाधिकरणता तु दरीदृश्येते । समानाधिकरणस्य अभिप्रायः द्वयोः वस्त्वोः प्रतीतिः भवति, न तु वास्तविकसत्तायाः । अतः असतां (शरीरादयः, शीतोष्णादिद्वन्द्वाः), तेषां कारणानामपि भावः (अस्तित्वं) नास्ति । तथैव सत्याद् आत्मतत्त्वम् अस्ति, तेषाम् अभावः अर्थात् अविद्यमानता नास्ति । यतो हि तद् सर्वत्र अटलम् अस्ति इति पूर्वमेव प्रतिपादितम् ।

एवं सदात्मा, असनात्मा इत्येतयोः निर्णय एव तत्त्वदर्शिभिः दृश्यते । अर्थात् आत्मानात्मनोः ज्ञानं प्रत्यक्षम् अस्ति यत्, सद् सद् एवास्ति, असद् असदेवेति । 'तत्' इत्यस्य सर्वनामपदं, सर्वञ्च ब्रह्म एवास्ति । अतः तस्य नाम 'तत्' इति । तस्य भावम् अर्थात् ब्रह्मणः यथार्थस्वरूपमेव तत्त्वम् उच्यते । तद् तत्त्वदर्शनं यस्य स्वभावः अस्ति, सः तत्त्वदर्शी अस्ति । तेन उपर्युक्तनिर्णयः दृष्टः अस्ति । त्वमपि तत्त्वदर्शिपुरुषाणां बुद्धेः आश्रयं स्वीकृत्य शोकं, मोहं च त्यक्त्वा (उक्तानुसारं) शीतोष्णादिद्वन्द्वाः मनसः विकाराः सन्ति इति ज्ञात्वा तेषां मृगतृष्णाजलवद् वास्तव्याभावम् अङ्गीकृत्य तान् सहस्व इत्यभिप्रायः ।

भाष्यार्थः सम्पादयतु

असदः अर्थात् देहादीनां सद्भावः (अस्तित्वं) नास्ति तथा च सतः अर्थात् आत्मतत्त्वस्य असद्भावः (अनुपस्थितिः) नास्ति । देहात्मनोः अन्तः अर्थात् यथार्थज्ञानसम्पन्ननिर्णयः तत्त्वदर्शिभिः दृष्टः अस्ति । निरूपणस्य अन्तः निर्णये भवति, अत एवात्र निर्णयशब्दाय "अन्त" इत्यस्य शब्दस्य उपयोगः कृतः । तात्पर्यम् अस्ति यद्, देहस्य, असद्वस्तूनां (जडपदार्थानां) च असत्ता एव स्वरूपम् अस्ति । आत्मनः (चेतनस्य) सत्ता एव स्वरूपम् अस्ति । एषः निर्णयः अर्थात् अन्तः (तत्त्वदर्शिभिः) दृष्टः अस्ति ।

एकस्याः अवस्थायाः अपरावस्थायां परिणम्यमानस्य विनाशिस्वभावस्यैव अपरं नाम "असत्ता" इति । एकस्याम् अवस्थायामेव सर्वदा स्थिरस्य अविनाशिस्वभावस्यैव अपरं नाम "सत्ता" इति । यथा भगवान् पराशरेणोक्तम् - "अतः हे द्विज ! विज्ञानातिरिक्तं कुत्रापि, कदापि, किमपि वस्तु नास्ति" [१०] इति । एवम् अहं तुभ्यं सद्भावस्य (परमार्थस्य) ज्ञानम् अयच्छम् । केवलं ज्ञान'मेव सत्यम् अस्ति । तस्माद् भिन्नं सर्वम् असत्यम् । तदेव ज्ञानिपुरुषैः स्वीकृतम् अस्ति यत्, परमार्थवस्तु अविनाशि अस्ति । तत्र न कस्मै अपि सन्देहाय स्थानम् । यद् यन्नाशवदस्ति, तत्तु नाशवदेव भवति [११] इति । हे राजन् ! यद् वस्तु कालान्तरे परिणामादिकारणाद् कदाऽपि सञ्ज्ञान्तरं न प्राप्नोति, तदेव सद्वस्तु अस्ति [१२] । राजन् ! तद्वस्तुं किम् अस्ति इति चेत्, तदेव परमतत्त्वम् अस्ति इति [१३]

एतस्मिन् गीताशास्त्रेऽपि उक्तम् अस्ति यत्, 'एतानि शरीराणि अन्तयुक्तानि' [१४] अविनाशि तु तानि ज्ञातव्यानि'[१५] इति । अत्र प्रतीयते यत्, एतद् कथनमपि सदसतोः लक्षणम् उपस्थापयितुमेवास्ति । यतो हि अत्र सत्कार्यवादः असिद्धः अस्ति । अतः श्लोकोऽयं सत्कार्यवादसम्बन्धी न । देहात्मनोः स्वभावः न ज्ञाते सति मोहितस्य मनुष्यस्य मोहं नाशयितुं तयोः (देहात्मनोः) क्रमेण विनाशिस्वभावस्य, अविनाशिस्वभावस्य च विवेचनं एतच्छ्लोकाभिप्रायः । एषो भाव एव "गतासूनगतासंश्च नानुशोचन्ति" इत्यस्मिन् श्लोके प्रस्तुतः । 'अविनाशि तु तद्विद्धि', 'अन्तवन्त इमे देहाः' इत्येतयोः अग्रिमश्लोकयोः एषः विषय एव प्रतिपादितः । अतः एतस्य श्लोकस्य यः अर्थः कृतः अस्ति, स एव उचितः ।

  1. गीता, अ. ७, श्लो.५
  2. गीता, अ. १३, श्लो.१-२
  3. गीता, अ. १३, श्लो. १९
  4. गीता, अ. १३, श्लो. १९
  5. गीता, अ. १५, श्लो. १६
  6. गीता, अ. २, श्लो. ११
  7. गीता, अ. २, श्लो. १२
  8. गीता, अ. २, श्लो. १४-१५
  9. नित्यदा ह्योङ्ग भूतानि भवन्ति न भवन्ति च ।
    कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ।। (श्रीमद्भागवतमहापुराणम् ११/२२/४२)
  10. क्वचित्कदाचिद्द्विज वस्तुजातम्, विष्णुपुराणम्, २/१२/४३
  11. सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् ।। विष्णुपुराणम्, २/१२/४५
  12. अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते ।
    तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ।। विष्णुपुराणम्, २/१४/२४
  13. यत्तु कालान्तरेणापि नान्यां सञ्ज्ञामुपैति वै ।
    परिणामादिसम्भूतां तद्वस्तु नृप तत्त किम्, विष्णुपुराणम्, २/१३/१००
  14. गीता, अ. २, श्लो. १८
  15. गीता, अ. २, श्लो. १७