न जायते म्रियते वा कदाचिद् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अविकारिणः आत्मनः स्वरूपं वर्णयति । पूर्वस्मिन् श्लोके अज्ञानिनः परिभाषाम् उक्त्वा अत्र भगवान् आत्मनः निर्विकारित्वम् उपस्थापयति । सः कथयति यत्, एतच्छरीरी न कदापि जायते, न च म्रियते । सः उत्पद्य पुनः जातः इत्यपि नास्ति । सः जन्मरहितः, नित्यनिरन्तरः, शाश्वतः, पुराणः (अनादिः) च । शरीरे हतेऽपि सः न हन्यते इति ।

भावार्थः सम्पादयतु

'न जायते म्रियते वा कदाचिन्न' – यथा शरीरम् उत्पद्यते, तथैव शरीरी कदापि नोत्पद्यते । सः तु सर्वदा अस्ति । भगवान् शरीरिणं स्वांशत्वेन उपस्थाप्य 'सः सनातनः' इति अवदत् [१] । सः शरीरी न कदापि जायते, न च म्रियते । 'म्रियते' इत्यस्य प्रयोगः तदा भवति, यदा पिण्डप्राणवियोगः भवति । पिण्डप्राणवियोगः तु शरीरे भवति, न तु शरीरिणि । शरीरिणि न संयोगः भवति, न वा वियोगः । जन्मादयः ये सर्वे विकाराः सन्ति, तेषु जन्ममृत्यू एव मुख्यौ । अतः भगवान् तयोः वारद्वयं निषेधम् अवदत् । 'न जायते', 'अजः' इत्येताभ्यां जन्मरहितत्वं, 'न म्रियते', 'न हन्यते हन्यमाने शरीरे' इत्येताभ्यां मृत्युरहितत्वं च बोधयति । शरीरे षड् विकाराः भवन्ति । जननं, दर्शनं, परिवर्तनं, वर्धनं, न्यूनीभवनं, नाशश्च [२] [३] । शरीरी तेभ्यः विकारेभ्यः रहितः ।

'अयं भूत्वा भविता वा न भूयः' – एतद् अविनाशि नित्यतत्त्वम् उत्पद्य पुनः भवति इति नास्ति । अर्थात् तद् तत्त्वं स्वतस्सिद्धं, निर्विकारञ्च अस्ति । शिशोः जन्म भवति, ततः तस्य अस्तित्वं भवति । यावद् सः शिशुः गर्भस्थः भवति, तावद् तस्य 'अस्तित्वम् अस्ति' इति न कोऽपि कथयति । अर्थात् शिशोः जन्मोत्तरं तस्य अस्तित्वं भवति । यतो हि विकारिणः अस्तित्वस्य आद्यन्तौ भवतः । परन्तु नित्यतत्त्वस्य अस्तित्वं तु स्वतस्सिद्धं, निर्विकारं च अस्ति, यतो हि एतस्याः अविनाशिसत्तायाः आद्यन्तौ न भवतः ।

'अजः' – एषः कदापि न जायते । अतः सः 'अजः' इति । एवं सः जन्मरहितः उच्यते ।

'नित्यः' – सः नित्यनिरन्तरं भवति । अतः तस्य विनाशः कदापि न भवति । विनाशः तु तस्य भवति, यद् अनित्यम् अस्ति । यथा कालान्तरे शरीरस्य जर्जरत्वं प्रत्यक्षं भवति । बलं न भवति, इन्द्रियाणि अशक्तानि भवन्ति इत्यादि । एवं शरीरेन्द्रियान्तःकरणादीनां विनाशः भवति, परन्तु शरीरिणः विनाशः न भवति । तस्मिन् अनित्यतत्वे न कदापि जर्जरत्वं भवति ।

'शाश्वतः' – एतद् नित्यतत्त्वं निरन्तरमे एकरूपं भवति । तस्मिन् अवस्थायाः परिवर्तनं न भवति । अर्थात् तस्मिन् परिवर्तनं न भवति ।

'पुराणः' – एतद् अविनाशितत्त्वं पुराणम् अस्ति । अर्थात् अनादि अस्ति । तन्न कदापि उत्पन्नं तावत् प्राचीनम् अस्ति । उत्पन्नवस्तुषु विकारः दृश्यते यत्, एकवारं यद् पुरातनं भवति, तद् कदापि न वर्धते, प्रत्युत नष्टं भवति । तर्हि एतद् तु अनुत्पन्नं तत्त्वम् एतस्मिन् वृद्धिरूपिविकारः असम्भवः ।

'न हन्यते हन्यमाने शरीरे' – शरीरस्य नाशे सत्यपि अविनाशिनः शरीरिणः नाशः न भवति । अत्र 'शरीरे' इत्यस्य पदस्य उपयोगः अस्ति । तस्य तात्पर्यम् अस्ति यत्, एतद् शरीरं नश्यमानम् अस्ति । एतस्मिन् नश्यमाने शरीरे एव षड् विकाराः उत्पद्यन्ते, न तु शरीरिणि । एतेषु पदेषु भगवता शरीरस्य, शरीरिणश्च यावद् स्पष्टं वर्णनं कृतम् अस्ति, तावद् स्पष्टं वर्णनम् अखिले गीताशास्त्रे कुत्रापि न प्राप्यते ।

अर्जुनः युद्धे कुटुम्बकानां हननशङ्कया शोकमग्नः आसीत् । तं शोकं दूरीकर्तुं भगवान् तं शरीरे मृते सत्यपि शरीरिणः नाशः न भवति इति कथयति । अर्थात् शरीरिणः अभावः न भवति, अतः शोकः अनुचितः इति ।

भाष्यार्थः सम्पादयतु

आत्मा निर्विकारी कथम् ? इत्यस्य द्वितीयः प्रकारः अस्ति –

एषः आत्मा न कदापि उत्पद्यते । अर्थात् उत्पत्तिरूपी वस्तुविकारः आत्मनि न भवति । एवं सः न म्रियते । अस्मिन् श्लोके उपयुक्तं 'वा' इति पदं 'च' इत्यार्थबोधकम् । 'न म्रियते च' इत्यनेन कथनेन विनाशरूपस्य अन्तिमविकारस्य प्रतिषेधः (निषेधः) कृतः । 'कदाचित्' इत्यस्य शब्दस्य सम्बन्धः सर्वेषां विकाराणां प्रतिषेधेन सह अस्ति । यथा एषः आत्मा न कदापि जायते, तथैव न कदापि म्रियते इत्यादि अन्यविकारेषु अपि ज्ञातव्यम् । एषः आत्मा उत्पन्ने सति अर्थात् उत्पत्तिरूपविकारस्य अनुभवं कृत्वा पुनः अभावं प्राप्नोति इति नास्ति । अतः सः न म्रियते । यतो हि यः उत्पद्य पुनः न भवति, सः 'म्रियते' इति लोके प्रसिद्धिः । 'वा', 'न' इत्येतयोः पदयोः उपयोगेन अर्थोक्तिः भवति यत्, आत्मा शरीरवद् उत्पद्य पुनः न भवति । अतः सः न जायते । यतो हि अभूत्वा पुनः भवति स एव 'जायते' इति उच्यते । आत्मा तथा नास्ति, अतः सः न जायते । एवम् आत्मा अजः, नित्यश्च ।

यद्यपि आद्यन्तयोः विकारयोः प्रतिषेधे सति सर्वेषां मध्यस्थानां विकाराणां प्रतिषेधः जायते, तथापि मध्यस्थानां विकाराणाम् अपि प्रतिषेधार्थकैः मुख्यशब्दैः प्रतिषेधः उचितः मन्यते । अतः उपरि अनुक्तानां यौवनादिविकाराणाम् अपि प्रतिषेधं कर्तुं 'शाश्वतः' इत्यादीनां शब्दानाम् उपयोगः अभवत् । सर्वदा यः विद्यमानः सः शाश्वतः । 'शाश्वत' इत्यनेन शब्देन अपक्षयरूपस्य विकारस्य प्रतिषेधः कृतः । यतो हि आत्मा अवयवरहितः अस्ति । अतः तस्मिन् स्वरूपगतः भयः न भवितुम् अर्हति । तथा च निर्गुणत्वाद् गुणानां क्षयेऽपि तस्य क्षयः न भवति । 'पुराणः' इत्यनेन शब्देन अपक्षयस्य विपरीतस्य वृद्धिरूपविकारस्यापि प्रतिषेधः कृतः । यः पदार्थः कस्यापि अवयवस्य उत्पत्त्या पुष्टः भवति, सः 'वर्धते', 'नवीभवति' इत्यादि उच्यते । परन्तु एषः आत्मा तु अवयवरहितः अस्ति । अतः एषः सर्वदा नवीनः अस्ति । अतः पुराणः इति कथनं युक्तिसङ्गतम् । अर्थात् सः न कदापि वृद्धीङ्गच्छति । तथा च शरीरस्य नाशे सति अर्थात् विपरीतपरिणामे प्राप्ते सत्यपि आत्मा न नश्यति । अर्थात् दुर्बलतादयः अवस्थाः आत्मनः न भवन्ति ।

अत्र हन्ति इत्यस्य क्रियापदस्य अर्थः पुनरुक्तिदोषाद् रक्षयितुं विपरीतपरिणामः इति स्वीकर्तव्यः । एवम् आत्मा स्वरूपं न परिवर्तयति इत्यर्थः भवति । एतस्मिन् प्रकारे (मन्त्रे) लौकिकवस्तुषु जायमानानां षड् भावविकाराणाम् आत्मनि अभावः प्रदर्शितः । आत्मा सर्वेभ्यः विकारेभ्यः रहितः इति एतस्य मन्त्रस्य वाक्यार्थः । एतादृशम् अस्ति अतः तौ उभौ आत्मस्वरूपं न जानीतः इति पूर्वश्लोकेन सह एतस्य सम्बन्धः भवति ।

भाष्यार्थः सम्पादयतु

उपर्युक्तकारणैः एव आत्मा नित्यः, परिणामरहितश्च । अतः तस्मिन् अचेतनस्य देहस्य जन्ममृत्य्वादयः धर्माः न भवन्ति इति उच्यते –

'आत्मा न जायते, न म्रियते' इत्यस्य अभिप्रायः अस्ति यत्, वर्तमाने साधारणदृष्ट्या सर्वेषां शरीराणाम् अनुभवे आगम्यमानाः जन्ममृत्य्वादिविकाराः आत्मनः स्पर्शं कर्तुं न प्रभवन्ति । 'एषः आत्मा भूत्वा पुनः न भवति' अतः आत्मा कल्पारम्भे भूत्वा कल्पान्ते नंक्ष्यति इति नास्ति । अभिप्रायः अस्ति यत्, यस्य कस्यापि प्रजापतेः शरीरे कल्पारम्भे जननविकारः, कल्पान्ते च मरणविकारश्च ये शास्त्रेषु उक्ताः, ते आत्मनः स्पर्शं कर्तुं न शक्नुवन्ति इति । अत एव पीपिलाकातः ब्रह्माणं पर्यन्तं सर्वेषु देहेषु स्थितः आत्मा अजन्मा अस्ति । अतः नित्यः, शाश्वतश्च अस्ति । प्रकृतौ निरन्तरं जायमानानि अविशदपरिवर्तनानि (सूक्ष्मपरिवर्तनानि) अपि तस्मिन् न भवन्ति । अत एव सः पुराणे सत्यपि नवीनः । सर्वदा अपूर्ववद् अनुभाव्यः । अत एव शरीरे मारितेऽपि सः आत्मा न हन्यते ।

  1. ममैवांशो जीवलोके जीवभूतः सनातनः, गीता, अ. १५, श्लो. ७
  2. जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यते । निरुक्तम्, १/१/२
  3. वाचस्पत्यम्