सदस्यः:जयदर्शिनी परिडा/प्रयोगपृष्ठम्

   स्वावलम्वनम्

                         मानव उन्नत्यो योग्यता अत्यावश्यकी। योग्यतां विना मानवः समाजे सम्मानं न प्राप्नोति। विद्वान् पुरुषः राज्ञ अपि श्रेष्ठः। यथा कोऽपि वन्ध्या प्रसववेदनां न जानाति तथैव मूर्खः योग्यविद्वत्पुरुषस्य महत्त्वं ज्ञातुं समर्थो न भवति। यथा-

“ विद्वानेव विजानाति विद्वज्जनपरिश्रमम्।

  न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम्।।“-   विद्या विनययुक्तो नरः सर्वेषां चेतांसि मोहयति। सः सर्वत्र पूज्यते। अतएव इदं कथ्यते –

“पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः।

तस्मान् मूर्खसहस्रेभ्यौ प्राज्ञ एको विशिष्यते।“-       

योग्यः सन्, पुरुषार्थी भूत्वा, मनुष्य: यदि परमुखापेक्षी न स्यात्, तर्हि स भवेत् पूर्ण:। योग्यतां पौरुषं चार्जयितुम् अपि  यदा सः स्वावलम्वी स्यात् तदा स्वकीयम् आवश्यकतां पूर्णं कर्तुं समर्थो भूत्वा अन्यैः सह सम्बद्धं त्यजेत्। किन्तु स्वावलम्वनस्य उद्देश्यं तु प्रशस्तम् अस्ति। यस्य स्वार्थं एव पराधीनःअस्ति, यः स्वं भरणपोषणमपि कर्त्तुं समर्थो न भवति, सः अन्यस्य का सहायतां करिष्यति ? अतः स्वावलम्वनस्य उद्देश्यम् अस्ति यत् स्वार्थे समर्थो भूत्वा परोपकारः कुर्यात्। इदं हि मानवजीवनस्य रहस्यम्। स्वावलंबी पुरूषः सूर्यः इव प्रकाशते न तु चन्द्रवत्। सूर्यः स्वतेजसा स्वयं  प्रकाशितो भवति। चन्द्रस्तु स्वयमपि प्रकाशयितुं न समर्थः। अतः अन्यान् कथं प्रकाशयेत्। यदि सूर्यस्य प्रकाशः चन्द्रं न प्रकाशयेत्, तर्हि सः स्वयम् अन्धकारे विलीनाः  भवति। यथा अमावास्यायां सर्वत्र अन्धकारस्य साम्राज्यं दृश्यते। स्वावलंविनः पुरुषाः स्वयमेव उन्नतिशिखरमारोहन्ति।ते कदापि पराश्रिताः न सन् जीवन्ति। यत्र देशे,समाजे कुले च एतादृशाः उद्योगिनः‌‌ पुरुषाः भवन्ति तत्र ते प्रकाशमानाः सन्तः जीवन्ति। यथा मृगराजः- वनस्याधिपत्यं स्वयं स्वकीयेन पौरुषेण गृह्णाति तथा नराः अपि  सर्वेषां हृदयोस्योपरि स्वामित्वं गृह्णन्ति। उच्यते यत्-

  “नाभिषेकां न संस्कारः सिंहस्य क्रियते मृगैः।

   विक्रमार्जितसत्वस्य स्वयमेव मृगेन्द्रता।“-  ये परमुखापेखा भवन्ति, ते कातरपुरुषाः कदापि उन्नतिः न प्राप्नुवन्ति। ते योग्यः भूत्वाऽपि नश्यन्ति। स्वावलंवनेन एव पुरुषाः स्वतेजसा एव राष्ट्र्नायकस्य पदवीम् अलं कुर्वन्ति। स्वातंत्र्य तथा स्वलंवनता एव पुरुषस्य भूषणं भवति।  स्वावलंविनः पुरुषाः सम दृष्ट्या सुखस्य दुःखस्य वा अपेक्षां न कुर्वन्ति। ते सुखं प्राप्तुम् अन्यस्य पृष्ठतो न गच्छन्ति, परं सर्वेषामग्रगण्यः सन्तः विघ्नानां सामुख्यं स्वयं कुर्वन्ति। तेषां पुरतः” मेरुः स्वल्पशिलायते।“ साधूक्तम्- “मनस्वी कार्यार्थी गणयति न दुःखं न च सुखम्।“उत्साह संपन्नानां स्वावलंविनामग्रे विघ्न समूहः स्थातुं न शक्नोति। आत्मविश्वासेनैव स्वावलंवः आयाति। “आतमा ईश्वरः, ईश्वरः च सर्वं शक्तिमान्”- इति मत्वा यः कार्यक्षेत्रे संसारे प्रवृत्तो भवति सः स्वावलंवी पुरुषः सदैव विजयं लभते। ।।