कुतस्त्वा कश्मलमिदम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् असमये कापुरुषत्वं कुतः त्वयि उद्भूतम् इति पृच्छति । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् उद्दीश्य श्रीकृष्णार्जुनयोः संवादस्य आरम्भम् अकरोत् । सः वदति यत्, अर्जुनं मधुसूदनः एतानि वाक्यानि अवदत् इति । एवम् अत्र भगवान् अर्जुनम् उद्दीश्य तस्य युद्धोपरामस्य निर्णयं वारयितुं प्रत्यनम् आरभते । अत्र भगवान् कथयति यत्, हे अर्जुन ! एतस्मिन् विषमे प्रसङ्गे तव मनसि कुत एष कापुरुषतापूर्णः विचारः समागतः ? एतादृशाः विचाराः श्रेष्ठपुरुषस्य मनसि कदापि नोद्भवन्ति । एते विचाराः अस्वर्गम्, अक्रीर्तिं च प्रति नयन्ति इति ।

भावार्थः

सम्पादयतु

'अर्जुन' एतस्य सम्बोधनपदस्य तात्पर्यम् अस्ति यत्, त्वं स्वच्छः, निर्मलः, शुद्धान्तःकरणी असि । अतः तव स्वभावे एतादृशी कापुरुषता न भवेत् । तथापि त्वयि एषा कापुरुषता कुतः सम्प्राप्ता ?

'कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्' – भगवान् आश्चर्यं प्रकटयन् अर्जुनं कथयति यत्, सद्यः युद्धस्य प्रसङ्गे तव मनसि शूरवीरतायाः, उत्साहस्य च विचाराः आगच्छेरन्, परन्तु अस्मिन् अनुपयुक्ते समये तव मनसि कापुरुषतायाः विचाराः कुतः सम्प्राप्ताः ?

आश्चर्यं द्विधा भवति । प्रप्रथमं तु स्वस्य अज्ञानवशात्, द्वितीयम् अन्यस्मै पूर्वसूचनां दातुञ्च । भगवान् अत्र अर्चुनाय पूर्वसूचनां दातुमेव आश्चर्यं प्रकटयति, येन अर्जुनस्य ध्यानं कर्तव्यं प्रति कर्षितं स्यात् ।

'कुतः' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः विचारः तव नास्ति, अपि तु आगन्तुकः विचारः अस्ति, यः दीर्घकालं यावत् न स्थास्यति इति ।

'समुपस्थितम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः प्रभावः न केवलं तव वचनेषु अस्ति, अपि तु तव क्रियायाम् अपि अस्ति । एवं सा तव व्यक्तित्वे पूर्णतया आक्रमणम् अकरोत्, येन त्वं धनुष्काण्डं त्यक्त्वा स्थितोऽसि ।

'अनार्यजुष्टम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, ज्ञानी श्रेष्ठः मनुष्यः एतादृशान् विचारान् न करोति । स स्वकल्याणस्य उद्देश्यं पश्यति । अतः श्लोकस्यास्य उत्तरार्धे भगवान् प्रप्रथमम् एतस्य पदस्य उपयोगं कृत्वा अस्थाने कापुरुषतापूर्णविचारान् श्रेष्ठपुरुषाः न कुर्वन्ति इति सङ्केतयति । यतः सा कापुरुषता स्वकल्याणस्य मार्गम् अवरुणद्धि । श्रेष्ठपुरुषाः प्रवृत्तौ, निवृत्तौ च स्वकल्याणस्यैवोद्देश्यं साधयितुं प्रयतन्ते । तेषु स्वकर्तव्यं प्रति कापुरुषत्वं न जायते । परिस्थित्यनुगुणं यत् कर्तव्यं श्रेष्ठजनानां सम्मुखं समायाति, तत् कल्याणप्राप्तेः उद्देशस्य साधनत्वेनैव ते पश्यन्ति । ते तत् कार्यम् उत्साहेन सह तत्परतापूर्वकं साङ्गोपाङ्गं कुर्वन्ति । ते तव सदृशं कापुरुषत्वं प्रदर्श्य कर्तव्यकर्मभ्यः उपरामाः न भवन्ति । अतः युद्धरूपिणः प्राप्तकर्तव्यात् उपरामता ते कल्याणकरं नास्ति ।

'अस्वर्ग्यम्' – कल्याणस्य विषये अविचिन्त्यापि सांसारिकसुखं प्रति जागृतः भवति चेदपि, संसारात् स्वर्गलोकः उच्चः अस्ति । परन्तु ते कापुरुषतैषा स्वर्गलोकस्य सुखम् अपि अपकर्षयिष्यति । अर्थात् कापुरुषतापूर्वकस्य युद्धात् उपरामस्य फलत्वेन स्वर्ग्यसुखात् त्वं वञ्चितः भविष्यसि ।

'अकीर्तिकरम्' – यदि स्वर्गप्राप्तिः ते लक्ष्यं नास्ति, तर्ह्यपि सत्पुरुषः जगति कीर्तिं प्राप्तुं कर्माणि करोति । परन्तु ते एषा कापुरुषता इह लोकेऽपि कीर्तिदा (यश) नास्ति, अपि तु अपकीर्तिदा अस्ति । अतः ते कापुरुषतायाः उद्भव एव अयोग्यः अस्ति ।

त्रिधा मनुष्याः भवन्ति । १. विचारशीलाः, २. पुण्यात्मनः, ३. साधारणाः । विचारशीलाः केवलं स्वकल्याणमेवेच्छन्ति । तेषां ध्येयः, उद्देश्यं च केवलं कल्याणमेव भवति । पुण्यात्मनः शुभकर्मभिः स्वर्गं प्राप्तुम् इच्छन्ति । अतः तेषाम् उद्देश्यं स्वर्गप्राप्तिः भवति । साधारणमनुष्याः संसारमेव पश्यन्ति । अतः ते संसारे स्वकीर्तिम् इच्छन्ति । अतः तेषां ध्येयः कीर्तिः भवति । उक्तानि त्रीणि पदानि (अस्वर्ग्यम्, अकीर्तिकरम्, अनार्यजुष्टम्) उयुज्य भगवान् अर्जुनं सावधानं करोति यत्, युद्धनिवृत्तेः ते विचार एषः क्रमेण विचारशीलस्य, पुण्यात्मनः, साधारणस्य च मनुष्यस्य ध्येयान् साधयितुम् अपि अशक्तः अस्ति । अतः मोहग्रस्तः तव एषः निर्णयः अतीव तुच्छः अस्ति । एषः निर्णयः त्वं नरकं प्रति नेष्यति इति ।