सदस्यः:डा. प्रमोदशुक्लः/प्रयोगपृष्ठम्

मम जाखः

।। ओ3म् जयति कवेर्भारती ।।

सम्पत्तिश्च सरस्वती निवसतो यस्याः करे सर्वदा

स्वर्गाच्छ्रेष्ठतरा मही निगदिता नम्या यया भाषया।

सत्यस्यैव जयस्तयैव कथितोऽप्याचार्यदेवस्तथा

एकं या बहुधा ब्रवीति सततं वन्द्या नु सा देववाक्।।

‘जाख’ इति शब्दं पठित्वा अपूर्वता प्रतीयते। किञ्च पूर्वं शब्दोऽयं न श्रुतः। तत्र हि भाषाविज्ञानस्य कापि प्रवृृत्तिरस्ति तस्याः नाम ‘प्रयत्नलाघवः’ इति प्रयत्नलाघवस्य प्रवृत्तिकारणादेव Rail way train इति पदस्य कृते केवलं Rail इति सूक्ष्मं नाम प्रयुज्यते अथवा Train इति सूक्ष्मं नाम वा। Brother इति Bro नाम्ना प्रयुज्यते। तथैव आङ्ग्लशब्दः Blog इति पदं web log इति पदस्य सूक्ष्मं नाम अस्ति। ब्लाग् इति पदम् अन्तर्जाले प्रचलितम् अस्ति।  इदं पदं सर्वादौ कश्चन जनः परिहासेन प्रयुक्तवान्, तदा आरभ्य वेब लाग् इति ब्लाग् इत्येव नाम्ना प्रसिद्धं प्रचलितं वा।

समाजे भाषाव्यवहारस्य कापि प्रवृत्तिः एव अस्ति यत् जिह्वायाः अल्पश्रमः भवेद् अङ्गाय च अधिकं कष्टं न भवेद् इति विचार्य मानवः स्वीयवाचिकव्यवहारेषु प्रयत्नलाघवस्य प्रयोगम् अनायासेन करोति। देवदत्तः इत्यस्य पौनःपुन्येन उच्चारणकाले देव इत्येव उक्त्वा अभीष्टं साध्यते, अभिषेकः अथवा अभिनवः इत्यस्य अभि इत्येव उक्त्वा अभिष्टं सिद्धं भवति। पद्मेश इत्यस्य पद्दी इत्येव बालकाः परिहासेन प्रयत्नलाघवं कुर्वन्ति।

अथ संस्कृते तु अपारः शब्दराशिः अस्ति। संस्कृतस्य भूरिशः धातवः (द्वि सहस्रधातवः) नवनवशब्दानां निर्माणे पर्याप्ताः सन्ति। अतएव संस्कृतभाषा स्वचतुःषष्टिः अक्षरैः विश्वस्य सर्वासु भाषासु श्रेष्ठा विराजते। ‘जाखः’ इति अन्तर्जालस्य किमपि व्यक्तिगतं जालपुटम् अस्ति। इदानीं विश्लेषणेन विचार्यते -

अन्तर्जालम् — Internet

जालपुटम् अथवा जालपृष्ठः — Website

जालम् — Web

प्रतिदिनस्य अभिलेखः —  log

इत्थं जालपुटस्य आदिमः वर्णः अभिलेखस्य च अन्त्यः वर्णः मिलित्वा जाखः इति पदं ब्लाग् इति अर्थे प्रचलितं भवति। भाषाव्यवहारे कस्यापि शब्दस्य त्रिधा गतिः भवति। सा च अनेन प्रकारेण -

1. शब्दस्य प्रचलनम्

2. तस्य प्रयोगः

3. तस्य विकासः

यथा आङ्ग्ले डाउनलोड इति शब्दस्य प्रचलनं, प्रयोगः विकासः च अभवत्। तथैव ब्लाग् इस्यापि। तथैव संस्कृते अपि जाख इत्यस्यापि ब्लाग् इत्यस्मिन् अर्थे प्रचलनं, प्रयोगः विकासश्च भविष्यति। इति।