सदस्यः:डॉ राजेन्द्रप्रसाद शुक्ला/प्रयोगपृष्ठम्/2
नैनं छिन्दन्ति शस्त्राणि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः निर्विकारित्वं बोधयति । पूर्वस्मिन् श्लोके भगवान् शरीरिणः निर्विकारितायाः वर्णनं वस्त्रपरिवर्तनस्य दृष्टान्तत्वेन अकरोत्, अत्र तमेव विषयं प्रकारान्तरेण बोधयन् अग्रे वर्णयति । सः कथयति यत्, शस्त्राणि एनं शरीरिणं छेत्तुं, अग्निः दाहयितुं, जलं क्लिन्दितुं, वायुः शोषयितुञ्च न शक्नुवन्ति इति ।
भाष्यार्थः
सम्पादयतु'नैनं छिन्दन्ति शस्त्राणि', 'नैनं दहति पावकः', 'न चैनं क्लेदयन्त्यापः', 'न शोषयति मारुतः' – एनं शरीरं शस्त्राणि भेदयितुं न शक्नुवन्ति । अग्निः शरीरिणमेनं दाहयितुं न शक्नोति । जलं क्लिन्दितुं न शक्नोति । वायुः शोषयितुं न शक्नोति । यतो हि एते प्राकृतिकपदार्थाः तत्र आत्मात्त्वं यावद् गन्तुं न शक्नुवन्ति । ये पदार्थाः सन्ति, ते जडाः सन्ति । ते पदार्थाः शरीरिणि कमपि विकारं जनयितुं न शक्नुवन्ति । एवञ्च ते पदार्थाः शरीरिणः समीपे प्राप्तुमेव न शक्नुवन्ति अतः विकृतिः तु असम्भवा एव ।
पृथ्वी-जल-तेजो-वायु-आकाशाः महाभूताः । भगवान् एतेषु केवलं चतुर्णाम् एव उल्लेखम् अकरोत् । अत्र आकाशस्य तु न कापि चर्चा अस्ति । अस्य कारणम् अस्ति यत्, आकाशे कोऽपि क्रिया न सम्भवति । क्रियायाः (विकृतेः) शक्तिः तु आकाशं विहाय अन्येषु महाभूतेषु एव अस्ति । आकाशं तु तेभ्यः सर्वेभ्यः केवलम् आवकाशं यच्छति । आकाशादेव अन्ये चत्वारः महाभूताः समुत्पन्नाः । परन्तु ते स्वस्य कारणभूते आकाशे विकारं जनयितुं न पारयन्ति । अर्थात् पृथ्वी आकाशं भेदयितुं, जलम् आकाशं क्लिन्दितुम्, अग्निः आकाशं दाहयितुं, वायुः आकाशं शोषयितुं च न शक्नोति । यदि एते चत्वारः महाभूताः स्वकारणभूतम् आकाशम्, आकाशस्य कारणभूतं महत्तत्त्वं, महत्तत्त्वस्य कारणभूतं प्रकृतिं च प्रभावयितुं न शक्नुवन्ति, तर्हि प्रकृतेः अपि परस्य शरीरिणः उपरि प्रभावं जनयितुं तु कथं शक्येरन् ? एतैः गुणधर्मैः युक्तं निर्गुणतत्त्वं पर्यन्तं प्राप्तिः तु कथं प्रभवेत् ? तन्न सम्भवम् [१] ।
शरीरी नित्यः अस्ति । पृथ्व्यादयः चत्वारः पदार्थाः तस्माद् नित्यतत्त्वादेव सत्तास्फूर्तिं प्राप्नुवन्ति । एवं ये पदार्थाः यस्माद् तत्त्वाद् सत्तास्फूर्तिं प्राप्नुवन्ति, ते तं पदार्थं विकृतं कर्तुं कथं शक्नुवन्ति ? आत्मतत्त्वं सर्वव्यापकम् अस्ति, तथा च पृथ्व्यादयः चत्वारः पदार्थाः व्याप्याः अर्थात् शरीरिणः अन्तर्गततया एव ते पदार्थाः । एवं व्याप्यं वस्तु व्यापकं विकृतं कर्तुं कथं पारयति ? अर्थात् व्याप्यपदार्थेभ्यः व्यापके विकारः असम्भवः एव ।
युद्धप्रसङ्गे एव अर्जुनस्य मनसि आत्मजनानां मरणसम्बद्धः शोकः समुत्पन्नः । अतः भगवान् तं बोधयति यत्, अस्त्रशस्त्रादीनां क्रिया आत्मतत्त्वं पर्यन्तं प्राप्तुमेव न शक्नोति, तर्हि तद् कथं मरिष्यति ? अर्थात्, शस्त्रैः शरीरस्योपरि आघातादयः शक्यन्ते, परन्तु शरीरिणि तु नैव । अग्न्यस्त्रद्वारा शरीरे दग्धे सति शरीरी न दहते । वरुणास्त्रद्वारा शरीरं तु क्लिन्दं भवति, परन्तु शरीरी न । वाय्वास्त्रेद्वारा शरीरं शुष्कं भवति, न तु शरीरी । तात्पर्यम् अस्ति यत्, अस्त्रशस्त्रादिभिः शरीरं तु मरिष्यति, परन्तु शरीरी न । प्रत्युत शरीरी तु यथा स्वभावः निर्वाकीरी एव तिष्ठति । अतः तस्य कृते शोकः मौढ्यम् अस्ति इति ।
भाष्यार्थः
सम्पादयतुआत्मा सदा निर्विकारः कथम् ? चेद् कथयति –
तम् उपर्युक्तम् आत्मानं शस्त्राणि छेदयितुं न शक्नुवन्तु इत्यस्य अभिप्रायः अस्ति यद्, अवयवरहितत्वाद् अस्यादीनि शस्त्राणि तस्य आत्मनः अङ्गानां विभागं कर्तुं न शक्नुवन्ति । तथैव अग्निः तं न दहति अर्थात् अग्निः अपि तं भस्मीभूतं कर्तुं न प्रभवति । जलं न तं क्लेदयति । यतः सावयववस्तूनामेव क्लेदनं कृत्वा तेषाम् अङ्गानि पृथग् कर्तुं जले सामर्थ्यम् । निरवयविणि आत्मनि तथा असम्भवम् । तथैव वायौ आर्द्रद्रव्यस्य आद्रतां शोषयितुं समार्थ्यं भवति । अतः वायुः अपि आत्मस्वरूपस्य आत्मनः शोषणं कर्तुं न शक्नोति ।
- ↑ गीता, अ. १३, श्लो. ३१