सदस्यः:श्रीधरः व्यासः/प्रयोगपृष्ठम्/1
कथं भीष्ममहं सङ्ख्ये ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः स्वयं किमर्थं युद्धं कर्तुं नेच्छति इति वदति । पूर्वस्मिन् अध्याये अर्जुनः अनेकाभिः युक्तिभिः स्वस्य युद्धोपरामस्य कारणानि अवदत् । परन्तु पूर्वस्मिन् श्लोके कापुरुषतायाः आरोपणं कृत्वा श्रीकृष्णः अर्जुनस्य सर्वाणि कारणानि अयोग्यानि इति उक्तवान् । ततः श्रीकृष्णः मम कथनं नावगच्छन् अस्ति इति मत्वा अर्जुनः अधिकानि तर्काणि वदति । सः वदति यत्, हे मधुसूदन ! अहं रणभूमौ भीष्मेण, द्रोणेन च सह कथं युद्ध्यामि ? यतः हे अरिसूदन ! तौ उभौ पूजनीयौ इति ।
भावार्थः
सम्पादयतु'मधुसूदन', 'अरिसूदन' – एते उभे पदे सम्बोधनत्वेन उपयुक्ते । तस्य कारणम् अस्ति यत्, भवान् दैत्यानां, शत्रूणां च संहारकः अस्ति । अर्थात् ये दुष्टस्वभाविनः, अधर्मिणः, सर्वेभ्यः कष्टदातारः भवन्ति, तान् अपि भवान् अमारयत् । ते सर्वे विद्वेषिनः अनिष्टकारिणः आसन्, परन्तु अत्र मे सम्मुखं भीषद्रोणसदृशाः श्रेष्ठाः सन्ति । तान् अहं कथं मारयानि ? इति
'कथं भीष्ममहं सङ्ख्ये द्रोणं च' – अहं कापुरुतायाः कारणेन युद्धात् उपरामो न भवामि, प्रत्युत धर्म दृष्ट्वा युद्धात् विमुखो भवामि । परन्तु भवतः कथनम् अस्ति यत्, मयि युद्धकाले कापुरुषता, नुपंसकाता च कुतः सम्प्राप्ता ? इति । भवान् एव चिन्तयतु यत्, पितामहेन भीष्मेण, आचार्येण द्रोणेन च सह अहं युद्धं कथं करवाणि ? अत्र मे कापुरुषता नास्ति । कापुरुषतायाः स्थितिः तदा भवति, यदाहं मृत्योः भीतः भवामि, प्रत्युताहं मारयितुं बिभेमि । जगति द्वौ सम्बन्धौ एव मुख्यौ मन्येते । जन्मसम्बन्धः, विद्यासम्बन्धश्च । बाल्यकालाद् अहं पितामहस्य अङ्के (क्रोडे) विकसितः । बाल्यावस्थायां यदाहं तं "पितः ! पितः !" इति सम्बोधयामि स्म, तदा सः कथयति स्म यत्, अहं तु ते पितुः अपि पितुः अस्मि इति । एवं सः मयि अतीव स्निहयति स्म । विद्यासम्बन्धत्वात् आचार्यद्रोणः मे पूजनीयः । स मे विद्यागुरुः स्वस्मै पुत्राय अपि मत्सदृशं ज्ञानं नायच्छत् । स ब्रह्मास्त्रोपयोगविद्याम् उभौ अपि पाठितवान्, परन्तु ब्रह्मास्त्रस्य प्रतिक्षेपणविद्यां स मामेव पाठितवान् । तस्य वरदानम् अस्ति यत्, "मदुत्तमः अस्त्रशस्त्रकलासम्पन्नः तस्य शिष्येषु न कोऽपि भविष्यति" इति । तौ प्रति 'रे' इत्यादीनि वचनानि अपि तयोः हत्यासमानम् अस्ति । तर्हि तौ हन्तुं शरचालनं तु कियान् महान् पातकः भविष्यति ?
'इक्षुभिः प्रति योत्स्यामि पूजार्हौ' – भीष्मद्रोणौ मे पूजनीयौ । तयोः मयि पूर्णाधिकारः; यतः तौ तु मयि घातं कर्तुं प्रभवन्ति, परन्त्वहं तयोः प्रहारं कथं करवाणि ?