सदस्यः:हसमुखः कोंकणी/प्रयोगपृष्ठम्/2
अन्तवन्त इमे देहा ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणमेव करोति । पूर्वस्मिन् श्लोके मुख्यतया सतः निरूपणं कृत्वा अत्र असतः निरूपणं करोति भगवान् । एवञ्चात्र भगवान् अर्जुनाय योद्धम् अपि आज्ञापयति । सः वदति यत्, अविनाशिनः, अप्रमेयस्य, नित्यस्य चास्य शरीरिणः शरीराणि अन्तयुक्तानि उच्यन्ते । अतः हे अर्जुन ! युध्यस्व इति ।
भावार्थः
सम्पादयतु'अनाशिनः' – यस्मिन् कस्मिँश्चिद् काले, येन केनापि कारणेन, किञ्चिदपि यस्मिन् परिवर्तनं न भवति, यस्य क्षयः न भवति, यस्याभावः न भवति, तस्य नाम 'अनाशी' अर्थात् अविनाशी इति ।
'अप्रमेयस्य' – यः न प्रमायाः (प्रमाणस्य) विषयः अर्थात् अन्तःकरणेन्द्रियाणां विषयः न स 'अप्रमेय' इति । यस्मिन् अन्तःकरणेन्द्रियाणि प्रमाणत्वेन न सिद्ध्यन्ति, तस्मिन् शास्त्रं, महापुरुषश्च प्रमाणी । शास्त्रमहापुरुषौ तेभ्यः प्रमाणीनि भवतः, ये श्रद्धावन्तः । अतः तत्त्वं केवलं श्रद्धाविषयः, न तु प्रमाणविषयः । प्रारम्भे तु तत्त्वं निश्चयेन श्रद्धाविषयः, परन्तु अग्रे यदा साधकः प्रत्यक्षानुभवं प्राप्नोति, तदा सः श्रद्धाविषयत्वेन न तिष्ठति । शास्त्रं, महापुरुषश्च न बलेन कञ्चन मनुष्यं स्वस्मिन् श्रद्धां स्थापयितुं कथयति । श्रद्धायाः धारणेऽधारणे च मनुष्यः स्वतन्त्रः । यदि मनुष्यः शास्त्रवचनेषु, महापुरुषवचनेषु च श्रद्धां वहति, तर्हि तत्त्वं तस्य कृते श्रद्धाविषयः अन्यथा न ।
'नित्यस्य' - तद् तत्त्वं नित्यम् अस्ति । कस्मिंश्चिद् कालेऽपि एतस्य अभावः न भवति ।
'अन्तवन्त इमे देहा उक्ताः शरीरिणः' – एतस्य अविनाशिनः, अप्रमेयस्य, नित्यस्य च शरीरिणः सम्पूर्णे संसारे यावन्ति शरीराणि सन्ति, तानि सर्वाणि शरीराणि अन्तयुक्तानि सन्ति । अन्तयुक्ताः इत्युक्ते तेषां देहानां प्रत्येकस्मिन् क्षणे नाशः जायमानः अस्ति । तेषु अन्तं विहाय अन्यद् किमपि न भवति । तत्र केवलम् अन्तः एव भवति इति । उपर्युक्ते पदे शरीरिणे तु एकवचनस्य प्रयोगः अस्ति, परन्तु शरीरस्य कृते बहुवचनस्य प्रयोगः अस्ति । तस्य कारणम् अस्ति यत्, प्रत्येकप्राणिनः स्थूलसूक्ष्मकारणशरीराणि भवन्ति । अपरं कारणम् अस्ति यत्, अखिले संसारे शरीरेषु एकः शरीरी एव व्याप्तः अस्ति इति । अग्रे एषः शरीरी 'सर्वगतः' इति वदिष्यति [१] । एषः शरीरी अविनाशी अस्ति, परन्तु तस्य मन्यमानानि शरीराणि नाशवन्ति सन्ति । यथा अविनाशिनः कोऽपि विनाशं कर्तुं न शक्नोति, तथैव नाशवतं विनाशाद् रक्षितुं न कोऽपि समर्थः ।
'तस्माद् युध्यस्व' - 'तस्माद्' इत्यस्य पदस्य प्रयोगेणात्र युक्तेः बोधः भवति । अर्थात् युक्तिः अवगता चेत्, युध्यस्व इति । गीताशास्त्रे 'तस्मात्' इत्यस्य पदस्योपयोगः बहुधा विषयसमाप्तौ, युक्तिसमाप्तौ च अभवत् । भगवान् अर्जुनम् आज्ञापयति यत्, सदसतोः औचित्यं ज्ञाते सति युद्धं कुरु इति । अर्थात् प्राप्तकर्तव्यस्य पालनं कुरु इति । अस्य तात्पर्यम् अस्ति यत्, शरीरं तु अन्तयुक्तम् अस्ति तथा च शरीरी अविनाशी । तयोः उभयोः विषये शोकः सर्वथा अस्थाने एव । अतः शोकं त्यक्त्वा युध्यस्व इति ।
मर्मः
सम्पादयतुअत्र 'अन्तवन्त इमे देहाः' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतानि सर्वाणि शीराणि नाशवन्ति सन्ति । परन्तु शरीराणि कस्य ? इति प्रश्ने सति 'नित्यस्य', 'अनाशिनः' इत्युत्तरं भवति । तानि शरीराणि नित्यस्य अस्ति । तात्पर्यम् अस्ति यत्, नित्यतत्त्वं यस्य कदापि नाशः न भवति, तेन शरीरेषु ममत्वम् आरोपितम् अस्ति । ममत्वस्थापनस्य अर्थः भवति यत्, स्वस्य शरीरेषु, शरीराणाञ्च स्वस्मिन् आरोपणम् । स्वस्य शरीरेषु आरोपणं कृते सति 'अहंता' उत्पद्यते । तथैव शरीरं स्वस्मिन् आरोपिते सति 'ममता' उत्पद्यते ।
शरीरी यत्र यत्र स्वं क्षिपति, तत्र तत्र 'अहम्' उत्पद्यते । यथा धने, राज्ये, विद्यायां, बुद्धौ, सिद्धौ, शरीरे च स्वं क्षिप्ते सति क्रमेण अहं धनी, राजा, विद्वान्, बुद्धिमान्, सिद्धः, शरीरं चेति अभिधानं भवति । सः शरीरी यद् वस्तु स्वस्मिन् आरोपयति, तद् वस्तु प्रति तस्मिन् 'ममत्वम्' उत्पद्यते । यथा कुटुम्बं, धनं, बुद्धिं, शरीरं च स्वस्मिन् स्थापिते सति क्रमेणं कुटुम्बं मे, धनं मे, बुद्धिः मे, शरीरं मे इति भावः उत्पद्यते । जडपदार्थैस्सह 'अहन्ता', 'ममत्वं' च उत्पन्ने सति विकाराः उत्पद्यन्ते । तात्पर्यम् अस्ति यत्, शरीरम्, अहं च भिन्नौ स्तः इति विवेके नष्टे समनन्तरं विकाराः उत्पद्यन्ते इति । परन्तु शरीरशरीरिणोः भिन्नत्वस्य विवेकी पण्डितः निर्विकारी भवति । सः कदापि न शोकासक्तः भवति । किञ्च सदसतोः अनुभवः सर्वदा भवति तेषाम् ।
पूर्वस्मिन्, एतस्मिन् च श्लोकयोः सदसतोः विवेचनं विशेषेण प्राप्यते । अस्य कारणम् अस्ति यद्, सर्वेषु विषयेषु भगवतः लक्ष्यं सतः बोधनम् एवास्ति । सतः बोधे सति असतः निवृत्तिः सहसा भवति । ततः न कोऽपि सन्देहः अवशिष्यते । एवं सतः अनुभवोत्तरम् असन्देही भूत्वा कर्तव्यपालनं कर्तव्यम् इति । साङ्ख्ययोगे, कर्मयोगे च विशेषवर्णस्य, आश्रमस्य वा आवश्यकता नास्ति इति उक्तेन विवेचनेन सिद्ध्यति । स्वकल्याणाय साङ्ख्ययोगस्य, कर्मयोगस्य वा अनुष्ठानचयने मनुष्यः स्वतन्त्रः । परन्तु व्यावहारिककार्येषु वर्णाश्रमानुगुणं शास्त्रविधानस्य परमावश्यकता अस्ति । अतः अत्र साङ्ख्ययोगानुसारं सदसतोः विवेचनं कुर्वन् भगवान् युद्धं कर्तुम् आज्ञापयति ।
अग्रे यदा ज्ञानसाधनानां वर्णनं करिष्यति, तत्रापि पुत्रस्त्रिगृहादीनाम् आसक्तेः निषेधः विदिष्यति [२] । यदि सन्न्यासिनः एव साङ्ख्ययोगस्य अधिकारिणः अभविष्यन्, तर्हि पुत्रस्त्रिगृहादिषु अनासक्तिः भवेद् इत्यस्य वचनस्य आवश्यकता एव नाभविष्यत् । यतः संन्यासिनां पुत्रादयः न भवन्ति एव । एवं गीताशास्त्रस्य आशयः स्पष्टः अस्ति यत्, साङ्ख्ययोगः, कर्मयोगः च उभे परमात्मप्राप्त्यै स्वतन्त्रे साधने स्तः । ते वर्णाश्रमानुगुणं साधनीये इति नास्ति ।
भाष्यार्थः
सम्पादयतुयेषाम् अन्तः भवति, ते विनाशिनः । ते अन्तयुक्ताः । यथा मृगतृष्णादिषु विद्यमाना जलविषयकी सत्-बुद्धिः प्रमाणे सति विच्छिन्ना भवति, स एव तस्याः अन्तः, तथैव एतानि सर्वाणि शरीराणि अन्तयुक्तानि सन्ति । तथा च स्वप्न-माया-शरीरादिवत् शरीराणि अपि अन्तयुक्तानि सन्ति इति । अतः एतस्य अविनाशिनः, अप्रमेयस्य, शरीरधारिणः, नित्यस्य आत्मनः सर्वाणि शरीराणि विवेकिपुरुषैः अन्तयुक्तानि उक्तानि इत्यभिप्रायः ।
'नित्यः', 'अविनाशी' इत्येतयोः शब्दयोः प्रयोगो न पुनरुक्तिदोषः । किञ्च संसारे नित्यत्वस्य, नाशस्य च दौ भेदौ प्रसिद्धौ स्तः । शरीरं दहनोत्तरं भस्मीभूते सति अदृश्यं सद् 'नष्टं' मन्यते । रोगादियुक्तं शरीरं विपरितपरिणामं प्राप्नोति चेदपि 'नष्टं' मन्यते । अतः उक्तयोः पदयोः प्रयोगः नाशभेदयोः सम्बन्धे अभवत् । अर्थात् उभयोः नाशभेदयोः आत्मना सह कोऽपि सम्बन्धः नास्ति इति । यदि एवं नावदिष्यद्, तर्हि पृथ्व्यादिवद् आत्मनः नित्यत्वं पर्यलक्षयिष्यत् । तस्य भावस्य आरोपणं निराकर्तुम् 'अविनाशी', 'नित्यः' इत्येतयोः पदयोः प्रयोगः कृतः ।
प्रत्यक्षादिप्रमाणैः यस्य स्वरूपनिश्चयः न भवति, सः अप्रमेयः ।
पू. – शास्त्रैः आत्मनः स्वरूपं तु पूर्वस्माद् एव निश्चयीकृतम् अस्ति, तर्हि प्रत्यक्षादिप्रमाणैः तस्य ज्ञानं तु सहजं सिद्धम् अस्ति । (तर्हि सः अप्रमेयः कथम् ?) –
उ. – एवं कथनम् अयोग्यम् । यतो हि आत्मा स्वतः सिद्धः अस्ति । प्रमातृत्वेन आत्मनः सिद्धे सत्येव जिज्ञासोः प्रमाणविषयकी अन्वेषणयात्रा आरभते । यतः 'अहम् अमूकः अस्मि' एतादृशे ज्ञाने सत्येव अन्यान् ज्ञातव्यान् पदार्थान् ज्ञातुं प्रवृत्तिः भवति । तस्माद् पूर्वं तथा प्रवृत्तिः न भवति । आत्मविषये न कस्यापि अज्ञानं भवति च । शास्त्रम् अन्तिमप्रमाणत्वेन मन्यते, (प्रत्यक्षानुमानागमेषु आगमः अर्थात् शास्त्रम् अन्तिमप्रमाणं मन्यते ।) आत्मनि कृतम् अनात्मपदार्थानाम् अध्यारोपणं दूरीकृते एव आत्मनः विषये तद् प्रमाणभूतं भवति । तच्च शास्त्रम् अज्ञानभूतपदार्थानां ज्ञानं कारयितुं निमित्तं न भवति । 'यत्साक्षाद् अपरोक्षम् अस्ति, तदेव ब्रह्म अस्ति । सः आत्मत्वेन एव हृदये व्याप्तः अस्ति' [३] इत्यादि श्रुतिः अपि कथयति । एवम् आत्मा नित्यः, निर्विकारी च सिद्धः, अतः त्वं युद्धं कुरु । अर्थात् युद्धाद् उपरामो मा भव इति ।
अत्र उपर्युक्तेन कथनेन युद्धस्य कर्तव्यतायाः विधानं न सिद्ध्यति, किञ्च युद्धे प्रवृत्ते समनन्तरमेव शोकमोहादिग्रस्तः अर्जुनः तूष्णी अभवत् । तस्य कर्तव्यस्य प्रतिबन्धमात्रम् एव भगवान् अपसारयति । अतः 'युध्यस्व' इति अनुमोदनमात्रम् । अर्थात् विधिः (आज्ञा) न ।
भाष्यार्थः
सम्पादयतुदेहानां तु विनाशत्वम् एव स्वभावः इति कथयति -
'देह' इत्येषः शब्दः 'दिह उपचये' इत्यनेन धातुना व्युत्पन्नः । उपचयः अर्थात् अनेकेषाम् अवयवानां सङ्घातरूपः (अवयवभागरूपः) एषः देहः (शरीरम्) अन्तवान् अस्ति । यतो हि अवयवानां सर्वे सङ्घातरूपघटादिपदार्थाः अन्तवन्तः परिलक्षिताः । कर्मफलस्य उपभोगं कारयितुम् उत्पन्नानि भूतसङ्घातरूपाणि यानि शरीराणि, 'पुण्यकर्मणः पुरुषः पुण्यात्मा भवति अर्थात् पवित्रशरीरं धरते' [४] इत्यादि शास्त्रे उक्तं, तानि शरीराणि कर्मणां समाप्तिना सह नश्यमानि सन्ति । परन्तु आत्मा अविनाशी अस्ति, यतो हि सः अप्रमेयः (मापन-भार-परिमाणादिभ्यः परः) । आत्मा शरीरादिवद् प्रमेयः नास्ति, अपि तु प्रमातृरूपेण अस्ति । गीताशास्त्रे एव एतस्य उपस्थापनम् अस्ति यत्, यः एतद् जानाति, तं ज्ञानीजनाः क्षेत्रज्ञः इति कथयन्ति [५] इति ।
आत्मा अनेकावयवयानां समुदायत्वेन नोपलभ्यते । सम्पूर्णे शरीरे 'अहम् इदं जानामि' इति शरीराद् भिन्नस्य आत्मनः प्रमातृभावेन एकरूपेणैव उपलब्धिः भवति । तथा च शरीरादिवद् देशभेदे सति प्रमातुः आत्मनः आकारभेदः न भवति । अतः एकरूपे सति, अनेकावयवानां समुदायाभावे सति, प्रमातृत्वाद्, व्यापकत्वाच्च आत्मा नित्यः अस्ति । शरीरम् अनेकावययवानां समुदायः, तद् आत्मानं कर्मफलं भोगयितुं उत्पन्नम् अनेकरूपेषु, व्याप्येषु च सति विनाशशीलम् अस्ति । अत एव देहस्य स्वभावः विनाशी, आत्मनश्च स्वभावः नित्यः । एवं तयोः कृते शोकविषय एव अयोग्यः । अतः शस्त्रपाताद्यनिवार्याः कठोरस्पर्शाः, ये स्वयम्, अन्ये च प्राप्स्यन्ति, तान् धैर्येण सह्यन् त्वम् अमृतत्वस्य प्राप्त्यै फलाभिसन्धिरहितस्य युद्धरूपिकर्मणः आरम्भं कुरु ।