सदस्यः:111.90.171.132/प्रयोगपृष्ठम्

श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः । । १.०१ । । गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः । । १.०२ । । चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिं । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः । । १.०३ । ।