सदस्यः:1940881GDDhanush/प्रयोगपृष्ठम्

सञ्चिका:Acharya Nathamuni.jpg
ज्येष्टेऽनुराधासम्भूतं वीरनारायणे पुरे ।गजवक्त्रांशमाचार्यमाद्यं नाथमुनिं भजे ।। श्री नाथमुनि: आचार्यः

श्री नाथमुनि:

सम्पादयतु

ज्येष्टेऽनुराधासम्भूतं वीरनारायणे पुरे ।

गजवक्त्रांशमाचार्यमाद्यं नाथमुनिं भजे ।।

अहं आद्यं आचार्यं नाथमुनिं भजे  (यः) वीरनारायणे पुरे ज्येष्टमासे अनुराधा नक्षत्रे सम्भूतः

गजवदनस्य (विष्णोः सेनादिपतेः विष्वक्सेनस्य गणेष्वेकः) अंशे ।।

आळवार् विरचित दिव्यप्रबन्धम् आचार्येण नाथमुनिना पुनः उध्दारः कृतमासीत् ।

श्री वैष्णव संप्रदायस्य प्रारम्बः नारायणात् समारब्ध्वा लक्ष्मी मध्यमे च नाथमुनिः एव प्रथमः आचार्यः इति मन्यते ।

यदि ग्रन्थानां सम्रक्षणं नहि क्रियते तर्हि तेषां क्षयः सुनिश्चितमेव । एवमेव आळवार् विरचित दिव्यप्रबन्धम्  अपि कालानुक्रमेण क्षयः अभवत् ।

दक्षिण भारतस्य तमिऴ्नाडु प्रदेशे वीरनारायणपुरे  भगवान् हरिः वेदनारायणः इति आराध्यमानः अस्ति । एतत् क्षेत्रं तमिळु भाषायां "काट्टुमन्नार कोविल् " इति उच्यते |

पुरा  तस्मिन्नेव वीरनारायणपुरे  ईश्वरभट्टः इति विष्णुभक्तः निवसति स्म । एषां पुत्रत्वेन नाथमुनिः जन्म लेभिरे ।

बाल्ये अल्पायुषौ एव नाथमुनिः सर्वेषु वेदेषु पारङ्गतः अभवत् । तदनन्तरं प्राप्त समुचित वयसि विवाहितः अभवत् ।  तदनन्तरं क्षेत्रयात्रार्थं उत्तरभारतं प्रति यात्रा कृतम् । उत्तरभारते श्रीकृष्णस्य संदर्शनानन्तरं तत्रैव निवासः कृतम् । तत्र सः नित्यं श्रीकृष्णस्य सेवायां निरतः आसीत् । एवमेव बहुदिनानि व्यतीतानि । एकस्मिन् निशायां भगवान् वेदनारायणः तस्य स्वप्ने समागत्वा तं पुनः वीरनारायणपुरं समागच्छ इति तस्मै आदिशति । नारायणस्य आज्ञामनुसरन् झटिति एव सः  वीरनारायणपुरं प्रति प्रस्थानमकरोत् । मार्गे सः कुम्भकोणम् अससाद । तत्र भगवतः सारङ्गपाणेः दर्शनम् कृतम् ।

। आलयस्य प्राङ्गणे सः केनापि भक्तैः स्तूयमानम्  "आरावमुदे" इति नम्माऴ्वार् विरचितं स्तोत्रं श्रुतम् ।  एनम् श्रुत्वा बहु आनन्दितः नाथमुनिः तान् भक्तान् अस्य विषये प्रृच्छति स्म । तेभ्यः ज्ञातं यदेतत् नम्माऴ्वारस्य रचना अस्ति  एतत् सहस्रस्य शतश्लोकाः एव न तु संपूर्णं रचना इति । इदं  श्रुत्वा नाथमुनेः मनसि संपूर्णं ग्रन्थम् अधीतुम् इच्छा समुत्पन्ना । ते भक्ताः ऊचुः तं नाथमुनिं नम्माऴ्वारस्य जन्मक्षेत्रं गच्छ तत्र किमपि प्राप्तुं शक्यते इति । 
 
श्री शठकोपः नम्माळ्वार् , विष्वक्सेनस्य अंशावतारः

तेऽपि आनन्देन कुरुगापुरिं (नम्माऴ्वारस्य जन्मक्षेत्रं) प्रति गतवन्तः । परं तत्र इतस्ततः परिभ्रमन्नपि किमपि नहि प्राप्तं । मार्गे कोऽपि वृद्धः विप्रः पराङ्कुशदासः मिलति स्म। नाथमुनेः व्यथां कथां च श्रुत्वा सः विप्रः पराङ्कुशदासः नाथमुनिं नम्माऴ्वार् विरचितं अन्य एकादश श्लोकान् प्रयच्छति स्म । पराङ्कुशदासः तं नम्माऴ्वाराय "कन्निन् सिरुदम्बु" इति स्तोत्रं द्वादशसहस्र वारं भक्त्या जपं कुरु स्वयं नम्माऴ्वार् भवते दर्शनं प्रदास्यति इति उपदिशति ।

पूर्वं कुरुगापुरौ नम्माळ्वार् बाल्ये षोडश वर्षपर्यन्तं तिन्त्रिणी वृक्षस्य अधः तपः आचरति स्म । तस्यैव तिन्त्रिणी वृक्षस्य अधः स्थित्वा नाथमुनिरपि तपः आचरति स्म । यदा द्वादसहस्रवारं पारायणः सम्पूर्णमभवत् तदा स्वयं नम्माळ्वार् प्रसन्नो भूत्वा दर्शनम् प्रयच्छति स्म । न केवलम् सह्रपद्याः परं तस्मै नाथमुनये सम्पूर्णम्  चतुरसहस्र दिव्यप्रबन्धम् अयच्छत् । अस्य दिव्यप्रबन्धस्य प्रचारः कृतः नाथमुनिना । ते अनन्तरं श्रीरङ्गे श्रीरङ्गनाथस्य मन्दिरे प्रधानार्चक रूपे कार्यनिर्वहनम् कृतवन्तः। तेषाम् निर्वहनकाले नित्यसेवायां दिव्यप्रबन्धस्य पारायणः आयोजितः । एवम् नाथमुनिवर्येण श्रीवैष्णव् सम्प्रदायस्य उद्धारः कृतः । नाथमुनिवर्येण "न्यायतत्वम्" "योगरहस्य" इति ग्रन्थद्वस्य रचना कृतम् । ते स्वजीवनम्  श्रीमन्नारायणस्य सेवार्थं समर्पितवन्तः । तेे गङ्गैकोण्ड चोळपुर्यां निधनम् गतवन्तः । आयुषि गतायुषि वैकुण्ठम् प्राप्तवन्तः ।

एषः नाथमुनेः पुत्रः ईश्वरमुनिः , यस्य पुत्रः सव्यं महाविद्वान् यामुाचार्यः । नाथमुनिः "शडामर्शन कुल तिलकः" , "सोत्तैकुल अरसर् " , "रङ्गनाथाचार्यः" इत्यादि नाम्नापि स्मृतः ।

वयमपि नाथमुनि: इव विष्णुभक्तिं कृत्वा वैकुण्ठं तद्विष्णोः परमं पदं प्राप्नुमः ।