प्रदूषण समस्या

वायुप्रदूषणम्

वायो: प्रदूषणस्य समस्या वर्तमाने औद्योगिके युगे प्रमुखसमस्या वर्तते। इयं समस्या दिनप्रतिदिनं वर्धते एव। अनया सर्वत्र एव प्रदूषणं प्रसरति अधुना। कुत्रापि स्वच्छ: वायुः स्वच्छं जलं, स्वच्छं भोजनं च नैव प्राप्यते। सम्पूर्णः एव वायुमण्डल दूषितः संजातः अद्यत्वे। अनेन प्रदूषणेनैव जनाः अनेकैः व्याधिभिः ग्रस्ता: दृश्यन्ते अधुना। कुत्रचित् हृदयरोगेन, कुत्रापि पोलियोरोगेण, कुत्रापिश्वासरोगेण, कुत्रापि नेत्ररोगेण एवमेव अन्यैः अनेकै: रोगैः पीडिताः दृश्यन्ते जनाः अद्यत्वे।

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते।

प्रदूषणानि विविधानि भवन्ति तद्यथा-वायुप्रदूषणम्, जलप्रदूषणम्, ध्वनि-प्रदूषणम् च। वायुप्रदूषणम् सर्वाधिकं भयंकरम् अस्ति यतः श्वासमाध्यमेन दूषितः वायुः मानवशरीरे प्रविशति। दूषित: वायुः विभिन्नानां रोगाणां कारणं भवति। दूषितवायु: सेवनम् अतीव हानिप्रदम् अस्ति।

वायुप्रदूषणस्य प्रमुखतमं कारणम् अद्यत्वे औद्योगिक विकासः वर्तते। नित्यं सर्व च उद्योगानां विकासः भवति अद्य। वृक्षाणां विनाशं कृत्वा सर्वत्र औद्योगिक क्षेत्राणामेव विकासः क्रियते। विज्ञानस्य प्रगत्या नित्यं नूतनयंत्राणाम् आविष्कारः भवति। मानवजीवनं यंत्रवत् संजातम्। अद्य सर्वाणि एव कार्याणि यंत्राणां सहयोगेन साध्यन्ते। यंत्र-साहाय्येन विना किञ्चिदपि कार्य सम्भवं नास्ति। यंत्रालयानां यानानां च धूमेण वायुमण्डल: पूर्णरूपेण दूषितः भवति। जनसंख्यायां निरंतरं वृद्धिः अपि प्रदूषणस्य महत्त्वपूर्ण कारणं वर्तते।

प्रतिदिनं परमाणुयंत्राणां रेडियोधर्मिता सर्वत्र प्रसरति, विषाक्तगैसीयतत्वानां प्रसारण, बृहदाकारौद्यौगिक यंत्राणामपशेषितैः पदार्थैः,विविधानां यानादीनां धूमपुञ्जेश्च तथैवान्यैः संयंत्रादिभिः सर्वत्रवातावरणं भूलोकस्य वायुमण्डलं प्रदूषितं भवतीति वृत्तं दृग्गोचरी भवति। अस्मिन् वैज्ञानिके युगेऽपि यदि पर्यावरण प्रदूषणस्य निरोधोपायः समुचितो न स्यात्तदा कस्मिन् युगे भविष्यति।

पर्यावरणप्रदूषणस्य प्रभावाद् जगति रोगदीनां वृद्धिः सञ्जाता, अन्नपानादिषु रेडियोधर्मिपदार्थानां सम्मिश्रणात् सर्वत्र वायुमण्डलम तु दूषितं भवत्येव, तस्माद् आनुवंशिकप्रभावोंऽपि भवति। अनेन भविष्यत्काले मानवसभ्यताया विनाशोऽवश्यम्भावीति निश्चप्रचमा विश्व स्वास्थ्य संघटनेन पर्यावरणसन्तुलनार्थमनेके उपायाः प्रतिपादिताः। अस्माकं देशेऽपि पर्यावरणप्रदूषणस्य निवारणार्थं सर्वकारद्वारा व्यवस्था क्रियते, तदनुसार, गंगानद्याः स्वच्छताभियानं, अशुद्धजलमलादीनां, विशुद्धयर्थं संयन्त्राणि स्थाप्यन्ते जनजागरणमपि प्रचलति प्रदूषणनिवारणस्योपायाः, विधयश्चापि निर्दिश्यन्ते। एवञ्च विविधोपायैरेव पर्यावरणस्य संरक्षणं भवितुमर्हति।

प्रदूषणस्य यथाशीघ्रं समाधानं कर्त्तव्यम् अस्माभि सर्वेः। वृक्षाः मानवानां महत्त्वपूर्णानि मित्राणि सन्ति। वायोः शुद्धिं साधयन्ति, वायुप्रदूषणं च निवारयन्ति। वृक्षारोपणं वायुप्रदूषणस्य समस्यायाः सरलतमं समाधानं वर्तते। नवीन-वृक्षाणाम् आरोपणं नित्यमेव कर्त्तव्यम्।

वृक्षाः

उपसंहारः

सम्पादयतु

यंत्रालयानां मलिनता जलाशयानां जलं मलिनं करोति। मलिनेन एव जलेन कृषिसिञ्चनं क्रियते। अनेन न केवलं जलमेव मलिनं भवति, अपितु अन्नमपि मलिन भवति। एवं स्वस्थशरीरस्य चिन्तनमपि कथं संभवम्?

यंत्रालयानां कोलाहलेन ध्वनिप्रदूषणमपि भवति। ध्वनिप्रदूषणं हृदयरोगाणां, श्रोत्ररोगाणां च कारणम्-इति नास्ति अत्र संदेहः।

शुद्धः वायु:, शुद्धं जलं, शुद्धं भोजनं, शुद्धं वातावरणं च सर्वेभ्यः एव मानवेभ्यः अनिवार्य भवति। वातावरणस्य स्वच्छता सर्वेषामेव परमं कर्त्तव्यं भवितव्यम्। अस्माभिः सर्वै एव नित्यं नवीनवृक्षाणाम् आरोपणं कर्त्तव्यम्। एवम् अस्माभिः सर्वे सामूहिकरूपेण प्रयासं कृत्वा प्रदूषणसमस्यायाः निदानं कर्त्तव्यम् यतः अनेन कस्यापि शरीरे विकृतेः संभावना न स्यात्।