ॐ नमो भगवते वासुदेवाय| सम्पादयतु

गोपिगीतं सम्पादयतु

रासलीला वर्णनं| सम्पादयतु

श्रीकृष्णः तस्य क्रीदविशयेषु प्रख्यातः| बाल्ये बाललीलाः यथा मनोहराः तथैव यौवनावस्थायां रासलीलनृत्यं अत्यन्तं प्रसिद्धितम्| कलासु नृत्यकला विशिष्टा तासु रासलीला अत्युत्तमा याथः अनेकाः गोपस्त्रियः एकेनैव कृष्णेने सह नृत्यन्ति सुखम् अनुभवन्ति च कथं साध्यम्? इति अत्र विचारयामः|

श्रीकृष्णस्य अश्तमहिश्य: आसन् ताभिः सह अनेकाः गोपस्त्रियः तं कामयन्ते इति प्रसिद्धः| गोपस्त्रियः विवाहिताः काचन पुत्रवत्यः अपि| किन्थु स्वसंसारं विहाय कृष्णं इच्छन्ति इति चेत् अपराधः वा? तथा न गोपस्त्रियः काया वाचा मनसा पतिवृत्यः एव| किन्तु ताः परमात्मानं श्रीकृष्णं अलौकिक पतिं मत्वा तेन सह विहारं कर्तुं इच्छन्ति स्म| एतां आशां तर्पयितुं कृष्णः सर्वाभिः सह युगपत् एव नर्तनं करोति तदेव रासलीला|

 
It includes a painting of lord Krishna performing Raasaleela with several Gopikas

यमुना तीरे चन्द्रिकायां श्रीकृष्णः वेणुं वादयति सर्वाः अपि गोपस्त्रियः पतिं श्वसुरौ अपत्यं करणीयानि कार्याणि इति सर्वं त्यक्त्वा यमुना तीरं प्रति धावन्ति सर्वाः अपि कृष्णस्य स्पर्शं इच्छन्ति अतः परमात्मा वर्तुलाकारे गोपस्त्रियः संस्थाप्य सर्वासां हस्तं गृहणाति एकैक अपि कृष्णस्य स्कन्धे शिरः हस्तं चुबुकं इत्यादि स्पर्शनेन आनन्दं अनुभवन्थि | आरत्री नृत्यन्ति एवं यमुनातीरस्य पुलिनेषु चन्द्रिकायां अनेकाभिः युवतॆभि: सह एकस्य श्रीकृष्णस्य सुन्दरं नर्तनम् एव रासलीला | तस्मिन्नेव समये राधा प्रत्येक श्रीकृष्णस्य सहवासम् इच्छति तस्याः आशामपि संतर्पयति कृष्णः | गोपस्त्रियः सुन्दरं गायन्ति वीण म्रुदङ्ग: इत्यादि संगीतवध्यान वादयन्ति | यां कथं कवयः स्तुवन्ति श्रोतुं मङ्गलकरं कल्मशहारी च अस्ति तादृशी स्तोत्रम् वयमपि स्तुमः | अस्माकं मानसिकी पीडां परिहार इति याचन्ते | भवरोग वैद्यः श्रीकृष्णः तासां कामज्वरं निवारयितुं एवं अपायम् आचरति तदेव सामूहिक नृत्यं यदा कृष्णः राधया सह किञ्चित् दूरं गच्छति तदा अन्याः गोपस्त्रियः न जानन्ति एव |

कृष्णस्पर्शन आनन्देन ताः तावत् शारिरिकविस्मरनमेव अनुभवन्ति | तासां नूपुरध्वणिः तेन सह कृष्णस्य वंशीवादनं यमुनायाः कालकल्रवः मन्दमारुतः एतैः सह पौर्निमायाः चन्द्रिका मिलित्वा असदृश विशिष्टतमा कला- रासलीला |

पूर्वं नरकासुरस्य कारागारे अनेका स्त्रियः बध्द्धाः आसन | नरकासुरं इतव भगवान् विष्णुः एतासां बन्धनं मोचितवान् | तदा सर्वाः स्त्रियः प्रथितवत्यः - "एतावन्ति वर्षाणि अस्य कारागृहे बद्धानां अस्माकं जीवनं कलुशितम् - अतः अस्मानुद्धर" इति | अतः विष्णुः एवं कृष्णावतारे अहं सर्वासामपि पतिरूपेण विहारं कृत्वा भवतां भवसागरात् मोचयिष्यामि इति वरं दत्तवान् |

अस्य रासलीलायाः व्याजः अपि तस्य वरदानस्य पूरणम् | एवं पुरानप्रसिद्धं रासलीलां वर्णयित्वा मम प्रबन्धं समापयमि |