सदस्यः:2040444smruthi/प्रयोगपृष्ठम्

सदाचारः


सतां सज्जनानां वा आचारः सदाचारः इति कथ्यते । येन विधिना सज्जनाः संसारे, कुटुम्बे अन्यैः जनैः सह आचरन्ति व्यवहरन्ति वा स एव सदाचारः ।

आचारस्य भूयान् महिमा । आचरणेनैव मनुष्यस्य चरित्रं ज्ञायते । यः शोभनम् आचरति स एव सज्जनः, यः दुष्टम् आचरति स एव समाजे दुर्जनः इति अभिधीयते ।

अस्माकं शास्त्रैरपि ‘आचारः परमो धर्मः’ इति उद्धृष्यते ।

वस्तुतः, धर्मश्च आचारश्च एकमेव तत्त्वम् अस्ति। यानि धर्मस्य तत्त्वानि, तानि सर्वाण्याचारे समाधीयन्ते ।

सदाचारवान् जनः सर्वैः सह स्नेहेन मैत्रीभावेन च व्यवहरति । कमपि जनमापन्नं क्षुधार्तं वा दृष्ट्वा तस्य हृदयं द्रवीभवति स च तस्य, साहाय्यं विदधाति । तस्यार्थाय कष्टं सोढ्वाऽपि प्राणपणेनापि सः प्रयतते ।

एतादृशो जनो न कदापि चौर्यमाचरति यतो ह्यनेन अन्यस्य हानिः भवति, न चासत्यं भाषते यतो ह्यसत्यभाषणेनापि अपरस्य अहितमेव भवति ।

मनुष्याः स्वार्थपरवशतया ऽ सत्यं भाषमाणा धनसम्पत्ती चार्जयन्तो दृश्यन्ते, परन्तु अनेन निखिलः समाजो दुष्यति परस्परं च अविश्वासो जायते ।

सदाचारवान्नरः अकर्मण्यो न य कर्मणि तत्पर दृश्यते । एतादृशस्य जनस्य सर्वाणि कर्माणि स्वार्थवृत्तिरहितानि परमात्मने राष्ट्राय वा समर्पितानि भवन्ति ।

जनहितं बन्धुहितं च तस्य दृष्टौ प्रमुखतां भजतः ।आचारविहीनस्य जनस्य समाजे क्वचिदपि स्थानं न वर्तते । सः यद्यपि प्रभुत्वकारणाद् वा धनकारणाद् वा कालविशेषे वा सम्मानितः स्यात्, परन्तु आचाराभावात् जनाः सर्वदा सर्वकालेषु च तं न सम्मानयन्ति, न च तस्मिन् विश्वसन्ति ।

परमात्मोपलब्धये, भक्तये, स्वसुखशान्तिभ्यां च अपि मनुष्येण अवश्यमेव सदाचारिणा भाव्यम् । नारायणो ऽ पि नरान् प्रति निष्कपटस्निग्धसत्यव्यवहारेणैव प्रसीदति ।

इयं च लोकविश्रुता कथा यत् यदा वाल्मीकिना दस्युप्रवृत्तिः परित्यक्ता, केवलं तदैवासौ भगवद्भक्तौ आसक्तो ऽभवत्, तदैव च तेन रामायणसदृशम् अमरकाव्यं विरचितम् ।

अतः आत्मोत्कर्षाय समाजोत्कर्षाय परमशान्त्युपलब्धये च सदाचारः परमावश्यकः ।

यो जनः सदाचारपथे वर्तते, तस्य मनसि न मनागपि भयमस्ति, भौतिकसुखमप्राप्यापि तस्य मानसिकं सुखम् अपरिमितं विद्यते ।

https://en.wikipedia.org/wiki/Discipline

https://www.merriam-webster.com/dictionary/discipline

https://hygger.io/blog/best-books-on-self-discipline/