सदस्यः:2040896vihanprabhu/प्रयोगपृष्ठम्

व्यायामः


एतत् कथ्यते शरीरमाद्यं खलु धर्मसाधनम्’। स्वस्थशरीरेण एव धर्माचरणं कर्तुं प्रभवति नरः। स्वस्थशरीरं कस्मात् प्राप्येत। अस्य स्वास्थ्यस्य अनेकानि साधनानि सन्ति। तेषु ‘व्यायाम' इति महत्त्वपूर्णं साधनमस्ति।

यदि मनुष्य: दीर्घायुः वाञ्छति, तर्हि तेन नियमित व्यायाम करणीयः। स्वास्थ रक्षायै व्यायाम: अतीव आवश्यकः अस्ति। नियमित व्यायामनैव शरीरं नीरोगं जायते।

व्यायामस्य अनेके लाभा: सन्ति। अनेन बलं वर्धते, शरीरस्य सर्वेषां अंगानां विकासो भवति, तथा शरीरे रुधिर संचारः सम्यक् भवति। प्रात:काले वायुः प्रदूषणरहितः अस्ति। अतः प्रतिदिनं व्यायामेन शुद्धवायुं लभते। प्रात:काले वातावरणमपि उत्साहवर्धकमस्ति। अत: प्रात:काले एव व्यायाम: करणीयः। व्यायामः गृहे न कर्तव्यः। सदैव क्रीडा स्थाने, उद्याने वा करणीयः। नियमित व्यायामेन शरीरे रोगाः न उद्भवन्ति। शरीरस्य रोगेभ्यः रक्षणाय व्यायामः आवश्यकः।

यथा व्यायाम: आवश्यकः तथा उचित आहार सेवनमपि आवश्यकम्। व्यायामेन क्षुधावर्धनं भवति, किन्तु उचितं भोजनमेव सेवितव्यम्। चरकसंहिताया कथितम् ‘न अदेशे, न अकाले, न प्रतिकूलोपहित, न पर्युषितम् अन्नं सेवितव्यम्।‘ यदि आहारः उचितो नास्ति तर्हि व्यायामस्य किम् उपयोग? अतः मानवेन सर्वान् स्वास्थ्यनियमान् पालनीयाः। स्वस्थशरीरस्य द्वे प्रमुखे साधने स्तः उचितः व्यायामः श्रेष्ठ भोजनं च।

स्वस्थ शरीरं मानव: कार्यकुशलः भवति। रुग्ण: मानवः किमपि कार्यं कर्तुं असमर्थः। धर्म-अर्थ-काम-मोक्ष एते चत्वाराः पुरुषार्थाः। तेषां प्राप्यर्थं शरीर स्वास्थ्यं आवश्यकम्। स्वस्थे शरीरे स्वस्थ आत्मा निवसति इति मन्यते।

आरोग्यशालिनां जीवनम् आनन्ददायकं भवति। ये जनाः दीर्घजीवनं, स्वस्थजीवनं वाञ्छन्ति तैः व्यायामः अवश्यमेव करणीयः एतदेव अन्ते कथनम्।