प्रस्थानत्रयी

सम्पादयतु

मानवजीवनं बहुमूल्यम् भवति अतः प्राचीनकालादेव ताः उपायाः ग्रन्थेषु उपलभ्यन्ते। बहुसूत्रे उपविश्य वेदान्तदर्शनस्य प्रमुखः सिद्धान्ताः समासरूपे दृश्यन्ते । तेषु ग्रन्थेषु उपनिषदः गीता ब्रह्मसूत्रश्च विशेषोल्लेख्याः । उपनिषदः अध्यात्मज्ञानस्य ‘मूलम्’ इति कथ्यन्ते। गीतायाम् उपनिषदां विविधसिध्दान्ताः भगवता व्यासेन सरलरीत्या उपनिबध्दाः सन्ति।

सम्पादयतु

उपनिषद्

सम्पादयतु

उपनिषद् शब्दस्तु उप - नि - उपसर्गपूर्वात् सद् धातोः क्विप् प्रत्यये कृते निष्पध्यते अतः शब्दस्यास्य अर्थः भवति - तत्वज्ञानाय गुरोः पार्श्र्वे नषीध्य तत्वज्ञानस्य प्राप्तेः प्रवृत्तिः । अतः सद् धातोः त्रयः अर्थास्सन्ति - नाशः - ज्ञानम् - शौथिल्यम् । ब्रह्मणः समीपगमनं वा भवति, ब्रह्मणः ज्ञानं वा भवति । दुःखानि च विनश्यन्ति । अत एव शङ्कराचार्यः अविधयानाशं एतत् त्रये गृहीत्वा उपनिषदः ब्रह्मविध्यायाः ध्योतकरूपाः ग्रन्थाः मन्यते । उपनिषदां संख्या द्विशतं यावत् मन्यते । एतासु एकादश उपनिषदः मुख्याः सन्ति । संहितान्तरं आरण्यकाख्येषु ग्रन्थेषु याः आध्यात्मिकजिज्ञासा मननं चिन्तनं स्वानुभूतेश्च प्रक्रियाः विकसिताः तासामेव सुव्यवस्थितं परिपक्चञ्च रूपमुपनिषद्ग्रन्थेषु दृष्टिगोचरा भवति । उपनिषत्सु एकतः ज्ञानमार्गस्य उपादेयता वर्णिता अपरश्च कर्ममार्गस्य भक्तिमार्गस्य श्रेष्ठता प्रतिपादिता । उपनिषदां सर्वप्रधाना विशेषतेयमस्ति यद् एताः सर्वत्र विवादास्पदस्थलेषु विविधवादानां समन्वयं प्रस्तौति । विध्या चाविध्या, ज्ञानञ्चकर्म, प्रवृत्तिश्च निवृत्तिः, द्वैताश्चाद्वैतः इत्यादीनां सिध्दान्तानां समन्वयं विरोधपरिहारश्च उपनिषदां प्रमुखलक्ष्यमस्ति । उपनिषत्सु प्रमुखरूपेण ब्रह्मस्वरूपस्यैव प्रतिपादनमस्ति ।


एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।

श्रीमद्भगवद्गीता

सम्पादयतु

भारतीये संस्कृतसाहित्ये श्रीमद्भगवद्गीतायाः अत्यधिकं महत्वं विध्यते । ग्रन्थोऽयं पञ्चमवेदस्वरूपस्य महाभारतस्य अंशभूतः वर्तते । भगवता श्रीकृष्णेन महाभारतयुध्दस्य काले मोहग्रसितं पार्थं प्रति तं धर्मकार्ये संलग्नं कर्तुं तस्य सांसारिकमोहबन्धनं कर्त्तितुं दूरीकर्तुं वा गीतायाः उपदेशः दत्तः । भगवता श्रीकृष्णेन मानवमात्रं प्रति गीतामृतरसं पायितम् ।

 
भगवद्गीता

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।

पार्थो वत्स सुधी भोक्ता दुग्धं गीतामृतं महत् ।।

श्रीमद्भगवद्गीतायां सर्वासां उपनिषदां सारभूतं तत्वं सङ्कलितम् । अतः सर्वा उपनिषदः गोरूपाः , तासां दोग्धा खलु गोपालः नन्दनन्दनः, कौन्तेयः अर्जुनः वत्सस्वरूपः सुधीयः जना आसां अमृतरूपरसानां पातारः । अयमेव रसः गीतामृतरस इति विद्वद्भिः कथ्यते ।

गीता सुगीता कर्त्तव्या कमन्यैः शास्त्रविस्तरैः ।

या स्वयं पद्मनाभस्य मुखपद्माद्विनिः सृता ।।

आत्मस्वरूपविषये गीतायाः द्वितीयेऽध्याये प्रतिपादितं अस्ति । अयं अजः, नित्यः, शाश्वतः,पुराणः अस्ति । एवञ्च देहे हन्यमानेऽपि अयं केनाचित्र हन्यते -

न जायते म्रियते वा कदाचित् नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।

अत्रैव मृत्युस्वरूपविषयकं कीदृशं तथ्थात्मकं वर्णनं भगवता अर्जुनं प्रति वर्णनं । यथा कोऽपि नरः पुरातनं वस्त्रमपहाय नवीनं वस्त्रं धारयति तथैव अयमात्मापि स्वकीयं पुरातनं देहं त्यक्तवा नवं शरीरं प्राप्नोति इदमेव मृत्योः स्वरूपम् -

वासांसि जीर्णानि यथा विहाय

नवानि गृहणाति नरोऽपराणि ।

सञ्चिका:AdiShankaracharya.jpg
जगद्गुरु श्रीआदिशङ्कराचार्यः

तथा शरीराणि विहाय जीर्णान्य -

न्यानि संयाति नवानि देहि ।।

श्लोकोऽयं उपदिशति यत् मृतयुः स्वाभाविकी क्रियास्ति । सर्वेषां प्राणिनां मरणं सुनिश्चितम्, जगत्यास्मिन् कोऽपि नरः न दृश्यते यस्य मृत्युः न भविष्यति नैव चाभवत् । भगवान् श्रीकृष्णः अर्जुनं प्रति उवाच -

“तावधिकारस्तु कर्मणि एवास्ति कर्मफलन्तु तवाधिकारे नास्ति अतः त्वं सततं कर्मणि संलग्नो भव, अकर्मयुक्कदापि त्वया न भवितव्यम् -

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि ।।

हे अर्जुन ـ त्वदधिकारस्तु कर्मसम्पादने एव वर्तते । फलप्रदाने फलप्राप्तौ वा कदापि त्वदीयः अधिकारः नास्ति । अतः त्वं कर्म कुरु ।

ब्रह्मसूत्रम्

सम्पादयतु

प्रस्थानत्रय्याः तृतीयं महत्वपूर्णमाङ्गं बादरायणकृतं ब्रह्मसूत्रमस्ति । ग्रन्थेऽस्मिन् वेदान्तदर्शनस्य मूलभूतसिध्दान्तानां प्रतिपादनं व्यवस्थितरूपे सरलया भाषया च समुपलभ्यते । अस्य ग्रन्थस्य सूत्रोपरि अनेके धीधनाः विद्वांसः व्याख्यारूपेण भाष्यग्रन्थानां चक्रुः ।

एतेषु विद्वत्सु श्रीमत् आदिशङ्कराचार्यस्य नाम अत्यादरपूर्वकं गृह्यते । एते महानुभावाः ब्रह्मसूत्रभाष्यं नामकं भाषाग्रन्थं विरच्य वेदान्तदर्शनस्य बहूपकारं कृतवन्तः । श्रीमत् शङ्कराचार्येण सम्पूर्णप्रस्थानत्रय्योपरि विद्वत्तपूरण भाष्यग्रन्थाः विरचिताः । एतस्य लब्धख्यातिग्रन्थाः उपनिषद् - भाष्यं, गीताभाष्यं, ब्रह्मसूत्रभाष्यं, विष्णुसहस्रनामभाष्यं, सौन्दर्यलहरी, इत्यादयः ग्रन्थाः समुपलभ्यन्ते । ग्रन्थेष्वेतेषु वेदान्त - दर्शनस्य अतिगम्भीरं विवेचनं सरलभाषायां कृतम् । वस्तुतः प्रस्थात्रय्याः एते ग्रन्थाः भारतीयाश्रमव्यवस्थायाः तुरीये आश्रमे अनुशीलनीयास्सन्ति । एतेषाम् अध्ययननिरतानां जनानां हृदि वैराग्यभावः जायतेे । वैराग्येण प्रेरिताः ते अस्माद् दुःखोदर्कात्संसारात् प्रस्थानं कर्तु वाच्छन्ति । संक्षेपेण इदं कथितुं शक्यते यत् साम्प्रतमपि अस्माकं देशे भारतवर्षे वेदान्तदर्शनस्य अध्ययनं मननमध्ययनश्च भवति।

बाह्यसम्पर्कतन्तुः

सम्पादयतु