सदस्यः:2110884Deepthi/प्रयोगपृष्ठम्

मम नाम दीप्ति मोहनः अस्ति.मम जन्म तिथिः १९ फर्वरि २००३ अस्ति. अहं अष्टादश (१८) वर्षाः छात्रा अस्मि.अहं बेङ्गलूरु नगरे निवसामि. अहं Christ विश्वविद्यालये BCom Strategic Finance Hons Course पठामि. मम पितुः नाम श्रीमान् बी.आर्.मोहनः अस्ति . मम मातुः नाम श्रीमती नन्दा मोहनः. अस्ति. मम भगिन्याः नाम विभा मोहनः अस्ति .मम कुटुम्बः रामानुजाचार्यं अनुसरति. अतः अहं विशिष्टाद्वैतिनी अस्मि. मम गृहे वयं तमिळु भाषां वदामः.

अहं मम प्राथमिकविद्याभ्यासं श्रीविद्याकेन्द्रशालायां अकरवम् . दशमकक्षायाः अन्तिम परीक्षायाम् अहं ९८ प्रतिशतं स्वीकृत्वा शालायां प्रथम स्थाने आसम् . अहं ASC महाविद्यालये द्वितीय पदवी पूर्व परीक्षायां १०० प्रतिशतं  स्वीकरोमि.अहं आङ्ग्लभाषायां संस्कृतभाषायां कन्नडभाषायाम्  तमिलुभाषायां च भाषणं कर्तुं शक्नोमि.

कर्नाटक शास्त्रीय संगीतं मह्यं बहु प्रियम्.अतः अहं संगीत - शालां गच्छामि. अहं विद्वत्पूर्व - पाठाः अभ्यसामि .मम संगीतशिक्षिकायाः नाम विदुषी एम्.आर्.मञ्जुला अस्ति. सा मह्यं वीणावादनं अपि अध्यापयति. अहं साम्प्रतम् वीणाशालायां आधार - पाठाः अभ्यासं करोमि.  मम गुरोः कृपया मातापित्रोः आशीर्वादैः श्रीविष्णोः अनुग्रहेण च अहं कचेरिषु अपि गायामि.२०२० वर्षे लोन्दोन् सभा संघटित संगीत कार्यक्रमे अहम् अगायम्.अनेक संगीत स्पर्धेषु अहं बहुमानानि प्राप्तवान् अस्मि.तिरुमले प्रसिद्ध सहस्रदीपालन्करण सेवायाम् अपि अहम् , आचार्यदेवानुग्रहेण, बहुशस्  गायामि . अहं भरतनाट्यम्अपि जानामि.अहं भरतनाट्यशालाम् अपि अगच्छं. परन्तु नृत्यं कृत्वा आहितक्लमा अभवन्. अतः अहं नृत्यम् उत्सृजामि.

अहं धर्मचारिणी अस्मि.द्वादशाळ्वार्विरचित नालायिर दिव्यप्रबन्धं चतुर्वेद समानम् अस्ति[१]. इदं  द्राविडवेद इति अपि प्रसिद्धं भवति. इदम् अहं मम गुरोः वनमालायाह् अध्ययनं करोमि.

मह्यं  क्रीडाविषयेषु अपि महदासक्तिं अस्ति . मह्यं क्रिकेट्क्रीडा बहुप्रिया अस्ति. पादकन्दुकक्रीडा अपि शोभनं वर्तते. बाल्ये अहं पिच्छकन्दुकशालाम् अगच्छम्. तस्य नाम Sports Authority of India इति. मम शाला तेन सह समाहितम् अस्ति अतः एव अहं क्रीडाशालां गन्तुम् अशक्नोत्. दूरदर्शने Formula 1 क्रीडायाः वीक्षणम् अतिमनोरञ्जकम् अस्ति अतः अहं तत् वीक्ष्यामि. शालायां क्रीडादिनेषु मम  महिलायोजनेन सह भागम् आसीत्.

हितावकाशे अहं संस्कृतग्रन्थाः पठयामि. भोजराजस्य चम्पुरामायणः अतिमनोरञ्जकः अस्ति. तस्मिन् ग्रन्थे ताटकायाः हरणस्य विवरणं बहुसुन्दरं अस्ति.

अहम् अत्यन्त दैवभक्ते अस्मि.अतः  अहम् बहुतीर्थयात्राः गच्छामि.तीर्थक्षेत्रेषु अहोबलक्षेत्रं मह्यं बहुप्रियं यतः नरसिंहः मम अत्यन्त प्रिय देवः अस्ति. देवस्थानेषु यदा अहम् गायामि तदा मनःशान्तिः प्राप्तः अस्ति.

विद्योपादेः CMA पूरयित्वा शासन-प्राप्त आङ्किक भवितुम् इच्छामि. विद्यां पूरयित्वा चनेल् इति कार्यालये कार्यं निर्वहितुम् इच्छामि. शिक्षण कार्याम् अपि निर्वहितुम् इच्छा अस्ति. इष्ट- उद्योगं ,यथाशक्ति -दानं ,देवानां सेवः कर्तव्य मम जीवनं सार्थकं कर्तुम् इच्छामि .मम मातापितरो मां  प्रोत्साहं कुरुतः .तो सदा मम हितवाचको स्तः.तयोः आशीर्वादैः  विना जीवनं जीवितुं कष्टसाध्यं भवति. अतः अहं मम मातापितरो सदा संतोषं कर्तुम् इच्छामि .

  1. "The Naalaayira Divyaprabandham".