सदस्यः:Ajith555z/देहलि ८१ टोकियो ८२

देहली ८१ सम्पादयतु

स्वातन्त्र्यप्राप्त्यनन्तरं १९५६ देहलीकेन्द्रशासितप्रदेशः अभवत्।१९९१ वर्षे देहली राष्ट्रीयराजधानी अधिनियम राज्यस्थानम् अवाप्नोत्।१९९१ इत्यस्य गणनानुसारं राष्ट्रीयराजधानी क्षेत्रस्य जनसंख्य २६०.८ लक्षमासीत।अस्मात् देहल्याः ४३.७ लक्षम्।देशस्य अन्य महानगराणामपेक्षया देहल्याः विकासः अन्तिमदशकेषु अधिकगत्य जातोस्ति।विकासेस्मिन् राजनैतिकप्रशासकीयपरिस्थितीनां महत्वपूर्णं प्रदानमस्ति।२०११ वर्षे दिल्लीराज्यस्य जनसंख्या १३८.५ लक्षमभवत्, २००१ तमे दिल्लीनगरस्य जनसंख्य ९८.१७ लक्षमासीत्।इत्य देहली जनसंख्यादृष्ट्या भारते द्वितीये स्थाने तथा विश्वस्मिन् पन्चमस्थाने वर्तते।

उद्योगव्यापारौ

दिल्लीराज्यस्य ग्रामीणक्षेत्रेषु गोधूम्-बर्जरी-चणकादीनां कृषिः क्रियते।किन्तु अधिकलाभकारणेन इदानीं कृषकाः फलोत्पादने,शाकोत्पादने,दुग्धोत्पादने,कुक्कुटपालने च अदिकं ध्यानं यच्छन्ति।देहली लघूद्योगानामपि सर्वेभ्यः महद्केन्द्रमस्ति। येन प्रदूषणं न तनुते एवन्च यस्मिन् जलविध्युत्पृथ्वी न्यूनावश्यकताकारणेन सह केवलं कुशलकर्मकराणामावश्यकता भवति।नूतनशताब्दौ देहल्याः नूतन- औधीगिकनीति अन्तर्गतम् अधुना केवलम् इलेकट्रोनिक विद्युतोपकरणानि,लघु इंजीनियरिंग वस्तूनि यन्त्राणि,वाहनानि इत्यादयः भवन्ति।

परिवहनम्

देहली मोटरमार्गेण, रेलमार्गेण, वायुयानसेवया च देशस्य सर्वभागेभ्यः सम्यक्त्या संलगनास्ति अत्र त्रयः वायुयानमुख्यालयाः विद्यन्ते।देहल्यां त्रीणि महत्वपूर्णानि रेलस्थानकानि सन्ति।मेट्रोरेलयोजनायाः प्रथमं चरणं शाहदरा इत्यस्मात् स्थानात् तीसहजारी स्थानकं यावत् प्रारब्धमासीत्।अद्य प्रायः सम्पूर्णदेहलीनगरं मेट्रोरेलयोजनायाः लाभान्वितं भवति।

टोकियो ८२ सम्पादयतु

भौगोलिकीस्थितिः एवं विकासः

जापानदेशस्य मुख्यद्वीपस्य होन्शु इत्यस्य दक्षिणपूर्वयोः टोकियो इत्यस्य लघुसमुद्रस्य मस्तके सुमिडा इत्याख्यायाः नद्याः कूलद्वये टोकियोनगरमिदम् उषितमस्ति नगरस्याधिकाशभाग निम्नदर्शितक्षेत्रेषु निर्मितोस्ति। इदं टोकियो इत्यख्यं नगरं प्रायः १६१ वर्गमील (४१६.९९ कि.मी.) क्षेत्रोपरि विस्तरितमस्ति।जनसंख्यादृष्ट्या टोकियो इत्याख्यस्यास्य स्थानं विश्वमहानगरेषु चतुर्दशतममस्ति।

टोकियोनगरस्य भौगोलिकीस्थितिः
 
टोकियोनगरस्य भौगोलिकीस्थितिः

वर्तमानटोकियोदेशस्य स्थाने नैकशताब्दिभिः एकं महत् नगरम् "ईडो" इत्याख्यम् उषितमस्ति। एकः जापानदेशस्थः "ओतादुकन" वीरपुरुषः ई.स.१४५७ तमे वर्षे अगरमिदम् अस्थापयत्। अनन्तरं "तोकुगव शोगुन" इति शासकानां शासने नगरस्यास्य सर्वतोभिमुखी उन्नतिः अजायत। १९ तमशताब्दौ नगरमिदं विश्वस्य महानगरेषु एकतमम् अभवत्।एकेन भयङ्करेण भूकम्पेन कारणात् नगरस्याधिकांशभागः १९२३ तमे वर्षे विनाशितः। १९३० यावत् अस्य महानगरस्य पुनर्निमाणम् अजायत। किन्तु द्वितीयविश्वयुद्धावसरे अमेरिकाद्वारा जातायां विस्फोटकवर्षायां पुनः एतस्य महानगरस्य आधिकांश भागः विध्वंसतां गतः।पन्चादयं भागः पुनः निर्मापितः।