झांसीराणीलक्ष्मी

झांसीराणीलक्ष्मीवर्यायाः ( ( शृणु) /ˈzɑːnsiːləʃhəmiːbɑːiː/) (हिन्दी: झांसी की रानी लक्ष्मीबाई, आङ्ग्ल: Rani of jhansi) (१८३५-१८५८) जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्याम् अजायत। सा 'झान्सी की राणी' इति नाम्ना ख्यातम् अगात । भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् आसीत्। सा आङ्लविरोधनीतेः प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती। महाराज्ञी लक्ष्मीः इत्यस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् । शैशवे अस्याः नाम् 'मनुबाई' इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी 'भागीरथी बाई' साध्वी ईशभक्ता च नारी आसीत् । उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । तदा बाजीरावः कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत । सा तत्र नैपुण्यम् अवाप्नोत् । अश्वारोहणेऽपि मनुवाई अतीव कुशलिनी अभवत् । अनन्तरं झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम् अकरोत् । ततः परं मनुबाई, 'रानी लक्ष्मीबाई' इति नाम्ना प्रसिद्धा अभवत् । उद्वाहाद् अनन्तरम् अपि सा अश्वारोहणं शस्त्राभ्यासञ्च नात्यजत् । एतस्मिन्नेव काले आंग्लजनाः भारते स्व प्रभुत्वस्थापनाय यत्नशीलाः अभवन् । कूटनीतिप्रयोगेण दिने दिने तेषां प्रभुत्वम् अवर्धत । तदैव दैवयोगात् गंगाधरस्य एकलः पुत्रः स्वर्गं गतः । पुत्रवियोगसंतप्तो गंगाधरः दामोदरनामकं शिशुमेकं दत्तकपुत्ररूपेण स्वीचकार । किञ्चित् कालानन्तरं गंगाधरोऽपि स्वयमेव् पञ्चत्वं गतः । अथ पतिपुत्रवियोगेन नितरां संतप्ताऽपि राज्ञी सधैर्यं राज्यस्य शासनसूत्रम् अधारयत् । अस्याः शासनकाले प्रजाः सर्वथा सुखम् अभजन्, किन्तु एतत् वैदेशिकानां कृते असहनीयम् जातम् । ते अस्याः राज्यम् उत्तराधिकारिहीनम् उद्घोष्य हस्तगतम् अकुर्वन्, राज्ञ्यै लक्ष्म्यै च स्वल्पां मासिकवृत्तिं प्रादुः । आंग्लजनाः न केवलं राज्ञ्यां ;लक्ष्म्याम् अपि तु अन्येष्वपि जनेषु अत्याचारान् अकुर्वन् । अतः सम्पूर्णे भारते यत्र तत्र स्वातन्त्र्यस्य अग्नेः स्फुलिंगाः प्रकटिताः । जन्मसमये मणिकर्णिका (मनु इति उपनाम्ना) इति नाम्ना परिचिता लक्ष्मीबायी १८३५तमे संवत्सरे नवेम्बरमासस्य १९तमे दिनाङ्के वाराणसीनगरे महाराष्ट्रजनपदमूलस्थे राजपुरोहितब्राह्मणकुटुम्बे अजायत। तस्याः मातापितरौ भागीरथीबायी मोरोपन्तताम्बे च इति। तस्याः उल्लसितसौन्दर्यात् चमेली इति नाम अपि आसीत्। यदा सा चतुर्वर्षीया आसीत्, तदा तस्याः माता दिवङ्गता। तस्याः विद्याभ्यासः गृहे अभवत्। तस्याः पिता मोरोपन्तः बिर्तूरे पेश्वासभायां कार्यं करोति स्म। माता इव सा अपि अत्यन्तं सुन्दरी । दीर्घाः कुन्तलाः विशालं नयनयुगलं मुखे राजवैभवं च दृश्यते स्म । यदा सा चतुर्वर्षीया आसीत् तदा तस्याः माता दिवङ्गता। अतः पुत्र्याः पालन- पोषणादिभारः सर्वोऽपि पितरि मोरोपन्ते एव पतितः। सः ताम् अन्यविषयैः सह खड्गचालनं, अश्वचालनं, गोलकास्त्रोपयोगादिसर्वविद्याः पाठितवान् । ईशवीये १८४२वर्षे झान्सीराजेन गङ्गाधररावेण सह मणिकर्णिकायाः विवाहोऽभवत् । विवाहोत्तरं ब्राह्मणकुलोत्मना निर्धनपरिवारस्य पुत्री मणिकर्णिका झांसीप्रदेशस्य राज्ञी अभवत् । ईशवीये १८५१ तमे वर्षे महाराज्ञ्याः लक्ष्मीवर्यायाः एकः पुत्रः जातः । किन्तु दौर्भाग्यवशात् मासत्रये एव सः बालः मृतः | गङ्गाधररावस्य राज्यभवितव्यविषये चिन्ता जाता । सा चिन्ता मानसिकतया तं निर्वीर्यं कृतवती । तस्य मनोवेदनायाः अन्यदपि कारणमासीत् - तदानीन्तनः गवर्नर् जनरल् डल्हौसी इत्यस्य क्रूरपालनम् । तस्मिन् समये केचन राजानः आङ्ग्लेयानां साहाय्यं प्राप्तवन्तःआसन्। तदर्थं तेषां कृते कश्चन नियमः कल्पितःआसीत् । 'यदि सन्ततिं विना राजा मृतो भवति, तर्हि तस्य राज्यम् आङ्ग्लेयाः स्वायत्तीकुर्युः। यदि सः राजा यं कमपि बालकं दत्तकपुत्ररूपेण स्वीकृतवान् अस्ति तर्हि अपि तस्य बालकस्य परिपालनाधिकारो न भवेत् 'इति। तादृशऱाज्यकुटुम्बजनानां कृते प्रतिवर्षं भरणं देयम् । राज्यरक्षणं तु आङ्ग्लेयाः एव कुर्युः । एतत् डल्हौसीपालनविधानमासीत् । एतान् नियमान् आश्रित्य आङ्ग्लेयाः अनेकानि राज्यानि हस्तगतानि कृतवन्तः। अधुना झान्सीराज्ये तेषां दृष्टिः पतिता। गङ्गाधररावस्य वार्धक्ये एषः महान् आघातः। सः चिन्ताग्रस्तः जातः। ईशवीये १८५३ तमे वर्षे लक्ष्मीबायी- गङ्गाधररावौ आनन्दराव् इति कञ्चन बालकं दत्तकरूपेण स्वीकुर्वः इति निश्चितवन्तौ । स्वीकरणानन्तरं तस्य बालस्य दामोदरराव् इति नाम कृतवन्तौ।

https://en.wikipedia.org/wiki/Rani_of_Jhansi

https://simple.wikipedia.org/wiki/Rani_Lakshmibai