सदस्यः:Anagha.music/प्रयोगपृष्ठम्
हिमालयः
पर्वतानां राजा हिमालयः। अस्य प्रदेशः पवित्रः अस्ति। अस्य शिखराणि अति उन्नतानि सन्ति। अतः अस्य नाम हिमालयः। अत्र बदरिनाथ, केदारनथ, जगन्नाथादीनि बहूनि तीर्थस्थानानि सन्ति। हिमालये एव कैलासः यत्र महादेवस्य शंकर निवासः।
हिमालयः हिमस्य अलयः, रत्नानाम् आकरः, तापसानाम्, वनचराणां च आश्रयः, सिंहानां क्रीडास्थली, औशधीनां कोशः, देवानां विहारभूमिः, ऋषीणाम्, मुनीनां च तापसस्थलः अस्ति। अस्य अनेषु वन्याः पशवः, खगाः, जन्तवः सर्पाश्च स्वैरं विहरन्ति।
हिमालयात् गंगा, यमुना, शतद्रुः, विपाशा, इरावति, चन्द्रभागा, वितस्ता, सिन्धुः ब्रह्मपुत्र च प्रसिद्धाः न्द्यः प्रभवन्ति। एताः नद्यः भारतभूमिं सिन्चन्ति। एषः गिरीषः वर्षाकाले उन्नतान् मेघान् इतः एव निरिधयति येन ते अत्रैव वर्षन्ति।
अस्य उन्नतानि शिखराणि शत्रुभ्यः भारत रक्षन्ति। बहव: देशाः हिमालय जेतुम् इच्चन्ति। परम्, भारातशासनम् अस्य रक्षणे संलग्नम् अस्ति यतः अस्य रक्षणे भारतस्य रक्षणम्। भारतीयाः कवयः अस्य गीतानि गायन्ति। भो: हिमालयः! वयम् तुभ्यम् नमामः।
ANAGHA YOGANAND -4 PEP- 1631143 SOWMYA S - 4 PEP- 1631146