सदस्यः:Anoop1997/गुजरातस्य तीर्थस्थानानि सम्प्रदायाश्च

गुजरातस्य तीर्थस्थानानि सम्प्रदायाश्च :- सम्पादयतु

भारतदेशे बहूनि तीर्थस्थानानि सन्ति। अतः अस्माकम् भूमिः 'तीर्थभूमिः' इति कथ्यते। भारतदेशस्य गुजरात् प्रदेशे नैकानि तीर्थानि सन्ति। एतानि गुर्जरे प्रमुखतीर्थानि-


द्वारका सम्पादयतु

श्रीकृष्णस्य राजधानी द्वारका। द्वारकानगरी भगवतः श्रीकृष्णस्य अज्ञया विश्वकर्मणा निर्मिता। 'द्वारका'इति शब्दस्य अर्थः मूर्तिदायिनी इति भवति। सहस्त्रवर्शेभ्यः पूर्वं द्वारकायाम् ब्रह्मणः मानसपुत्रैः सनक-सनर्दन-सनातन सनत्कुमारैः विष्णोः उपासना कृता आसीत्। द्वारकानगर्याम् भगवान् विष्णुः चक्रस्वरूपेण प्रकटितः अभवन्। अतः तस्य नाम चक्रनारायणः इति जातम्। अत्र भूमिविस्तारः चतुर्योजन परिमितः अस्ति। द्वारकायाः सप्तपुरीमध्ये गणना भवति। चतुर्धामसु एकं धामा अस्ति। अत्र 'मूलद्वारका','गोमतीद्वारका','बेटद्वारका' इति भिन्नक्षेत्राणि सन्ति। गोमतीनदी द्वारकायाम् वर्तते। अतः द्वारकानगरीम् 'गोमतीद्वारका' इति कथ्यते।

  रणछोडरायमन्दिरम् द्वारकायाः मुख्यं मन्दिरम् अस्ति। एतत् मन्दिरस्य समीपे शारदामठः लक्ष्मीनारायणमन्दिरम्, महाप्रभुजीबेठकस्थानम्,सीतावाटिका,ऋषितीर्थम्-इत्यादिनि तीर्थानि सन्ति।

श्रीसोमनाथः सम्पादयतु

भारतस्य पश्चिमतटे पुराणप्रसिद्धं तीर्थं श्रीसोमनाथः। तस्य ज्योतिर्लिङ्गं द्वादशज्योतिर्लिङ्गेषु प्रथमम्। भगवान् शन्करः अत्र पिनाकपाणिः स्वयं प्रादुर्बभूव। तस्मात् ज्योतिर्लिङ्गमिति प्रसिद्धं वर्तते। एतस्य मन्दिरम् चालुक्यशिल्पशैल्यनुसारं निर्मितम्। गर्भगृहं सभामण्डपः नृत्यमण्डपः च शोभन्ते।