सदस्यः:Bharat Padmakar Hegde/प्रयोगपृष्ठम्

Maharana Pratap
Maharana of Mewar
जन्म Kumbalgaon

महाराणा प्रताप भारतस्य पश्चिमस्यां दिशि सहस्राधिकवर्षेभ्यह आक्रमणं भवति स्म. इमं देशं बहुसंपदा भरितं इति मन्वानाः वैदेशिकाः तां संपदं आत्मसात्कर्तुं आगछन्ति स्म. तद्विरुद्धं राजस्थानप्रदेशे राजपुत्राः आक्रमणशीलानाम् प्रतिरोधाय महान्तं प्रयत्नं चक्रुः. एतेषां राजपुत्राणां शौर्यगाथा, महिलानां त्यगनिष्ठा च अध्यापि यूनः स्वदेशकार्ये प्रेरयति. 'मेवाड' इति स्थलम् राजस्थाने अत्यन्तं प्रसिद्धमासीत्. तत्स्थलम् तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीम् प्रसिद्धिं अवाप. अत्रत्ये सिसीदियावन्शे बप्पारावलः राणाहमीरह, रानासाङ्गः प्रभृतय शूराह जन्म लेभिरे.

Birth and Early Life

सम्पादयतु
=
एतस्मिन्नेव पुण्यवन्शे राणाप्रताप्सिन्हह चत्वारिन्शदुत्तर पञ्चदशशततमे वर्षे, मे मासे, नवमे दिनान्के, कुम्बल ग्रामे एकः द्वीतियह सूर्ये इव उदितह. अस्य माता जावन्तबाई चोउहान, पिता च द्वितीय उदयसिम्हह. तस्मिन् समये बहवो राजानः मोघल्चक्रवर्तिभिः सह आयुध्य, पराजयं अनुभूय, तानेव दिल्लीश्वरान् भावयन्ति स्म. केचन तेषामेव सेवया आत्मनः धन्यान मेनिरे. तस्मिन् काले अकबर महाशयः देहल्यां शासनं करोति स्म. स अन्यराजेषु विध्यमानं परस्परकलहम् एव उपयुज्य आत्मनः शक्तिं अवर्धयत. तेन वशीक्रुताह केचन राजानः तस्य सेवायां निरता आसन. देशरक्षणार्थम् सर्वदा बद्धपरिकरेषु रज्पुत्रेश्वेव स्वकर्तव्यविरतेषु का कथा अन्येषां राज्ञां? सर्वथा भरतभूमिह् वैदेषिकपदाक्रान्ता दास्यदूषिता च आसीत्.
Middle Life and Exile
सम्पादयतु

इत्थं अन्धकारे सर्वत्र व्यासे राणाप्रतापह दीपशिखेव, आत्मगौरवस्य मूर्तिरिव, तस्मिन् कालखण्दे भ्राजते स्म. यद्यपि प्रतापस्य पिता उदयसिन्हह प्रतापि राजा आसीत् किन्तु प्रतिकूलत्वात् चित्तोड- मेवाडादिस्थानानि अन्यवशान्यभूवन्. पितुरनन्तरं सिन्हासनम् अधिरूढः राणाप्रतापह हस्तच्युतानां प्रमुखानां एतेषां स्थानानां स्वायत्तीकरणाय चिन्तयितुं आरेभे. प्रथमं राणाप्रतापह गण्यानाम् सभां आकारितवान. 'यावत्पर्यन्तं' परवशं राज्यं स्ववशं नाधिगच्छति, तावत्पर्यन्तं स्वर्णरजतादिपात्रेषु भोजनं न करिष्यामि, म्र्दुशयने न शयिष्ये, राजप्रसादे न वत्स्यामि' इति तेषां पुरतः प्रतिज्ञाः स्वीक्रुतवान्.

तदानीम् हल्दीघाट् प्रदेशे वैरिभिः सह घोरं युद्धं सम्बभूव. वैरिणां सैन्यं समुद्रोपमम् आसीत्. राणाप्रतापह रणरङ्गे घोरं अयुध्यत. किन्तु पूर्णजयम् प्राप्तुं न शशाक. स्वस्य आप्तस्य अश्वस्य चेतकाख्यस्य सहाय्यम् सः सर्वदा प्राप्तवान्. तेन सः आपदः आत्मानं रक्षितुं शक्त आसीत्. अरण्यगुहाप्रदेशेषु उषित्वा स्वसन्कल्पसिद्धये सैन्यसङ्ग्रहणम् उपाक्रमत. यदा राणाप्रतापसिन्हह अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टं अनुबभूव. एकत्र सर्वदा वैर्याक्रमणशङ्का, अन्यत्र आहाराभावात् पुत्रकलत्राणाम् कष्तपरम्परा च अतीववेदनाकरी बभूव.एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यबीजचूर्णेन् रोटिका सज्जीक्रुत्य सर्वेभ्यः किञ्चित्- किन्चिद्भागं दत्तवती. स्वपुत्र्यै अपि रोटिकां दत्वा ' तस्याः अर्धमेव खादित्वा अवशिष्टमर्धम् परेध्युः भक्षणार्थ रक्ष' इति सूचितवति. स्वप्रियदुहितु: परेध्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचात. एतादृशं दारुणम् कारुण्यपूर्णञ्च जीवनम् व्यतीयाय सर्वोऽपि परिवारः. बहुभ्यः दिनेभ्यः पर्याप्ताहाराभावात् क्षुधिता बालिका तदानीमेव रोटिकां खादितुम् आरेभे. तावत् काले कुतश्चित अकस्मादागतः कश्चन अरण्यमार्जालह् बालिकायाः हस्तात् रोतिकमाक्रुश्य कुत्रचिदधावत. बालिका महता दुःखेन आक्रन्दितुं उपचक्रमे. References: https://navbharattimes.indiatimes.com/education/gk-/maharana-pratap-jayanti-know-all-about-him/articleshow/64076127.cms https://www.amarujala.com/columns/blog/death-anniversary-of-maharana-pratap-akbar-shocked-when-great-indian-king-died