सदस्यः:Dhivz/प्रयोगपृष्ठम्
पर्यायोक्तालङ्कारः
पर्यायोक्तं तु गम्यस्य वचो भाङग्यन्तरारष्र्यम् । नमस्तस्मेै कृतौ येन मुधा राहुवधूकुचौ ॥
यदेव गम्यम् विवक्षितं तस्येैव भङ्गच्यन्तरण विवक्षितरूपादपि चारुतरेण केनचिद्रूपान्तरेणाभिघानं पर्ययोक्तम् । उत्त्तरार्घमुदाहरणम् । अत्रभगवान् वासुदेवः स्वासाधारणरूपेण गम्यः राहुवधूकुचवैवथ्र्यकारकत्वेन रूपान्तरेण स एवाभिहितः ।
यथा वा ----
लोकं पश्यति यस्यांघ्रिः स यस्यांघ्रिं न पश्यति । ताभ्यामप्यपरिच्छेद्या विद्या विक्ष्वगुरोस्तव ॥
अत्र गौतमः पताञ्जलिश्च स्वासाधारणरूपाभ्यां गम्यौ रूपान्तराभ्यामभिहितौ॥
यथा वा (नैषध ८१२४)---
निवेद्यतां हन्त समापयन्तौ शिरिषकोशम्त्रदिमाभिमानम् । पादौ कियद्दूरमिमौ प्रयासे निधिन्सते तुच्छ्दयं मनस्ते ॥
अत्र कियद्दूर्ं जिगमिषा ? इति गम्य एवार्थो रूपान्तरेणाभिहितः ।
यथा वा-
वन्दे देवं जलधिशरधिं देवतासार्वभौमं व्यासप्रष्ठा भुवनविदिता यस्य वाहाधिवाहाः। भूषापेटी भुवनमघरं पुष्करं पुष्पावाटी शाटीपालाः शतमखमुखाश्चन्दनद्रुर्मनोभूः ॥
अत्र 'यस्य वेदा वाहाः , भुजङ्गमा भूषणानि इत्यादि स्थितौ वेदत्वाद्याकारेणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्यकारेणिभिस्थितौ वेदत्वाद्याकारेणावगम्या एव वेदादयो व्यासप्रमुखविनेयत्वाद्याकारेणाभिहिताः , परन्तु देवतासार्वभौमत्वस्फुटीकरणाय विशेषणविशेष्यभावव्यत्यासेन प्रतिपादिताः । अत्रामलङ्कारसर्वस्वकृतापि पर्यायोक्तस्य संप्रदायागतमिदमेव लक्षणमङ्गीकृतं 'गम्यस्यापि भाङ्गच्यन्तरेणाभिधानं पर्यायोक्तुम् ' इति ।
पर्यायोक्तम् तदौयाहुर्यद्वयाजेनेष्त्तसाधनम् । यामि चूतलताम् द्रष्टुॱ युवाभ्यामास्यतामिह॥
अत्र नायिकाम् नायकेन सग्ङमय्य चूतलतादर्शनव्याजेन निर्गच्छन्त्या सख्या तत्स्वाच्छन्द्यसन्पादनरूपेष्टसाधनम् पर्यायोक्तम् । यथा वा -
देहि मत्कन्दुकम् राघे ! परिधाननिगूहितम् । इति विस्त्रन्सयन्नीवीॱ तस्याः क्रुष्णो मुदेऽस्तु नः ॥
पूर्वत्र परेष्टसाधनम् ,अत्र तु कन्दुकसद्भावशोधनार्थॱ नीवीविस्रॱसनव्याजेन स्वेष्टसाधनमिति भेदः ॥