सदस्यः:Hitasha chavan/प्रयोगपृष्ठम्
वाणिज्ये व्यापारः
सम्पादयतुधनोपयेन द्वयाधिक पुरुषाणम् मद्ये व्यापारः इत्यर्थे वस्तुपरिसर्यणाम् विक्षमपसमक्षेपणाम् तत्र वस्तूणाम् व्यतिहारम् अधिकोषणम् अधिरक्षणम् इत्यादि परिसर्याणाम् उपायेन एव भवति। वाणिज्यम् चतुर्विदः :
- व्यापारिणम् सह व्यापारः
- ग्राहिकाणाम् सह व्यापारः
- ग्राहिकाणाम् सह ग्राहिकः
- व्यापारिणम् सह ग्राहिकः
इतिहासः
सम्पादयतुव्यापारः ग्राहिकाणाम् सन्तोषेण एव वर्धयति। राष्टीय अन्तर्राष्टीय व्यापारः व्यापारे द्विविधः। एव विभागेन राष्टीयगृहकर्मनिवहिण विषये अर्थशास्त्रे प्रयोजनम् भवति। अन्ताराष्ट्रियः व्यापारः विभिन्नदेशेषु वस्तूनां स्वैच्छिकरूपेण आदानप्रदानाय क्रियते । व्यापारस्य स्तरद्वयं वर्तते – राष्ट्रियः व्यापारः, अन्ताराष्ट्रियः व्यापारश्च । व्यापारस्य अर्थः अस्ति यत्, विभिन्नवस्तूनां परस्परं स्वैच्छिकरूपेण आदानप्रदानम् । व्यापाराय पक्षद्वयस्य आवश्यकता वर्तते । तयोः पक्षयोः एकः वस्तूनि विक्रीणाति, अपरः क्रीणाति च । व्यापारः द्वाभ्यां पक्षाभ्यां समानरूपेण लाभकरः भवति । ये देशाः स्वयं येषां वस्तूनाम् उत्पादनं कर्तुम् असमर्थाः सन्ति, ते तेषां वस्तूनाम् आयातं व्यापारमाध्यमेन कुर्वन्ति । यदा कस्मिंश्चित् देशे तेषां वस्तूनां मूल्यम् अधिकं भवेत्, तदा अपि वस्तूनाम् आयातः स्वल्पेन मूल्येन भवितुं शक्यते अतः व्यापारः क्रियते । आदिमसमाजे व्यापारस्य आरम्भिकं स्वरूपं 'विनिमयव्यवस्था' आसीत् । तस्यां व्यवस्थायां वस्तूनां प्रत्यक्षरूपेण आदान-प्रदानं भवति स्म । अर्थात् वस्तूनां विनिमयः भवति स्म । यदि कुम्भकारः घटनिर्माणाय किमपि यन्त्रम् इच्छति, तर्हि तस्य अपरेऽस्मिन् पक्षे ये जनाः भवन्ति, तेभ्यः कुम्भकारस्य घटानाम् आवश्यकता भवेत् इति आवश्यकम् आसीत् । तदैव व्यापारे विनिमयः भवितुं शक्नोति स्म । घटानां, यन्त्रस्य च विनिमयः भवति । किन्तु इदानीं तु व्यापारे अधिकतमेषु स्थानेषु वस्तूनां व्यापारे धनम् एव प्रचलति । प्रतिवर्षं जनवरी-मासे सस्यानां लवनकार्यानन्तरं गुवाहाटी-नगरात् ३५ कि. मी. दूरे जागीरॉड् इति नामके स्थले जॉन् बील्-मेला-उत्सवः भवति । अयं भारतस्य एकः एव मेला-उत्सवः अस्ति, यस्मिन् इदानीमपि विनिमयव्यवस्था वर्तते । अस्मिन् मेला-उत्सवे एकस्याः बृहत्तमायाः वणिग्वीथ्याः व्यवस्था क्रियते । तस्यां विभिन्नजनजातीनां समुदायानां जनाः वस्तूनां विनिमयं कुर्वन्ति । रूप्यकाणां, मुद्राणां च कारणेन विनिमयव्यवस्था लुप्ता जाता । पुरा कर्गजमुद्राणां, धात्विकमुद्राणां च व्यवस्था नासीत् । अतः पुरा उच्चमूल्यानां दुर्लभवस्तूनां मूद्रारूपेण उपयोगः भवति स्म । यथा – चकमकपाषाणः, आब्सीडियन्, आग्नेयकाचः, सिंहहस्तः, व्हेल् इत्यस्य दन्ताः, श्वानदन्ताः, चर्म, केशः, अक्षताः, लवणं, लघुयन्त्राणि, ताम्रं, स्वर्णं, रजतं च । सैलेरी इति शब्दः लैटिन्-भाषायाः सैलेरिअम् इति शब्देन निर्मितः अस्ति । तस्य अर्थः अस्ति यत् ’लवणमाध्यमेन प्रदानम्’ इति । यतः पुरा समुद्रात् लवणस्य निर्माणं न भवति स्म । केवलं खानिजैः लवणस्य निर्माणं भवति स्म । तस्मिन् काले लवणं दुर्लभं, बहुमूल्यम् च आसीत् । अतः तत् प्रदानस्य माध्यमरूपेण आसीत्।
व्यापारस्य सन्तुलनम्
सम्पादयतुव्यापारस्य सन्तुलनेन देशानां वस्तूनां परस्परम् आयातस्य, निर्यातस्य, सेवानां च परिमाणः ज्ञायते । यदि आयातस्य मूल्यं देशस्य निर्यातमूल्यस्य अपेक्षया अधिकं भवेत्, तर्हि देशस्य व्यापारस्य सन्तुलनम् ऋणात्मकं प्रतिकूलं वा अस्ति इति ज्ञायते । यदि निर्यातस्य मूल्यं देशस्य आयातमूल्यस्य अपेक्षया अधिकं भवेत्, तर्हि देशस्य व्यापारस्य सन्तुलनं धनात्मकम् अनुकूलं वा अस्ति इति ज्ञायते।