सदस्यः:Humera1410383/प्रयोगपृष्ठम्
मनुस्म्रतिरीत्या ग्रहस्थाक्षामधर्मः
अधीत्य विधिवध्वेदान्पुत्रांश्र्चोत्पाध्य धर्मतः ।
इष्ट्वा च शातक्तितो यज्ञैशर्मनो मोक्षे निवेशयेत् ॥
आनधीत्य द्विजो वेदाननुत्पाध्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्र्च मोक्षमिच्छन्व्रजत्यधः ॥
प्राजपत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥
यो दत्वा सर्वभूतेभ्यः प्रव्रजत्यभयमं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥
यस्मादण्वपि भूतानां द्विजान्नोत्पध्यते भयम् । तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्र्चन ॥
अगारादभिनिष्क्रान्तः पवित्रोत्पध्यते भयम् । समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥
एक एव चरेत्रित्यं सिद्धयर्थमसहायवान् । सिद्धिमेकस्य संपश्यात्र जहाति न हीयते ॥
अनग्निरनिकेतः स्याद्ग्राममत्रार्थमाश्रयेत् । उपेक्षकोSसंकुसुको मुनिर्भावसमाहितः ॥
कपालं वृक्षमूलानि कुचेलमसहायत । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निरर्देशं भृतको यथा ॥
ध्यष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥
अतिवादांस्तितिक्षेत नावमन्येत कंचन । न चेमं देहमाश्रित्य वैरं कुर्वित केनचित् ॥
क्रुद्धयन्तं न प्रतिकुद्धयेदाक्रुष्टः कुशलं वदेत् । सप्तद्वारवकीर्णां च् न वाचमनृतां वदेत् ॥
अध्यात्मरतिरासीनो निरपेक्षे निरामिषः । आत्मनैव सहायेन सुखार्थे विचरेदिह ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राड्गविध्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥
न तापसैर्ब्राह्मणैर्वा वयोभिरपि व श्र्वभिः । आकीर्णं भिक्षुकेर्वान्यैरगारमुपसंव्रजेत् ॥
क्लृप्तकेशखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । तेषामाद्भः स्मृतं शौचं चमसानाभिवाध्वरे ॥
अलाबुं दारूपत्रं च मृन्मयं वैदलं तथा । एतानि यतिपात्राणि मनुः स्वायंभुवोSब्रवीत् ॥
एककालं चरेद्भक्षं च प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥
विधूमे सन्नमुसले व्यड्गारे भुक्तवज्ज्ने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्र्चरेत् ॥
अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणायात्रिकमात्रः स्यान्मात्रासङ्गव्दिनिर्गतः ॥
अभिपूजितलाभास्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोSपि बद्धयेते ॥
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि नवर्तयेत् ॥
इन्द्रयाणां निरोधेन रागद्वेषक्षयेण च । अहिंसया च भूतानाममृतत्वाय कल्पते ॥
अवेक्षेत गतीर्नृणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनश्र्च यमक्षये ॥
विप्रयोगं प्रियैश्र्चैव संयोगं च तथाSप्रियैः । जरथा चाभिभवनं व्याधिभिश्र्चोपपीडनम् ॥
देहादुत्क्रमणं चास्मात्पूनर्गर्भे च संभवम् । योनिकोटिस्त्रहस्त्रेषु सृतीश्र्चास्यान्तरात्मनः ॥
आधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥
दूषितोSपि चरेद्धर्मं यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥
फलं कतकवृक्षस्य यध्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥
संरक्षणार्थं जन्तूनां ऱात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसूधां चरेत् ॥
अह्ना रात्र्या च याञ्जन्तूह्निनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्धयर्थं प्राणायामान्षडचरेत् ॥
प्राणायामा ब्राह्मणस्य त्रयोSपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यान्ते दोषाः प्राणस्य निग्रहात् ॥
प्राणायामैर्दहेषान्धारणाभिश्र्च किल्विषम् । प्रत्याहारेणा संशार्गान्ध्यानेनानीश्र्वरान्गुणान् ॥
मित्रह्रादं कर्तुं मित्राय द्रुह्यति प्रतापोSपि ॥
अधिकालकार: अधिकं पृथुलाधारादाधेयाधिक्यवर्णणम् । ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणा: ॥ अत्र 'यत्र महाजालौधेयाधिक्यवर्णSनन्तानि ब्रह्माण्डाणनि बुदुबुदकल्पानि' इत्याधारस्या तिविशालत्वं प्रदशर्य तत्र 'न मान्ति' इत्याधेयानां गुणानामाधिक्यं वर्णीतम् । यथा वा ( माधे ११२३) युगान्तकालप्रतिसंह्रतात्मनो जगान्ति यस्यां सविकाशमासता । तना ममुस्तत्र न कैटभब्दिषस्तपोधनाभ्यागमसम्भवा मुद: ॥
पृथ्वाधेयाध्यदाधाराधिक्यं तदपि तन्मतम्। कियब्दाग्ब्रह्म यत्रौते वित्राम्यन्ति गुणास्तव ॥ अत्र 'एते' इति प्रत्यक्षद्दश्टमहावैभवत्वेनोक्तानां गुणानां 'विस्राम्यन्ति' इत्यसम्बाधावस्थानोक्त्या आधारस्य वाग्ब्रह्मण आधिक्यं वर्णितम् । यथा वा अहो विशालं भूपाल । भुवनत्रितयोदरम् । माति मातुमशक्योSपि यशारषिर्यदय ते । अत्र यध्यप्युदाहरणदुयेSपि 'कियदुग्ब्रह्म' इति 'अहो विशालम्' इति चाधा रयो: प्रशंसा क्रियते, तथापि तनुत्वेन सिदुवत्कुतयो: शब्दब्रह्मभुवनोदरयोर्गुंण यशऱाश्यधिकरणत्वेनाधिकत्वं प्रकल्प्योव प्रशंसा क्रियत इति तत्प्रशंसा प्रस्तुत गुणयशऱाशीप्रशंसायामेव पर्यवस्यति ॥