सदस्यः:Kashyap.varun97/प्रयोगपृष्ठम्

                                                          लोहतुला-वणिक्पुत्र-कथा

तुलां लोहस्हस्त्रस्य यत्र खादन्ति मूषिकाः ।

    राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ 

अस्ति कस्मिंश्चिदधिष्ठाने जीर्णघनो नाम वणिक्पुत्रः । स च विभवक्षयाद्देशान्तरगमनमना व्यचिन्तयत् --

    यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः । 
    तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ तथा च -- 
    येनाहङ्कारयुक्तेन चिरं विलसितं पुरा । 
    दीनं वसति तत्रैव यः परेषां स निन्दितः ॥ 

तस्य च गृहे लोहभारघटिता पूर्वपुरुषोपाजिता तुलाऽऽसीत् । तां च कस्यचिच्छ्रेष्टिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्चया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच -- "भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला । "स आह -- "भो! नास्ति सा त्वदीया तुला; मूषिकेर्भक्षिता" इति । जीर्णधन आह -- "भो श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषिकैर्भक्षितेति । ईद्दगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि, तत्त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सब स्नानोपकरणहस्तं प्रेषय" इति । सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुवाच -- "वत्स ! पितृव्योऽयं तव स्नानार्थ यास्यति, तद् गम्यतामनेन सार्धं स्नानोपकरणमादाय" इति ।

अहो, साध्विदमुच्यते --

    न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः । 
    मक्त्वा भयं प्रलोभम वा कार्यकारणमेव वा ॥ 

तथा च --

    अत्यादरो भवेद्यत्र कार्यकारणवर्जितः । 
    तत्राशङ्का प्रकर्तव्या परिणामे सुखावहा ॥ 

अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनास्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्टिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद् द्वारं बृहच्छिख्याच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजा -- "भो ! अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः ?" इति । स आह -- "नदीतटात्स शयेनेन हृतः " इति । श्रेष्ठ्याह -- "मिथ्यवादिन्! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ? तत्समर्पय मे सुतम् । अन्यथा रागकुले निवेदिष्यामि" इति । स आह -- "भोः सत्यवादिन् ! यथा श्येनो बालं न नयति, तथा मूषिका अपि लोहभारघचितां तुलां न भक्षयन्ति, तदर्पय मे तुलां, यदि दारकेण प्रयोजनम् ।" एवं तौ विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच -- "भो ! अब्रह्मण्यम् ,अब्रह्मण्यम्! मम शिशुरनेन चौरेणापहृतः ।" अथ धर्माधिकारिणस्तमूचुः -- "भोः! समर्प्यतां श्रेष्ठिसुतः " । स आह -- "किं करोमि, पश्यतो मे नदीतटांच्छ्येनेनापृहतः शिशुः" । तच्छ्रत्वा ते प्रोचुः -- "भोः! न सत्यमभिहितं भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति"? स आह -- "भो भोः! श्रूयतां मद्वचः --

    तुलां लोहसहस्त्रस्य यत्र खादन्ति मूषिकाः । 
    राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ 

ते प्रोचुः -- "कथमेयतत् "?

ततः स श्रेष्ठी सभ्यानामग्रे आदितः सर्व वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं संबोध्य तुला - शिशुप्रदानेन सन्तोषितौ ।