सदस्यः:Lizalin Das23/प्रयोगपृष्ठम्

कालिदासस्य अभिज्ञानशाकुन्तले आश्रमवर्णनम्

सदा शान्तिमिच्छति जीवः । अशान्तौ तस्य जीवनं दुर्विषहं भवति । अतः शान्तिप्राप्तये विविधान् मार्गान् अवलम्बते । कदाचित् उत्सवं पालयति, दानं करोति, देवपूजां यज्ञादिकञ्च सम्पादयति । विद्यमानेषु बहुष्वपि उपायेषु शान्त्यर्थं स्थाननिर्धारणमपि महत्वपूर्णम् । तदर्थं धीराः गृहं ग्रामं नगरादिकं च त्यक्त्वा आश्रमं आश्रयन्ते । आश्रमे शान्तिः आसाद्यते नूनमिति प्रत्ययः सामान्यतः समेषामस्ति ।

महाकवेः कालिदासस्य कृतिषु भारतीयसंस्कृति तथा परम्परा सम्यक् दृश्यते । तासु आश्रमपरम्परायाः यथातथं वर्णनं परिलक्ष्यते । तासु कृतिद्वयमधः प्रस्तूयते ।

Ø  अभिज्ञानशाकुन्तले आश्रमवर्णनम् ­­­­­­–

सप्ताङ्कविशिष्टं नाटकमिदम् । अत्र दुष्यन्तशकुन्तलयोः परिणयप्रसङ्गः मुख्यः विषयः ।

प्रथमाङ्कः-

तत्र प्रथमाङ्के राजा मृगयार्थं वनं प्रविशति, तत्र मृगस्य मृगयासमये ऋषयः आगत्य निरपराधं मा प्रहर इति वदन्ति । राजा अपि ऋषिववचनं पालयति । सन्तुष्टाः ऋषयः तमाश्रमं गन्तुम् उपदिश्य तत्र अनुमालिनीतीरमाश्रमः । आश्रमे प्रतिहतविघ्नाः क्रियाः भवन्तीति आश्रम कार्यं कथयन्ति तद्यथा-

“रम्यास्तपोधनानं प्रतिहतविघ्नाक्रिया समवलोक्य ।

ज्ञास्यसि कियद्भूजो मे रक्षति मैर्विकिर्णाङ्क इति ।”

अस्मात् ज्ञायते आश्रमः नदीं निकषा प्रायशो भवति । तत्र यज्ञ-तप-दान-धर्माचरणादीनि कर्माणि अनुष्ठीयन्ते । महाकविः कालिदासः दुष्यन्तमुखेन आश्रमस्य लक्षणं कथयति यत्,

“नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः

प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।

विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-

स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥”

अर्थात्, सः आश्रमो भवति यत्र वृक्षमूले तृणधान्यानि दृश्यन्ते । यतः तानि शुकशावकमुखपतितानि भवन्ति । पुनश्च सः आश्रमो यत्र भयं न भवति, सर्वे अभयं प्राप्नुवन्ति । तदर्थं हरिणाः राज्ञः रथशब्दं श्रुत्वापि स्वस्थानेषु स्थिराः तिष्ठन्ति । अहिंसा धर्म आश्रमे सदैव अवलम्ब्यते । यत्र च इङ्गुदीफलैः प्रस्तराणां स्निग्धता दृश्यते स आश्रमः ।

द्वितीयाङ्कः-

अत्र एकस्मिन् प्रसङ्गे आश्रमविषयः चर्चितः अस्ति यत्, मृगयासमये आश्रमवासिनां कार्येषु यथा किमपि विघ्नं न भवेदिति । तस्य कारणमपि वक्ति यत्,

“शमप्रधानेषु तपोधनेषु गूढ़ं हि दाहात्मकमस्ति तेजः।

स्पर्शानुकूला इव सूर्यकान्तास्तेह्यन्यतेजोभिभवाद्दहनत्नि॥”

चतुर्थाङ्कः-

अस्याङ्कस्य सर्वः विषयः आश्रमाधाररितः । गृहिणामेव परिवारः अस्तीति धारणां दूरीकरोति कविः । गृहिणां परिवार इव मुनिनामपि परिवारो विद्यते । यथा कण्वस्य धर्मकनीयसी भृगिनी गौतमी, तस्य पालिताकन्या शकुन्तला । तस्य शिष्याः(शार्ङ्गरव-शारद्गवौ) सन्तानवत् चित्रिताः ।

सप्तमाङ्कः-

अङ्केस्मिन् कविः आश्रमवासिनां चिन्तनमेकत्र प्रकाशयति  । यदा शकुन्तलापुत्रः सर्वदमनः शिशुसिंहस्य दन्तान् गणयितुं जृम्भस्व सिंह! इति कथयति । तदा एका तपस्विनी वदति- अविनीत । किं नोपत्यानिर्विशेषाणि सत्त्वानि विकरोषि इति । अस्याः कथनाभिप्रायः भवति आश्रमे ये जीवाः तिष्ठन्ति सर्वे आश्रमपरिवारस्य सदस्याः । पशुपक्षिणः सन्ताना इव स्नेहाभाजः भवन्ति । नात्र हिंसाया लेशोपि  भावः न दृश्यते ।