विल्हेल्म् वुन्ट्
सिग्मन्ड् फ़्राय्ड्

मनोविज्ञानम् (Psychology) सम्पादयतु

मनोविज्ञानं मानवानां मृगाणां च आचारविचारस्य अध्ययनं करोति। विल्हेल्म् वुन्ट् (Wilhelm Wundt) मनोविज्ञानशास्त्रस्य पिता अस्ति । सः जेर्मनि देशस्य 'लेप्जिग्' नगरे १८७९ तमे वर्षे जगतः प्रथम मनोविज्ञानप्रयोगशालां संस्थापितवान्। मनोवैज्ञानिका: चित्तस्य प्रज्ञावस्थायाः वृत्तिनां तथा सूक्ष्म अन्तः करणस्य विचाराणां उपरि संशोधनं कुर्वन्ति। मनोवैज्ञानशास्त्रीयज्ञान साहाय्येन मानसिक रोगाणां चिकित्सा कर्तुं शक्यते। विंशति तमे शताब्देः प्रारम्बे सिग्मन्ड् फ़्राय्ड् (Sigmund Freud) इति महान् मनोवैज्ञानिकः आसीत् । सः 'वीयेना'विश्वविद्यालये पदवीं प्राप्तितवान्। 'साय्कोअनालिटिकल्' विषये संशोधनं कृतवान्। सः गोयेते (Goethe) पुरस्कारेण सम्मानितवान्। फ़्राय्डस्य प्रख्यातः पुस्तकाः - 'इन्टर्प्रेटेशन् आफ़् ड्रीम्स्', 'स्टडीस् ओन् हिस्टीरिया','साय्कोपातोलोजी आफ़् एवेरिडे लाय्फ़्' इत्यादयः। फ़्राय्ड् स्वस्य मनोवैज्ञानिक सिध्दान्तानां प्रस्थापितवान्। तस्य सिद्धान्तानां मध्ये 'ऐस् भार्ग्'(iceberg) इति सिद्धान्त: बहु प्रख्यातः अभवत्। फ़्राय्ड् महाभागस्य विचारः एवं आसीत् - चित्तस्य त्रयः स्तराः सन्ति।

एतेषां नामानि 'इड्', 'ईगो','सूपर् ईगो' च ।

१) इड् -इड् इति चेत् चित्तस्य मूल अथवा प्राथमिक अंशः । चित्तस्य 'इड्' इति मूल अंशः शिशु इव स्वस्य तृप्तिः वा परितोषणमेव इच्छति ।

२) ईगो -ईगो इति चेत् चित्तस्य अहम्पदार्थः । एतत् अंशः चित्तस्य विवेकस्य स्थानः इति फ़्राय्ड् मन्यते । चित्तस्य इड् इति मूल अंशस्य प्रलोभाणां चित्तस्य ईगो-अहम्प्दार्थस्य विवेकः नियन्त्रणं करोति इति फ़्राइड् चिन्तयति । अहम्पदार्थः याथार्थ्यं एव अवलोकयति ।

३) सूपर् ईगो -सूपर् ईगो इति चेत् प्रधानहम्पदार्थः एतत् अंश चित्तस्य नैतिक दायित्वं वहति । एतत् स्थानं मानवस्य सामाजिक नियमाणां आचाराणां च अधिष्टानं अस्ति । चित्तस्य 'ईगो','सूपर् ईगो' अपि नियन्त्रणं करोति । एतत् चित्तस्य संरचना इति फ़्राय्ड् मन्यते।

 
'ऐस् भार्ग्

मनोविज्ञानं अस्माकं जीवने मुख्य पात्रं वहति । तस्य ज्ञानेन मनसः आरोग्यं सन्तुलं च निर्वहयितुं शक्यते । आधूनिक समये मानवाः आर्थिक-भा प्रगति एव अनुसरन् स्वस्य आरोग्यस्य तथा मानसिक सन्तुलस्य नाशं कुर्वन्ति । एवं मानवाः खिन्न मनांसि भवन्ति । अत: मनोविज्ञानशास्त्रज्ञानेन मानसिक स्वास्थ्यं परिपालितुं शक्यते। एवं मनोविज्ञानं समाजस्य नैतिक मानसिक सन्तुलं संरक्षयति। मनोविज्ञानशास्त्रं बहु शाखिनः अस्ति । उदाहरणार्थं - औद्योगिक मनोविज्ञानम् (Industrial Psychology), विरुजालय मनोविज्ञानम् (Clinical Psychology), क्रीडारङ्ग मनोविज्ञानम् (Sports Psychology) , पशुपालन मनोविज्ञानम् (Animal Psychology) , अपराद्ध् मनोविज्ञानम् (Criminal Psychology), शिशु मनोविज्ञानम् (Child Psychology ) , मन्त्रण मनोविज्ञानम् (Counselling) । ते प्रसिध्दः तथा प्रमुखः स्थानं वहति ।