पूर्णधने दत्ते सति निर्धारितभारयुक्तस्य वस्तुनः अनुपलब्धिः एव अल्पमापनमित्युच्यते। कदाचित् आपणिकः लाभप्रात्प्यर्थं ग्राहकवञ्चनार्थं तुलां दुष्प्रभावितां कृत्वा अल्पमापनद्वारा ग्राहकस्य वञ्चनं करोति।
आपणिकः स्वलाभार्थं ग्राहकाय अल्प्गुणक्तियुक्तस्य वस्तुप्रदानं करोति। कदाचित् विक्रेता-वस्तुनः निश्चितोपयोगावधिः व्यतीते सति तस्य वस्तुनः विक्रयणं करोति तेन ग्राहकस्य शोषणं भवति।
कस्यापि वस्तुनः मुद्रितनिर्धारितमूल्यात् अधिकमूल्यग्रहणद्वारा विक्रेतारः लाभस्य प्रतिशताधिक्यं कृत्वा ग्राहकाणां वञ्चनं शोषणं च कुर्वन्ति।
आपणिकाः जनाः वस्तूनां संग्रहणं कृत्वा कृत्रिमरीत्या तस्य अभाव श्यामापणे विक्रयणं कृत्वा अधिकाधिकं लाभप्राप्तिं कुर्वन्ति। अन्या पद्धत्या केचन विक्रेतारः मूल्यवृद्धिः, लाभवृद्धिः, सग्रहवृत्तिः, श्यामापणादिकासामाजिकप्रवृत्तीनाम् आचरणं कुर्वन्ति।
व्यावसायिकः उत्पादकद्वारावस्तूनां मूल्यं, गुणावत्ता, विश्वसनीयता, तस्यायुष्यं अन्तिमोपयोगिसमयावधिविषये असत्यघोषणा, आरोग्य पर्यावरणरक्षणे प्रमादः उपयोगरीतिः सुचारुसंचालनादिविषये अपूर्णसूचनां प्रदाय ग्राहकं वञ्चयन्ति। व्यापारिणः असत्य विधानम् वा असत्य अङ्कादिभिः ग्राहकाणां वञ्चनं कुर्वन्ति। सौन्दर्यप्रसाधनम्, औषधम् , विद्युदुपकरणादि वस्तुनाम् उत्पादनं अन्यप्रसिद्धोत्पादकव्यावसायिकोत्पादक-प्रतिष्ठानस्य नमनिर्देशपुर: सरं विक्रयणं कृत्वा शोषणं कुर्वन्ति।
ग्राहकाणां शोष्णकारणानि अधोलिखितानि दृश्यन्ते।
मर्यादितसूचना - धनपतिः - पुंजीपति अर्थव्यवस्थायाम् वस्तुनिर्माणकार्ये, विक्रयकार्ये, कस्यापि वस्तुनः एवं सेवायाः उत्पादने च स्वतन्त्रः उपयोगसम्बन्धि सत्यन्यनं एवं महत्त्वविषये ग्न्यनाभावेन वस्तूनां मूल्यं, गुणवत्ता, संरक्षणं, उपयोगस्य रीतिः ,विक्रयस्य नियमाः , विक्रयानन्तरं सेवा, सुरक्षाविषयकसूचनानाम् अभावकारणात् ग्राहकः क्रयणसमये उचित वस्तूनां चयने क्लेशं अनुभवति। अनेनैव कारणेन शारीरिक-आर्थिक-मानसिक-क्षतिमनुभवति।
मर्यादितसंग्रहः - यदा वस्तुनः वा सेवायाः उपलब्धिः आवश्यकतापेक्षया, न्यूना भवति, तदा तस्य कृत्रिमाभावस्य कारणं संग्रहवृत्तिमनुसृत्य अधिकधनं गृहित्वा, श्यामापणधारकाः ग्राहकस्य शोषणं कुर्वन्ति।
मर्यादितस्पर्धाः - यदा कस्यापि वस्तुनः एक एव उत्पादकः वा उत्पादकसमूहः भवति, अथवा केषामपि वस्तूनाम् उत्पादने तथा च तस्यविक्रयणे एकाधिपत्यं धारयति। तदा वस्तूनां मूल्यम् , गुण्वत्ता सँमिष्र्स्णं तथा च तस्य अनुकरणसंभावना प्रायः भवति। अत एव ग्राहकः क्षतिग्रस्तं तथा च दोषयुक्त - वस्तु प्राप्नोति।
निरक्षरतायाः उच्चप्रमाणम् - ग्राहकाणां शोषणस्य अन्य कारणेषु एकं प्रजायाः निरक्षरता अपि वर्तते। ग्राहकजागृतेः प्रमाणम् अपि अल्पम् अस्ति। ग्राहकेभ्यः निरक्षरताकारणात् वस्तूनाम् उत्पादनम् आपणविस्गषयकसूचना एवं न्यानस्याभावः दृश्यते। उत्पादकाः व्यावसायिकः वाः विविधरीत्या ग्राहकस्य निरक्षरतायाः अनुचितं लाभं स्वीकृत्य दुष्प्रवृत्तिमाश्त्रित्य ग्राहकन् वञ्चयन्ति।
ग्राहकजागृतौ वृद्धिः - भारत देशे ग्राहकस्य सुरक्षायाः विचारः नूतनविचारः नास्ति। कौटिल्यस्य अर्थशास्त्रे उद्योगः एवं व्यापारविषयककुरीतयः, ग्राहकानां हितरक्षणम् , अल्पतुलामापनम् , अनुपयोगिवस्तूनां सँइश्रणम् , कृत्रिमता सदृश आपराधिकप्रवृत्तिविषये दण्डस्य प्रवधानं दृश्यते। ग्राहकसुरक्षायां ग्राहकाणां हितरक्षणाय सुव्यवस्थितम् आयोजनं एवं सुग्रथितान्दोलनं एवं क्रान्तिविषयक नूतनसंकल्पना विकसिता अस्ति। 1991 ख्रिस्ताब्दानन्तरं अर्थतन्त्रे स्वायत्तिकरणम् , औदारीकरणसदृशम् आर्थिकसंशोधनेन सहैव ग्राहकसुरक्षायाः अपि विचारः विकसितः ।