सदस्यः:Mssriraksha/सङ्गीतस्य महत्वम्
सङ्गीतस्य महत्वम्
देशस्य प्रगतिपथे 'कला' अति मुख्यमं पात्रं वहति। कलाक्षेत्रे सङ्गीतम् अग्रस्थाने तिष्टति। नाट्यम्, चित्रकला, शिल्पकला इत्यदयाः कलाक्षेत्रे प्रमुखं स्थानं वहति। चतुर्वेदेषु अन्यतमा सामवेदः सङ्गीतस्य उगमस्थानं अस्ति। सम्यक् गायनं इति सङ्गीतम्। शाङ्ग्र्देवः सङ्गीतरत्नाकर ग्रन्थे- 'स्वतो रंजयति श्रोतृ चित्तम् स स्वरमुच्यते'इति अवदत्। सङ्गीते सप्त स्वराः भवन्ति।'स', 'प' स्वराः प्रकृतिस्वराः, 'रि', 'ग', 'म', 'द', 'नि' स्वराः विकृतिस्वराः सन्ति। स- षड्जम् रि- रिशभम् ग- गान्धारम् म- मध्यमम् प- पंचमम् द- दैवतम् नि- निषादम् भवन्ति। तम्बुरिः श्रुतिवाद्यम् भवति। सङ्गीतस्य पोषकाः राग्नः आसन्। राग्नः आस्थाने सङ्गीतकाराः आसन्। पुरा सङ्गीतप्रदर्शनम् देवलये भवति स्म। अधुना सङ्गीतप्रदर्शनम् सभाङ्गणे भवति।
सङ्गीते अभ्यसगानम्, सभगानम् इति द्वौ भागौ भवति। सङ्गीत अभ्यसगानस्य रचयिता श्री पुरन्दरदासः। सभागानस्य रचयिताः अनेका विद्वांसाः सन्ति। वाचं गेयं च कुरुते यस्य सः वाग्गेयकारकः इति। तेषु प्रमुखाः श्री त्यगराजः, श्यामाशास्त्रिः, मुत्तुस्वामि दीक्षितः, स्वाति तिरुनाल् महाराजः, नाल्वडि कृष्णराजेन्द्र ओडेयर्, मैसूरु वासुदेवाचार्यः इत्यादयाः भवन्ति।
अभ्यासगाने सरलेवरसे, जण्टिवरसे, अलङ्कारः, पिल्लरिगीता, संचारिगीता, लक्षणगीता च प्रमुखांशाः। सभागाने वर्णः, कृतिः, कीर्तनम्, वचनानि च प्रमुखांशाः।
रोगाणां निवारणार्थे सङ्गीतम् एकम् अत्युत्तम साधनम् इति अधुना वैग्नानिकाः संशोधनम् कृत्वा आधारसहितेन निरूपितवन्तः। सङ्गीत गायनेन, श्रवणेन चा मनसः शान्तिः लभ्यते। सङ्गीत अभ्यासनेन मानवस्य नाभिद्वारा नादम् प्रसारम् भूत्वा श्वासकोशेण कण्ठद्वारा प्रसारयति। एतत् मानवस्य आन्तरिक अङ्गङ्गाभ्यां सामर्थ्यम् ददाति।
अधुनापि कर्नाटक सर्वकारः सङ्गीतस्य प्रचारार्थम्, उद्धारार्थम् छात्राणाम् कृते जूनियर्, सीनियर्, विध्वत् परीक्षां कृत्वा तेषां प्रोत्साहम् ददाति। इति तु श्लाघनीयः विषयः। अपि तु कलाश्री प्रशस्ति दत्वा गौरवयति। अतः ललितकलानाम् सङ्गीताभ्यासः भौतशास्त्रे, गणितशास्त्रे, जीवशास्त्रे, मनोविग्नानम् तथा च समाजशास्त्राणाम् सह संपर्कम् भूत्वा प्रमुख स्थानम् प्राप्नोति।
समाजस्य स्वास्थ्यम् सङ्गीतेनैव भवति। देशस्य प्रगतिपथे सङ्गीतम् प्र्मुख स्थानम् वहन्ति।
अतः ललितकलानाम् सङ्गीताभ्यासः भौतशास्त्रे, गणितशास्त्रे, जीवशास्त्रे, मनोविग्नानम् तथा च समाजशास्त्राणाम् सह संपर्कम् भूत्वा प्रमुख स्थानम् प्राप्नोति।