सदस्यः:Neesha Thunga K/sandbox
विराट्पर्व ।
अथ निश्चितानन्तरकरणीयांस्तान्धौम्य: प्राह - “सर्वेऽपियूयं कृतबुद्धय: सपुपासितवृद्ध्यश्च । तथापि वार्धकं पुरस्कृत्य मयेदमुच्यते ।छेकानां तिरश्चामिव कृच्छो दशाविपाकोऽद्य भवतामुपस्थित: । तथा हि - परगृहवासे परेच्छया वृत्तिः,अज्ञातचर्यायामन्तश्चैतन्यमात्रं, सेवास्वीकृतावात्मन्यप्यनीश्व- रता ।किं च । परिभवैकपदं राजकुलं, तेजस्वि च क्षत्रं,चिद्रान्वेषिण: परे, दीर्घश्च कालो गूढं गमयितव्यः, इति च मेथोवैषम्यम् । किं बहुना ।अयमत्र सङ्ग्रह:- चक्षुनिर्मील्य संवत्सरं गोव्रता भवत । शिवा: सन्तु पन्थान:" इत्याशास्यतेषामग्नीनादाय पाञ्चलान् ययौ । ततस्ते मत्स्यराज्येतं संवत्सरं विवत्सवस्तत्पुरमेत्य, तस्य नातिदूरे श्मशानसंनिहितेशमीपादपे स्वयुधानि कुणपेन सहाबद्ध्य, स्तवेनप्रसन्नाया दुर्गाया: परेषामज्ञातवासवरं लब्ध्वा, पृथग्वर्त्मानो ययुः । जनास्तु मुतकसम्बन्धेन तं वृक्षं दूरादेवपरिहरन्ति स्म । युधिष्ठरस्तु विराटमुपेत्य 'राजन्, गोत्रेण वैयाघ्रपद्यं, नाम्ना कङ्कं, जात्या द्विजातिम्, अक्षेषु कुशलं। वृत्त्यर्थं त्वामुपस्थितं च मां विजानीहि' इति वदंस्तेन प्रीत्या सभास्तारो विदधे । भीमस्तु वल्लवनामानं सूदमात्मानं ब्रुवंस्तेन महानसाध्यक्षोऽध्यकारि । ऐंन्द्रिस्तु 'बृहन्नलाख्य: षण्डस्तौसन् दुहितुरुत्तराया नर्तनशिक्षणाय न्ययोजि । माद्रेयौ तु ग्रान्थिकारिष्टनेमिनाम्नात्मानं व्यवहरन्तौ , क्रमेणाश्चानां गवां चाध्यक्षावध्यकारिषाताम् । कृष्णा तु राजपत्नीं सुदेष्णां प्राप्य“स्वामिनि, मालिनीं नाम सौरन्ध्रीं गन्धर्वगुप्तां केशाप्रसाधनेनात्रभवतीं शुश्रूषितुमुपतस्थुषीं च मां विद्वि । किं तुपरस्योच्छिष्टादौ नाहं नियोज्या । एतदेव मे महाव्रतम्"इत्युदारमुदाहरन्ती, तथेत्यभ्युपगच्छन्त्या तया सादरं पर्यग्राहि ।सर्वेऽपि ते राज्यभ्रष्टेभ्य: पाण्डवेभ्य: परागतमात्मानमावेदयामासु: । अथ चतुर्थे मासि तत्र ब्र्ह्मोत्सवे प्रवृत्ते समागतो जीमूतो नाम महामल्लो राज्ञा भीमेन सह क्रीडार्थं द्वन्द्वयुद्धं कारितस्तेन मारितश्ह । तत: स्वविक्रमं दिहक्षुभिरन्त: प्रभञ्जनात्मज: स्वयमकामेनापि सिंहव्याघ्रादिभिश्चिक्रीड ।
एवं गर्भवासनिर्विशेषमज्ञातवसतिं वसतां तेषां दशसु मासेब्वतीतेषु, राज्ञ: सेनापति: कीचको नाम नीचः कृष्णां निशाम्य कामान्धोऽसभ्यमिदं प्रलपति स्म - 'अयि सुन्दरि, अनुचितं हि त्वयाप्रतिपन्नम् । मम स्वसारं सुदेष्णामपि तव कृतेऽसम्यग्दर्शिनीमवगछामि, या कुसुममालां पादघातेन ग्लपयति ।अथवा कमतीतोपालम्भेन। गृह्वाण सर्वेश्वरीभावम् । न हि कीचकं विराध्यन् मरुत्वानपि स्थातुमीष्टे, किं पुनर्बल्बजभूतो मत्स्यराज:, तदलमाशङ्कया । भवत्या: कृते जीवितेऽपि निराशमिमं जनं संस्थापय’ इति । सा तु कर्णारुन्तुदेन तत्प्रलपितेन विदीर्णहृदयाप्यकातरमित्थं विनिनाय - ‘ननु सूतपुत्र!कथमपथेन प्रवर्तितुमीहसे सर्वत्मना विगीतं हि पारदारिकत्वम् । स्वकलत्रमुपमीकृत्य परकलत्रान्निवर्तय दृष्टिम् । न चाहं या काचिदस्मि । तदलममानुषपरिग्रहे मय्यविनयेन’ इत्युक्त्वा द्गुततरं सुद्रूरमपससार।तत्क्शणं स खल: स्वस्रे निवेद्य, तया कृतमन्त्रः स्वभवनमुपेयाय । अथ कस्मिंश्चिदवसरे ‘सैरन्ध्रिं! मम भ्रातुर्गृहात्सुरामाहर, तृषितास्मि’ इति सुदेष्णयोक्ता सा ‘अयि राग्यि! जानयेव तस्य दुराशयस्य हृदयम् । स्वभावदुष्टस्यापि स्वजनस्योत्पथाद्वलान्निवर्तने हि स्वामित्वमध्यम् । सत्येवं स्वयमेव कथं प्रवर्तयित्री भवसि । सन्त्यन्या बहृच: परिचारिकाः । तास्वन्यतमा नियुज्यातम्' इति याचमाना सती, 'तत्र कामयोग्यतां वीक्श्य बिभेशि । जानामि ते भीरुत्वम् । गम्यतामनुत्तरम्' इति तया निर्बन्धेन प्रहिता भगवन्तमादित्यं मन्सा शरणं व्रजन्ती, चकितचकितं तदूगृहं प्रविवेश । तत्क्शणं 'सुदिनं सुप्रभातम्' इत्युप्सृत्य, स्वोत्तरीयाञ्चले परामृशन्तं तं पापं वेगेनाक्षिप्य राज्ञ: सभामभिदुद्राव । पतितोत्थित: स पतितश्च स्वयं तामनुधाव्य केशपक्षे गृहीत्वा पश्यत एव राज्ञ निपात्य पदा ताडयन्सवितृप्र्हितेनाद्दाय महान्तं वृक्षं प्रहरणीकर्तुमवलोकयंस्तदिङ्गितजेन निवारणायाङ्गुष्टेनाङ्जुष्ट्मवमृद्गता युधिश्टिरेण संज्ञां ग्राहितः - 'वल्लव! नूनमिन्धनार्थी भवानेतं वृक्शं पश्यति, किंत्वशुष्कोऽयमधुना । अतः प्रतीक्श्यताम् । अलं संभ्रमेण' इति । तया सूचनया वेलयेव महोदधौ तस्मिन्विनीतरभसे, द्रौपदी राज्ञ: सदसि बहु विलप्य कीचकाभ्दीतेन मत्स्येनाप्रतिरूपं प्रत्युकता युधिश्टिरेणण च समयप्रतिपालनाय संज्ञां ग्राहिता सती पुनरन्त:पुरमाविवेश । अथ विषादकारणं पृच्छन्तीं सुदेष्णाम् ' अयि सुजनपरिभाविनि ' किं बलहप्ते धर्ममतिक्रामति तं धर्मबन्धना धरित्री क्षणमपि वेढुं न् सहते । तदचिरेण मुमूर्षोस्तस्य तव भ्रातुर्विपत्तिं द्रक्ष्यसि' इत्युक्त्वा सा निशीथे भीमस्य शय्यां प्राप्य, 'कथं नाथ! वारं वारं परिभूयमानां दयितां पश्यतोऽपि तेऽक्ष्णि निद्रावतरति । का नाम् राजपुत्री वीरपत्नी वीरसूश्च सती अहमिव परैराक्रम्य क्लिश्यते ! यदि तं पुनरपि सूताधमं जीवन्तं पश्येयं, तर्हीदमेव मम चरमसम्भावनमवधारय' इति विलपन्ती तस्योरसि निपत्य रुरोद । स च तद्वघमास्थाय, तदुपायं च संविधाय, तां ससान्त्वं॰ विसर्जयामास । परेब्धव्यपि समागत्य साभ्यंर्थनं पूर्ववदसकृत्कद्वदं कापुरुषं सा भोमवाक्यं मनसिकृत्याह - ‘ सूतपुत्र ! नूनं क्षेत्रियस्ते मान्मथो व्याघि: । अतस्त्वं मत्त; शमनांकाङ्क्षी । तद्येयं नर्तनशाला, नत्तं नि:शालाकायां तत्र सज्जो भव।अनुभव चाननुभूतपूर्वमभिप्रेतसुखं, येन पुन: स्वदरेष्वपि रतिं न लभसें । गन्धर्वेभ्योविपत्तिमाकलय्यैवं ब्रवीमि । स्त्रीणां भर्तृवश्यता हि लोकसमुदाचारः । न ह्यापार्थप्रयुक्तां वाचं माहशी वक्तुमईति। तदलमन्यथा गृहीत्वा । षट्कर्णो मास्तु’ इति । तच्छ्रवणेनै वाभीष्टसम्पत्तिं मन्वान: स मूढः स्वयमॆवान्त्यमण्डनं विधाय निशि तां शालां प्रविशन्, 'अयि मालिनि ! आगतस्तव पादताडनार्होऽयं जन: । विगमय मुष्टिधातं संपिण्डीकृत्य, द्रौपधौ दर्शयन्स्वमेव स्थानमुपेयिवान् । अथ त्याहूय दर्शितै: सभापालैर्विज्ञापिते मत्स्ये, तद्भ्रातर: स्थलकूर्ममिवान्तर्गतावयवं तं ज्येष्टं संस्कुर्वन्तस्तां तत्र द्दष्ट्वा ' यक्षानुरूपो हि बलि: । तदस्यां कामेन परासोरस्यानया सह संस्करणं पारलौकिकं स्यात् । इति मन्त्रयमाणास्तेन सह संयम्य तां पितृवनं निन्यु: ।
हा जय ! हा जयन्त ! हा विजय! हा जयत्सेन! हा जयद्बल ! आगच्छत । मोचयत मां परहस्तगताम् ' इति साङ्केतिकेन नाम्ना भर्तृन्व्यपदिश्याक्रोशन्त्यां तस्यां भीमो विकृतेन भीमेन च वेषेण तरुप्रहरण एव वर्त्मान्तरेण तत्स्थानं प्रधाव्य पञ्चोत्तरशतसंख्याकांस्तान्निहत्य, तां च विमॊच्य, जनैरलक्षित एव पुनरागत् । ततो मन्दमन्दमागच्छन्ती सा भयात्स्वद्दष्टिपथं वर्जयभ्दर्जनैर्मुक्तमाजकतमार्गान्त:पुरं निविश्माना भृश वेपमानया सुदेष्णयाभ्याचि - ‘अयि गान्धर्वसुन्दरि ! भवत्या: कृते त्रस्तमिदं सर्वं राजकुलम् । दोह मे सपतिपुत्राय प्रणभिक्षाम् । क्रियतामन्यत्र वासे मन:’ इति । सा तु ‘राज्ञि ! त्रयोद्वशाहमात्रं प्रतीक्षस्व । सर्वं शुभोदर्कं सम्पत्स्यते' इति तामाश्वासयति स्म । अत्रान्तरे पाण्डवजिज्ञासायै दुर्योधनप्रहिताः प्रणिधय: पुनरागत्य व्यजिज्ञपन् - ‘कुरुराज ! अहॊ तव भागधेयम् । यदल्पेनैव कालेन परेषां नामघेयमपि विनष्ठं, किमु रूपधेयम् । किं चान्यत् । देवपादसुहृदस्त्रिगर्तान्द्विषन्कीचक: सवर्ग एव गान्धर्वैर्मारित: । शेषप्रतिपत्तौ मह्मराज: प्रमाणमू’ इति । अथ यथाश्रुतमेव मत्वा प्रहृष्यत्सु कर्णादिषु, नैतदेवमित्यधिक्षिपति द्रोणे, दुर्योधनेनानुयुक्तः पितामः प्राह - 'तात ! न ह्यस्माद्दशैरीद्दशेऽन्तरदायिभिर्भाव्यम् । तथापि पृष्टेन तत्वमेव वाच्यमित्युच्यते - आचार्यमतमेवानुमन्तव्यम् ।
Links - http://www.vjsingh.info/book2.html, http://hinduebooks.blogspot.in/2011/03/four-vedas-sanskrit-text-with-hindi.html, http://hinduism.stackexchange.com/questions/3794/whose-commentaries-on-the-vedas-and-upanishads-are-most-followed, http://www.exoticindiaart.com/article/understanding-vedas/