भारतेश्वरः पृथ्वीराजतृतीयः

भारतेश्वरः पृथ्वीराजतृतीयः हिन्दुसम्राट्, सपादलक्षेश्वरः इत्यादिनामभिः प्रसिद्धः । भारतस्य अन्तिमहिन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः १२३५ तमे विक्रमसंवत्सरे पञ्चदशवर्षदेशीयः (१५) राज्यसिंहासने आरूढः जातः । अतः तस्य माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म ।पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिता प्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा तम् अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च तस्मै व्यद्रुह्यन् । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । ११७७ तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठी कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् ।

(अधिकवाचनाय »)