सदस्यः:Nischal/प्रयोगपृष्ठम्
रावणवधाख्यं महाकाव्यम्
भट्टिकाव्यमिति लोके प्रथितं रावणवधमहाकाव्यं विदुषाम् अतीव प्रियम् । अस्य कर्ता भट्टिः । एतत्पदं तु भर्तृशब्दस्य प्राकृतं रूपम् इति के चित् कथयन्ति । अस्य क वेर्देशकालमतादिविषये नाधिकं जानीमो वयम् । कविरात्मनो विषये न कि मपि क थयति । काव्यस्यान्ते तु एकं पद्यमुपलभ्यते यत् किञ्चित् कवेर्विषयं द्योतयति ।
यथा काव्यमिदं विहितं मया वलभ्यां श्रीधरसूनुनरेन्द्रपालितायाम् ।
कीर्तिरतो भवतान्नृपस्य तस्य प्रेमक रः क्षितियो यतः प्रजानाम् ।।
अनेनपद्येन ज्ञायते काव्यरचनावेलायां भट्टिः वलभीनाम्न्यां नगर्यामुवास । तदा तां नगरीं श्रीधरसूनुर्नरेन्द्रः पालयति स्मेति । किन्तु विमर्शकाः श्रीधरसेननरेन्द्रपालितायाम् इति पाठमाद्रियन्ते । धरसेनाः चत्वारः पञ्चमषष्ठशतमानयोः वलभीं शासति स्मेति इतिहासज्ञाः कथयन्ति । प्रायः भट्टिः षष्ठे शतके भूमण्डलमलंचकार । आलन्कारिको भामहो भट्टिकाव्यं दृष्टवानिति सम्भाव्यते । तत्र किं कारणमिति चेद् भट्टिकाव्यस्यान्ते
पद्वयमेवमस्ति दीपतुल्यः प्रमन्धोयं शब्दलक्षणचक्षुषाम् ।
हस्तामर्शशवान्धानां भवेद् व्याक रणाद् ऋते ।।
व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम्।
हता दुर्मेधसश्चास्मिन् विद्वत्प्रियतया मया ।।
इति । एतद् दृष्टवैव भामहेन काव्यालन्कारे प्रोक्तम् काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् । उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।। अतो भामहात् पूर्ववर्ती भट्टिरत्यात्रापि न सन्देहः । रावणवधम् काव्यस्य नाम स्पष्टतया न क्वापि क विना सूचितम् । सर्गान्तवाक्येषु भट्टिकाव्यम् इत्येव नाम दृश्यते । तथापि विषयमाश्रित्य रामचरितम् रावणवधम्, रामकाव्यम् इत्यपि नामधेयानि लभ्यन्ते । तेषु रावणवधम् इति जनप्रियम् । एतच्च माघकृतं शिशुपालवधं स्मारयति । अस्मिन् काव्ये द्वाविंशतिः सर्गास्सन्ति । रामसम्भावाद् आरभ्य रामस्य अयोध्यागमनपट्टाभिषेक पर्यन्ता कथात्र निरू पिता । कथायाः रचनायां कविना किमपि नौतन्यं न प्रदर्शितम् । वाल्मीकि क थिता क थैव स्ववचोभिः कथिता । कथनप्रकारे एव कवेः प्रतिभा विलसति । क वेरुद्देशो व्याक रणबोधनम् इति प्रतिभाति । पाणिनेः सूत्रैः निष्पादिताः शब्दाः अत्र प्रयुक्ताः । अतोऽतीव व्युत्पादकं काव्यमिदमित्यत्र नैव संशयः । व्याख्याकाराः काव्येऽस्मिन् चत्वारि काण्डानि पश्यन्ति । आदौ चत्वारः सर्वाः प्रकीर्णकाण्डमिति, ततः पञ्च सर्गाः अधिकारकाण्डमिति, ततः चत्वारः सर्गाः प्रसन्नकाण्डमिति, अवशिष्टाः नव सर्गाः तिङन्तकाण्डमिति च अभिधीयन्ते । प्रकीर्णकाण्डे सूत्राणां क अमानुगतिर्नास्ति । विविधानि रूपाणि तत्र प्रदर्श्यन्ते । विशेषतः तिङन्तरू पाणि । आदौ पद्यत्रयं दृश्यताम्
आदौ पद्यत्रयं दृश्यताम् अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वरंभुवनहितच्छलेन यं सनातनः पितारमुपागमत् स्वयम् ।।
सोऽध्यैष्ट वेदास्त्रिदशानयष्ट पित¦न् अपारीत् सममंस्त बन्धून् ।
व्यजेष्ट षडवर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ।।
वसूनि तोयं घनवद् व्यतारीत् सहासनं गोत्रभिदाध्यवात्सीत्।
न त्र्यम्बकादन्यमुपास्थितासौ यशांसि सर्वेषुभृतां निरास्थत् ।।
अत्र तिङन्तानि लुङि प्रयुक्तानि । इत उत्तरं चतुर्थे पद्ये लिट् दृश्यते (जज्वाल लोकस्थितये स राजा) । पदे पदे व्याकरणविशेषाः सर्वत्र दृश्यन्ते । विबुधसख इत्यत्र राजाहस्सखिभ्यष्ट्यू, परन्तप इत्यत्र द्विषत्परयोस्तापे खचि ह्रस्वः इत्यादि । प्रथमसर्गस्यान्यदेकं पद्यं विलोक्यताम्
स शुश्रुवांस्तद् वचनं मुमोह राजासहिष्णुः सुतविप्रयोगम् ।
अहंयुनाऽथ क्षितिपः शुभंयुरू चे वचस्तापसकुञ्जरेण ।।
भाषायां सदवसश्रुवः इति सूत्रेण शुश्रुवस्शब्दः सिध्यति। हिष्णुशब्दस्तु अलंकृञानिराकृञ्ख् प्रजनोत्पचोत्पतोन्मदरुच्यपत्रप्रवृतु वृधुसहचर इष्णुच् इति सूत्रेण । अहंशुभयोर्युस् इति सूत्रेण अहंयुः शुभंयुः इति शब्दो सिद्धौ । तापसकुञ्जरेण इत्यत्र तापसः कुञ्जरः इवेति विग्रहः। उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण समासः। क्षितिं पातीति क्षितिपः। आतोऽनुपसर्गे कः इति सूत्रेण कप्रत्ययः। आतो लोप इटि च इति सूत्रेण धातोराकारस्य लोपः । उपपदमतिङ् इति सूत्रेण समासः । इत्थं भट्टिकाव्ये सर्वत्र व्याकरणसूत्राणि स्मरणीयानि। तृतीयसर्गस्थं पद्यमेकं पश्यन्तु दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मणं च । रोरुद्यमानः स तदाभ्यपृच्छद् यथावदाख्यन्नथ वृत्तमस्मै ।। दिदृक्षमाणः द्रष्टुमिच्छुरित्यर्थः। दृश्धातोः सन्नन्ताच्छानच्। दृश् परस्मैपदी। पूर्ववत् सनः इति सूत्रात् सन्नन्तादपिददृशः परस्मैपदं प्राप्नोति। किन्तु ज्ञाश्रुस्मृदशां सनः इत्यपवादसूत्रं प्रवर्तते। तेनात्मनेपदमेव। जिज्ञात्पते शुश्रूषते सुस्मूर्षते दिदृक्षते इति। अतः शानजेव। रोरुद्यमानः इति यङन्तात् शानच्। धातोरेकालो हलादेः क्रियासमभिहारे यङ्। अनुदात्तङित आत्मनेपदम्। तङानावात्मनेपदम् इत्यादीनि सूत्राणि अत्र स्मर्तव्यानि। यथावदिति यथा अर्हति इत्यर्थे। तदर्हम् इति सूत्रेण वतिः। आख्यन् इत्यत्रअस्यतिवक्त्रिख्यातिभ्योङ्। एव व्याकरणविशेषा अत्र ज्ञेयाः।