सदस्यः:Pallavi N Sastry/प्रयोगपृष्ठम्

सञ्चिका:AyurvedaSanskrit.jpg

आयुर्वेदः सम्पादयतु

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थशतकादारभ्य क्रिस्तशकस्य ११ शतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्। चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति।मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।कृत्स्नोऽपि आयुर्वेदः अष्टधा विभक्तः। शल्य-शालाक्य-कायचिकित्सा-कौमारभृत्य-अगदतन्त्र-रसायनतन्त्र-वाजीकरणानीति। इदानीं प्रत्येकमङ्गं विवेचयामः।