सदस्यः:Raicharank/प्रयोगपृष्ठम्

सतत-विस्तृतमूल्याङ्कनम् (Continues and Comprehensive Evaluation) राइचरणकामल: शिक्षाशास्त्री(द्वितीयवर्ष:) सम्पादयतु

【】मूल्याङ्कनम् (Evaluation) सम्पादयतु

 मूल्यानाम् अङ्कनम् इति मूल्याङ्कनम्। अत्र 'मूल्यम्' इत्यस्य अर्थद्वयं भवति- १)गुणात्मकम्(Qualitative)

२)परिणामात्मकम्(Quantitative) कस्यापि वस्तून: व्यक्ते: वा गुणात्मकं परिणामात्मकञ्च मुल्यानाम् अङ्कनमेव मूल्याङ्कनम्।

वर्तमानसमाज: 'ज्ञानभित्तिकसमाज:' इत्युच्यते। समाजस्य अग्रगते: शिक्षाया: गुरुत्वम् अत्यन्तं वर्तते। शिक्षाया: मानोन्नयनं यथा भवति समाजस्य अग्रगतिरपि तथैव भवति। शिक्षाया: मानोन्नयनाय कस्यचित् विषयस्योपरि ध्यानं दातव्यम्। यथा-

१)समाजस्य आवश्यकतानुसारं पाठ्यक्रमम्।

२)विद्यार्थीनाम् आयु: बौद्धिकस्तर: चानुसारं पाठ्यचर्या।

३)पाठ्यक्रमानुसारं यथोचितं पाठ्यपुस्तकम्।

एतेषां विषयाणामाधारेण विद्यालये पठन-पाठनं प्रचलन्ति। एतै: सह मूल्याङ्कनम् अपि अत्यावश्यकम्। यै: शिक्षार्थीनां त्रुटिमावश्यकतां च ज्ञात्वा तेषां सर्वाङ्गीणविकासे समर्था: भवेयु:।

[] शिक्षाया: मूलोद्देश्यं विद्यार्थीनां सर्वाङ्गीणविकास:। सर्वाङ्गीणविकासस्य केचन पक्षा:-ज्ञानम्, शरीरम्, कर्मम्, अनुभूतिश्च। शिक्षार्थीनामेतेषां विषयाणां निरन्तरपरिमापस्य प्रक्रिया एव मूल्याङ्कनम्। NCERT कर्तृकप्रकाशित:'Concept of Evaluation in Education' इत्यनुसारं मूल्याङ्कनप्रक्रियाया:एतेषामुद्देश्यानां प्राप्तिर्भवति-

१)शिक्षाया: निर्धारितोद्देश्यानां सार्थकता।

२)शिक्षणाभिज्ञतानां कार्यकारिता।

३)मूल्याङ्कनपद्धतीनामुपयोगिता।

【】सतत-विस्तृतमूल्याङ्कनम्(CCE सम्पादयतु

अधिगमप्रक्रियायां मूल्याङ्कनम् एकम् अभिन्नाङ्गम्। शिक्षायाम् 'अधिगम:' एका निरन्तरप्रक्रिया वर्तते। अतः मूल्याङ्कनमपि सततं निरन्तरं वा भवेत्। सततम् अर्थात् नियमितम्। पाठ्यक्रमस्य प्रतिविषयान्(unit) अधिगमानन्तरं विद्यार्थीनां वृद्धि-विकासयो: निदानात्मकम् उपचारात्मकं च मूल्याङ्कनमेव सततमूल्याङ्कनम्। विद्यार्थीनां निदानोपचाराभ्यां सहैव अध्यापकेनSपि प्रतिपुष्टि: स्वीकरणीय:। येन अध्यापकस्य शिक्षणप्रणाल्या: अपि मानोन्नयनं भवेत्।

विस्तृतमूल्याङ्कनस्य तात्पर्यम्- पाठ्यचर्याया: प्रतिविषयान् आधृत्य अर्थात् पाठ्यविषयेण सह पाठ्यसहगामीक्रियाद्वारा विद्यार्थीनां बृद्धि-विकासयो: निदानात्मकम् उपचारात्मकञ्च मूल्याङ्कनम्। अत्र कारणमस्ति विद्यार्थीनां मानसिकक्षमता-मनोवृत्यादय: पाठ्यसहगामिक्रियामाध्यमेन एव बहिरागच्छति। सतत-विस्तृतमूल्याङ्कनप्रक्रियायां विद्यार्थीनां सर्वाङ्गीणपक्षाणां विकास: भवति। अतः अधुनातनशिक्षापद्धत्या: पारम्परिकमूल्याङ्कनप्रक्रियां त्यक्त्वा सतत-विस्तृतमूल्याङ्कनप्रक्रियाया: आवश्यकता वर्तते। राष्ट्रियशिक्षानीति: 1986 मध्ये पाठ्यक्रमेण सह पाठ्यसहगामिक्रियाया: अपि मूल्याङ्कनस्य प्रावधानं लिखितमस्ति।

【】सतत-विस्तृतमूल्याङ्कनस्य महत्वम् सम्पादयतु

१) वैयक्तिककारणेन, पारिवारिककारणेन, समायोजनसमस्याकारणेन च विद्यार्थी स्वाध्याये मनोयोगप्रदानं न करोति एवञ्च परिणामस्वरुप: मूल्याङ्कनस्य परिणामे न्यूनता आगच्छति। सतत-विस्तृतमूल्याङ्कनप्रक्रियया विद्यार्थीनां समस्यां ज्ञात्वा झटित्येव समस्याया: निराकरणं भवति।

२)विद्यार्थीनां वृद्धिविकासात्मकं प्रगते: ज्ञानं भवति।

३)सतत-विस्तृतमूल्याङ्कनेन विद्यार्थी स्वस्य पारदर्शीतां न्यूनतां च ज्ञात्वा तदनुसारेण पारदर्शीतां वर्धने न्यूनतां च दूरीकरणे समर्थ: भवति। एवञ्च तदनुसारेण भविष्यजीवने विषयाणां चयणं जीवनवृत्ते:(career) च चयनं करोति।

४)सतत-विस्तृतमूल्याङ्कने विद्यार्थीनां सर्वाङ्गीणविकासस्योपरि बलं दीयते। तदनुसारं बौद्धिक-भावनात्मक-शारीरिक-सांस्कृतिक-सामाजिकमुल्यानां विकास: भवति। ५)सतत-विस्तृतमूल्याङ्कनम् अध्यापकस्य शिक्षणं प्रभाविकर्तुं साहाय्यं करोति।

【】सतत-विस्तृतमूल्याङ्कनस्य विधय: सम्पादयतु

सतत-विस्तृतमूल्याङ्कने केषां चित् उपकरणानां विधिनां च प्रयोग: क्रियते। यथा- १)निरीक्षणम्(Observation) २)साक्षात्कारम्(Interview) ३)प्रश्नावली(Questionnaire) १)निरीक्षणम्

कस्यापि व्यक्ते: वस्तून: वा सम्यकतया पर्यबेक्षणमेव निरीक्षणम्। परिकल्पितरूपेण वैज्ञानिकरूपेण च तथ्यानां संग्रहणे; तथ्यानां यथार्थता निर्णये निरीक्षणविधि अत्यन्तगुरुत्वपूर्णम्। निरीक्षणमिदं प्रकारद्वयं भवति- अ)प्रत्यक्षनिरीक्षणम्(Direct observation) ब)अप्रत्यक्षनिरीक्षणम्(Indirect observation)

अ)प्रत्यक्षनिरीक्षणम् सम्पादयतु

निरीक्षणस्य अस्मिन् विधौ अध्यापक: विद्यार्थीभि: सह प्रत्यक्षरूपेण सम्पर्कं स्थापयति। फलतः अध्यापकस्य विद्यार्थीनां सामूहिकव्यवहारस्य वैयक्तिकव्यवहारस्य च ज्ञानं भवति। अतः विद्यार्थीनां समस्याया: समाधानम् अत्यन्त: सरलतया भवति।परन्तु विधिरयं विस्तृतानुसन्धाने ग्रहणयोग्यं न भवति। तत्र कारणमस्ति वैयक्तिक पक्षपातित्वं भवितुं शक्नोति।

ब)अप्रत्यक्षनिरीक्षणम् सम्पादयतु

अत्यनानां जटिलसमस्यानां निराकरणे विधिरयं यथोपयुक्तं भवति। अस्मिन् विधौ अध्यापक: निरीक्षणकर्ता वा अप्रत्यक्षरूपेण निरीक्षणं करोति। निरीक्षणमिदं प्रश्नवल्या भवति। एवञ्च विद्यार्थीं पूर्णरूपेण जानाति एतादृश: व्यक्तिना प्रश्नवल्याया: पूर्ति: भवति।

२)साक्षात्कारम् सम्पादयतु

भावानाम् आदान-प्रदानेन तथ्यानाम् एकत्रीकरणमेव साक्षात्कारम्। विधिरयम् उभयात्मिका। साक्षात्कारं विभिन्नै: प्रकारै: भवन्ति- अ)वैयक्तिकं दलगतञ्च साक्षात्कारम्। ब)संरचनात्मकम् असंरचनात्मकञ्च साक्षात्कारम्। स)निर्णायकसाक्षात्कारम्। इत्यादय:।

अनेन विद्यार्थीना सह अध्यापक-निरीक्षणकत्रो: वा मध्ये घनिष्ठता वर्धते। फलत: विद्यार्थी स्वस्य मनोSभिव्यक्ति: प्रकटीं करोति।

•साक्षात्कारस्य लाभः सम्पादयतु

अ)वाञ्छिततथ्यानां प्राप्तिर्भवति। ब)विद्यार्थीनां प्रवणता-आवेगादिनां साक्षात् ज्ञानं भवति।

स)प्रयोजनानुसारम् Cross Question इति कर्तुं शक्यते। ड)अनेन संगृहीततथ्यानां प्रामाणिकता अधिका: भवन्ति। •साक्षात्कारस्य दोष: अ)अनेन विद्यार्थीन: जागरुका: भवन्ति। तेनोचित तथ्ये विकृति: आगच्छन्ति। ब)साक्षात्कारं व्ययसापेक्षम्। स)प्राप्ततथ्यानां लिपिबद्धकरणे समस्या भवन्ति।

३)प्रश्नावली सम्पादयतु

प्रश्नानाम् आवली सूची वा प्रश्नावली। अनेन स्वमनोवृत्त्यानुसारम् उत्तराणि यच्छन्ति। प्रश्नावली प्रकारद्वयं भवति- अ)मुक्त-प्रश्नावली(Open Questionnaire) ब)वद्ध-प्रश्नावली(Closed Questionnaire)

अ)मुक्त-प्रश्नावली सम्पादयतु

यत्र प्रश्नानाम् उत्तरदाने विद्यार्थीनां मुक्तता स्वतन्त्रता वा वर्तते, अर्थात् स्वेच्छानुसारम् उत्तराणि यच्छन्ति सा एव मुक्तप्रश्नावली।

ब)वद्ध-प्रश्नावली सम्पादयतु

यत्र प्रश्नानाम् उत्तराणि प्रदत्तेषु विकल्पेषु दातव्यं भवन्ति सा वद्धप्रश्नावली उच्यते। •प्रश्नावले: लाभः १)प्रश्नावल्या विद्यार्थीनाम् आवेग-मनोभाव-सामाजिकतादिनां परिचयं मिलति। २)अस्यानुसारेण विद्यार्थीनां यथा-यथ मार्गनिर्देशनं भवति।

•प्रश्नावले सीमावद्धता सम्पादयतु

१)वद्धप्रश्नावल्या विद्यार्थीनाम् आवेगादिनां यथायथ मूल्याङ्कनं नैव भवति। २)शिशु-असाक्षरव्यक्ते: उपरि अस्या प्रयोग: न भवति।

 एतदतिरिच्य: मूल्याङ्कनस्य विवरण-चेकलिस्ट(check list)आदि विधय: सन्ति। येषां प्रसङ्गानुसारं प्रयोगं भवति।
    • सन्दर्भ: ग्रन्थसूची

१)Assessment for learning- सरकार, अमलकान्ति।(रीता पब्लिकेशन, कलकाता) २)CTET अरिहन्त पब्लिकेशन ३)अन्तर्जालम्