सदस्यः:SHARIHARAN 1910378/प्रयोगपृष्ठम्
कार्यनिर्वाहः(मनेज्मेन्ट्) इत्युक्ते , पर्यावरणस्य कल्पनप्रक्रिया तथा पर्यावरणस्य पोषणप्रक्रिया यत्र व्यक्तयः समूहरूपेण कार्यं कुर्वन्तः स्वकीयोद्धृतं लक्ष्यं साधयन्ति । सर्वेषामपि संस्थानस्य कार्यनिर्वाहः आवश्यकतार्ह एव । तत् संस्थानं बृहत् वा भवतु उत लघु, लाभकरं वा उत अलाभकरं ,उपचर्यात्मकं वा उत उत्पादकं, कार्यनिर्वाहः आवश्यकः एव । कार्यनिर्वाहः आवश्यकीभूतः यतः व्यक्तयः समूहलक्ष्यार्थं महद्योगदानं कुर्वते । अभ्यन्तरसम्बन्धितनियोगावलयः सर्वैः निर्वाहकैः कार्यनिर्वाहे क्रियन्ते ।
संस्थाने निर्वाहकाः विवधस्तरेषु कार्यं निर्वहन्ति । विभिन्नकार्येषु निर्वाहकैः उपयोगं करिष्यमाणः समयः भिन्नः भवति । उन्नतस्तरे कार्यं कुर्वद्भिः अनुसन्धाने तथा आयोजने अधिकः समयः व्ययीकरिष्यते ।परं नीचस्तरे कार्यं कुर्वद्भिः तावान् अधिकसमयः न व्ययीकरिष्यते । अतः कार्यनिर्वाहस्य एवं निरूपणं ,यथा "प्रयोजकत्वेन उत समर्थत्वेन लक्ष्यस्य साधनम्" इति । अदः निरूपणं विचारणीयात्मकं विद्यते । अत्र द्वयोः पदयोः विवरणं अपेक्षितम् । यथा १)समर्थत्वम् २) प्रयोजकत्वम् इति । तत्र आद्यं समर्थत्वं नाम समीचीनतया कार्यकरणं तथा न्यूनतमपरिव्ययसहितं कार्यकरणम् । द्वितीयं तु प्रयोजकत्वम् । एतत् अन्तिमपरिणामसम्बद्धं वर्तते ।
कार्यनिर्वाहे त्रयो भेदाः सन्ति । ते : १)उत्तरनिर्वाहः २) मध्यमनिर्वाहः ३) पर्यवेक्षकत्वकार्यनिर्वाहः अथवा प्रवर्तनकार्यनिर्वाहः ।
१) उत्तमनिर्वाहः-अत्र ज्यैष्ठ्यसाधनभागधेयाः भवन्ति ।तेषां नेकानि नामानि सन्ति यथा अध्यक्षः,मुख्यसाधनभागधेयः, मुख्यप्रवर्तनकार्मिकः , गोष्ठीपतिः तथा सहाय्यगोष्ठीपतिः इति । एते सर्वेऽपि भिन्नभिन्नकार्यस्थलात् चिनुताः यथा वित्तस्थलात्,विपणीक्रियस्थलात् चेति ।
२)मध्यमनिर्वाहः- अत्र -उत्तराऽधमनिर्वाहकानां संयोगकरणं भवति । एते उत्तरनिर्वाहकान् प्रति गौणिकाः भवन्ति । पर्यवेक्षकत्वनिर्वाहकान् प्रति प्रधानीभूताः भवन्ति । भागशीर्षकाः इत्यपि नाम भवन्ति ।
३)प्रवर्तनकार्यनिर्वाहः -अत्र पर्यवेक्षकाः एव भवन्ति । एते साक्षात् कार्यनिष्पत्तेः परिश्रमं अवलोकयन्ति । संस्थाने पर्यवेक्षकनिर्वाहः अतीव मुख्यांशं गृह्णाति। एवं त्रयोपि सुष्ठु विवृताः । इत्थं कार्यनिर्वाहविषये यथामति यत्किञ्चित् गदितम् ।
उल्लेखः
1)http://pue.kar.nic.in/pue/support_html/academic/IIndtxtbk_kan.htm