सदस्यः:Sayant Mahato/प्रयोगपृष्ठम्/७
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्(ISRO)(आङ्ग्ल: Indian Space Research Organisation) भारतदेशस्य सर्वकारीयम् अन्तरिक्षसंशोधनसङ्घटनम् । दूरवाणी-सुविधा, भौगोलिक-छायाचित्रणं, वातावरणानुमानार्थं छायाचित्रणं, दूरसञ्चारसुविधाः इत्यादयः अद्यतनीयाः बह्व्यः सुविधाः उपग्रहाणाम् उपयोगकारणादेव अनुभवामः । एतादृशाः इदानीन्तन-मूलभूतावश्यकतानां परिपूरणार्थं बृहत्तन्त्रज्ञानम् आवश्यकम् । ५० वर्षेभ्यः प्रागस्माकं देशे याः सुविधाः आसन् ताः सर्वाः स्वदेशितन्त्रज्ञानोपरि आधारिताः नासन् । परम् इदानीं वयं स्वाभिमानेन वक्तुं शक्नुमः यत् अस्माकं देशस्य उपग्रहाः, उपग्रह-प्रक्षेपक-वाहनानि, तन्त्रज्ञानं च सर्वं भारतीयम् अस्ति । एवं कथनसामर्थ्यमपि येन सङ्घटनेन अस्मभ्यं दत्तं तत् सङ्घटनम् अस्ति इसरो ।
can't use in sandboxमुख्यपृष्ठस्य फलकानि]]