सदस्यः:Sharmadahs/भारतस्यसरोवरतडागवाप्यादिजलसम्पतिः

भारतस्यसरोवरतडागवाप्यादिजलसम्पत्तिः

भारते प्राकृतिकसरोवरतडागाः अत्यल्पं सन्ति। भारतस्य अत्यत्तम प्रकृतिकसरोवर: वुलरे नाम सरोवरः कश्मीरे अस्ति। तत् परिते पर्वताः सन्ति। मधुरजलस्य द्वीतीय सरोवरः कोलरनामकःगोदावरीकृष्णानध्योः त्रिकोणप्रदेश मध्ये अस्ति। भारते अधिक सरोवराः न सन्ति।राजस्थाने जयपुरपार्श्वे सांभरसरोवरस्य उपयोगः लवणोत्पादने भवति। प्रत्येकस्मिन् प्रदेशु एकैकः सरोवराः भवितव्यम्। बन्धयोजनेन अनेके कृत्रिम सरोवरा:अभवन्। एतेषु हिमाचलप्रदेशे सतलुजनध्युपरि गोविन्दसागरसरोवरः, मध्यप्रदेशे चम्बलनध्युपरिः गांधिसागरसरोवरः, आन्ध्रप्रदेशे मंजरानध्युपरि निझामसागरसरोवरः, कृष्णानध्युपरि नागार्जुनसागरसरोवराःगुजराते नर्मदानध्युपरिः सरदारसरोवरः विख्यातः सन्ति। कृषिकार्यार्थे एतेषां जलम् उपयोगम् भवन्ति। कूपाः सर्वेषु स्थलेषु दृष्टुम् शक्यते। कृषका: स्वकीय क्षेत्रेषुउत्पादनार्थं कूप निर्माणं कुर्वन्ति। गुजराते अत्यधिक कूपानामुपयोगः भवति। गुजरातः, महाराष्ट्रः,उत्तरप्रदेशः, पंजाबः, हरियाणादिराज्येषु जलसौकर्यार्थं कूपानां उअयोगः कुर्वन्ते।

कूपतडागप्रवाहिका प्रकाराः विश्वे सिञ्चनकार्यक्षेत्रे भारत देशः अग्र स्थाने प्राप्नोति। अत्र चतुर्थांशस्य कृषिकार्यार्थं सिञ्चनकार्यं भवति। सिञ्चनकार्यस्य मुख्येन प्रकारत्रयं वर्तते - १) कूपद्वारा, २) नडागद्वारा ३) प्रवाहिका द्वारा इति। अन्ये प्रकाराः अपि सन्ति।

कूपाः - सिञ्चनयोग्यभूमेः चतुर्थभागः कूपद्वारैव सिञ्चनं क्रियते। इयं सिञ्चनकार्यं प्राचीनतया एव आसीत्। भारते देशे सर्वप्रान्तेषु कूपद्वारा सिञ्चन कार्यं भवति। एतेशु प्रदेशु भूमिः कोमलानि भवन्ति। कूपखनन श्रमः अपि न भवति। आधुनिक रीत्या विध्युत् उपयोगं कृत्वा गहनजलात् अपि यन्त्रैः सेचेन कार्यं प्रवर्तन्ते। अधुना सर्वत्र भूतर्भजलसम्पत्ति: न्यूनं अभवत्। अतएव कृशिकार्ये जलन्यूनतं अभवन्। न अधिको व्ययः जायते, शीघ्रतया कूपः सज्जीभवति।

तडागाः - दक्षिणभारते सामान्यतः जलसिञ्चनकार्यं तडागजलेः अपि वर्तते। तडागेषु दीर्घकालं जलसंग्रह कर्तुं समर्था भवति। अतएव लघुबृहत् तडागाः अधिकाः वर्तन्ते। अत एव कर्णाटकः,तमिलुनाडु, आन्ध्रप्रदेशेषु सिञ्चनपद्धतिः अधिकतया भवति। गुजारात् अपि बृहत्ताडागानाम् उपयॊगः सिञ्चनकार्यायाम् भवति।

प्रवाहिकाः - उत्तरभारते गुजरातप्रदेशे प्रवाहिका द्वारा सिञन कार्यं भवति। भारतस्यसिञ्चनयोज्य शेषभूमौ नदीत: प्रवाहिका द्वारा सिञ्चनकार्यं भवति। एतत् कार्यं अधिकं गंगा सतलुजनध्योः प्रदेशे पूर्वतटे मुखत्रिकोण प्रदेशे च भवति। एतस्य खनन कार्यं सरलं भवति। एतत् प्रदेशेशानां भूमिः समाना फलवती प्रस्तररहिता कोमला च विध्यते। अतः प्रवाहिकाखनन कार्यं सरलं भवति। अस्य पद्धतिप्रभावेण पंजाबप्रान्ते गोधूमस्य उत्पादनं अधिकं जायते। अस्यां पद्धतौ धनव्यय अधिकः भवति।

सिञ्चनपद्धतिः -

       जलबिन्दुसिञ्चनपद्धतिः, सूक्ष्मजलावरोधसिञ्चनपद्धति:

एतस्यां प्रकारेण जलस्य दुरुपयॊगः निवार्यते। धनमव्ययं अपि अल्प्म् भवति। अर्थात् बहुहेतुकीयोजनाः पद्धतिनाम्ना इयं पद्धति प्रचलितः अस्ति।

एतत् द्वयोः पद्धतिः सदृशाः प्रकाराः सिञ्चनकार्ये विकसिताः सन्ति। एतत् पद्धतिः बहु प्रचलिताः नास्ति। जलस्य अभावो यत्र भवति तत्रैव इदं पद्धतिः स्वीकार्या भवति। अस्यां पद्धतौ धनव्यय अधिकं जयाते, तदैव एतस्याः पद्धत्याः विस्तारः अधिकः न जातः।

गुजरते किञ्चित् प्रदेशे समृद्धिवन्तः कृषकाः एतां पद्धतिम् अनुसरन्ति। अस्यां पद्धतौ काष्ठसाधनैः जलम् गृहीत्वा कृषिभूमौ सिञ्चनकार्यं क्रियते।

दामोदर योजना, हीराकुण्ड योजना, भाखरानागालयोजना, नागार्जुनसागरयोजना, नर्मदायोजना, उकाइ योजनाः च सन्ति। अस्यां योजनानां औध्योगिकविकासः सञ्जातः। अनेकेषु प्रदेशेषु पूरप्रभावेण हानिः न जायते। विध्युत् उत्पादनं अपि अधिकं भविष्यति। अतः मनुकुलः जलस्य रक्षणं अवश्यमेव करणीयमानः। जलम् एव सर्वेषां जीवनम् अस्ति। जलं विना कोपि जीवः जीवितुम् न शक्नोति। तदैव जलसंरक्षण कार्य प्रति नागरिकाः कर्तव्यं भवति। जलं विना जीवनस्य कल्पना अशक्या।