अनरण्य:

सः अयोध्याकुलस्य राजा आसीत् । इक्ष्वाकुवंशस्य पुरुकुत्सः नाम्नः राज्ञः यवीयसः पुत्रस्य त्रसदस्योः द्वितीयपुत्र एषः । एतस्य हर्यश्वः बृहदश्वः इति द्वौ पुत्रौ आस्ताम् । लङ्काधिपतिः रावणः यदा दिग्विजयाय प्रस्थितः तदा अनेके राजानः एनं शरणं गताः । एषः रावणेन सह अयुध्यत । तस्मिन् युद्धे रावणः अस्य शिरोऽच्छिनत् । तदाऽनरण्यस्य मुण्डः अवदत् यथा-"नैष ते महिमा, सर्वस्यापि कारणीभूतोऽन्य एवास्ते, अन्ते मम वंशोत्पन्नः पुरुष एव त्वां हनिष्यति" । इति रावणाय शापं दत्तवान् । एषा कथा रामायणे उत्तरकाण्डे, महाभारते च अनुशासनपर्वणि वर्णिता ।

can't use in sandboxप्राचीनराजाः]] can't use in sandboxभारतेतिहाससम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]