कन्याः
भारतीया कन्या
भारतीया कन्या



अष्टवर्षादारभ्य चतुर्दशपर्यन्ता आयुविशिष्टा कुमारी कन्या इत्युच्यते । स्मृत्यनुसारं दशवर्षिया कन्या भवेत् । दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला इति मनुस्मृतिः । कन्यते दीप्यते या सा कन्या । (कन्+यक्+टाप्) । वयस्का कन्या वर्या इत्युच्यते । अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु (३/१/१०१) इति सूत्रेण अनिरोधार्ये वर्याशब्दः निपात्यते । वर्येति स्त्रियां निपात्यते । वर्येति स्त्रियां निपात्यते अनिरोधश्चेद् भवति । अनिरोधः – अप्रतिवन्धः, यथा –शतेन वर्या, सहस्त्रेण वर्या । यः कोऽपि तस्यै विवाहप्रार्थनां कर्त्तुं शक्नोति । एतदर्थं कोऽपि विरोधो नासीत् । पतिंवरा कन्याः – महाभाष्यकारस्य समये कन्या स्वयं पतिं वरयति । पतिचयनाय कन्यायाः सम्मतिः आवश्यकी आसीत् । अतएव पतिंवरा कन्या इत्युदाहरणं प्रदत्तं पतञ्जलिना । (म्. भा. -३/२/४३) अथर्ववेदे एतादृशी प्रथा प्रचलिता आसीत् । यथा – ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् (अथर्व -११/५/१८) । ऋग्वेदेऽपि- भद्रा वधूर्भवति यत् सुपेशाः, स्वयं सा मित्रं वनुते जने चित् (ऋ. १०/२७/१२) इति मन्त्रः प्राप्यते । या वधूः स्वयमात्मनैव जनेचित् जनमध्येऽवस्थितिमिति मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः । अभिरुपस्य वरस्यान्वेषणाय पितरो याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः। अभिरुपस्य वरस्यान्वेषणाय पितरो यतमाना आसन् । यथाशक्ति आभिरुपतमाय वराय कन्यां प्रदत्तवन्तः । अतः पतञ्जलिना उक्तम् –अभिरुपाय कन्या देयेति न चानभिरुपे प्रवृत्तिरस्ति, तत्र अभिरुपतमायेति गम्यते –(म. भा. १/४/४२) ।