सदस्यः:Sm.lekhana/Article in sanskrit
पृथ्वी सूर्यमण्डले तृतीयः ग्रहः अस्ति । ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति । एषा कदाचित् लोक:, वैज्ञानिकभाषायां Earth वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्या: वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ओझोन (Ozone layer) नाम्ना पट्टिका अस्ति। एतस्या: पृथिव्या: रक्षण: भवति। जलेन विना जीवितं व्यर्थम् इति उक्तं सत्य:। जलस्य लाभ: पृथिव्याम् अतीव। अत: पृथिव्यां जीवन: सुसह्य: अस्ति। अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति,तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्य राज्येषु अन्यतमम् अस्ति । पर्यावरणम् भारतदेशस्य राजधानी विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । पर्यावरणम् एषा भारतस्य तृतीया बृहती नगरी वर्तते । इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया एव ।पर्यावरणम् मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति । पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:। शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति। केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते। लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।
कुर्मः
सम्पादयतुकूर्मः प्राणिषु अन्यतमः। कशेरुकसहितः श्रेष्ठः जन्तुः । सरिस्रुपवर्गस्थः जन्तुः । अस्य गतिः सावधानगतिः । प्राणिप्रपञ्चे दीर्घायुश्यवान् एषः । प्रायशः अस्य आयुः १५० वर्षाणाम् अपेक्षया अधिकं भवति ।
स्वरूपम्
सम्पादयतुकूर्मस्य शिरः, पादान् च विहाय अन्यभागेषु दृढः कवचः भवति । अस्य शरीरस्य उपरिभागाय “क्यारापेस्” इति, अधोभागाय "प्लास्ट्रान्" इति आङ्ग्ले व्यवहारः अस्ति । शिरसः पादानाञ्च आकुञ्चनप्रसारणाय देहस्यान्ते स्थलं भवति। अस्य आत्मसंरक्षणाय एषा व्यवस्था विद्यते। गजः अस्य उपरि स्वस्य सम्पूर्णं भारं स्थापयति चेत् अपि कूर्माय किमपि न भवति । अस्य कवचः तावान् दृढः भवति ।
विभागः
सम्पादयतुकूर्मेषु केचन भूमौ वासं कुर्वन्ति । अन्ये केचन जले वसन्ति । भूचराः कूर्माः गात्रे लघुकायाः भवन्ति । अधिकाधिकं चेत् पादपरिमिताः दीर्घकायाः भवन्ति । सस्याहारमेव आश्रिताः भवन्ति । जलचराः कूर्माः तटाके, समुद्रेषु च भवन्ति । तटाकादिशु विद्यमानाः कूर्माः प्रायशः भूचरसदृशाः भवन्ति गात्रे। समुद्रे विद्यमानाः ४,५, पादपरिमिताः भवन्ति । ५०किलो परिमिताः भवन्ति भारेण । एतेषां मत्स्य-मण्डूकादयः आहाराः भवन्ति । अस्य मुखे पुरतः दन्ताः न भवन्ति किन्तु हनुप्रदेशे तीक्ष्णाः दन्ताः भवन्ति । अहारजीर्णार्थं योग्याः उपयुक्ताश्च भवन्ति।
वंशाभिवृद्धिः
सम्पादयतुकूर्माः अण्डजाः भवन्ति। भूचराः कूर्माः भूमौ खननं कृत्वा तस्मिन् अण्डान् स्थापयन्ति। जलचराः जलात् बहिरागत्य सिकतासु अण्डानि स्थापयन्ति । कूर्माः जलात् वर्षे द्विवारं, त्रिवारं बहिरागत्य अण्डानि स्थापयन्ति । प्रायशः त्रिषु मासेषु अण्डात् बहिरागच्छन्ति ।
मूर्खकच्छप-कथा
सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥
अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेहकोटिमाश्रिते, नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षीणां कथाः कृत्वास्तमनवेलायां स्वनीडसंश्रयं कुरुतः ।
अथ गच्छता कालेनानावृष्टिवशात्सरः शनैः शनैः शोषमगमत् । ततस्तद् दुःखदुखितौ तावूचतु — “भो मित्र! जम्बालशेषमेतत्सरः सञ्जातं, तत्कथं भवान्भविष्यतीति व्या कुलत्वं नो हृदि वर्तते ।”
तच्छ्रुत्वा कम्बुग्रीव आह — “भो ! साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात् । तथाप्युपायश्चिन्त्यतामिति । उक्तञ्च” —
त्याज्यं न धैर्यं विधुरेऽअपि काले, धैर्यात्कदाचित्स्थितिमाप्नुयात्सः । जाते समुद्रेऽपि च पोतभङ्गे, सांयात्रिको वाञ्छति तर्त्तुमेव ॥
“अपरञ्च” —
मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥
तदानीयतां काचिद् दृढरज्जुर्लघुकाष्ठं वा । अन्विष्यतां च प्रभूतजलसनाथं सरः, येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं संगृह्य तत्सरो नयथः ।
तावूचतु :– “भो मित्र! एवं करिष्यावः । परं भवता मौनव्रतेन स्थातव्यम्, नो चेत्तव काष्ठात्पातो भविष्यति । तथानुष्ठिते, गच्छता कम्बुग्रीवेणाधोभागे व्यवस्थितं कि़ञ्चित्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य, सविस्मयमिदमूचुः – “अहो, चक्राकारं किमपि पक्षिभ्यां नीयते, पश्यत! पश्यत!” ।
अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह — “भोः किमेष कोलाहलः?” इति वक्तमना अर्धोक्त एव पतितः, पौरैः खण्डशः कृतश्च ।