सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/विकिस्रोतःप्रवेशिका

विकिस्रोतःप्रवेशिका इति कश्चन उपक्रमः संस्कृतविकिपक्षतः प्रचाल्यते । अयं कश्चन अन्तर्जालीयः प्रशिक्षणवर्गः । विकिस्रोतसि सम्पादनाय अनेके उत्सुकाः भवन्ति । परन्तु कथं विकिस्रोतसि कार्यं करणीयम् इति ज्ञानं बहूनाम् न भवति। अतः विकिस्रोतसः प्रशिक्षणं किञ्चन अन्तर्जालमाध्यमेन आयोज्यते ।

उद्देश्यम् सम्पादयतु

  1. आन्तर्जालिकग्रन्थालयस्य परिचयः
  2. विकिस्रोतसः स्वरूपज्ञानम्
  3. विकिस्रोतसि कार्यार्थम् मूलभूतज्ञानदानम्
  4. कार्येषु सारल्यसम्पादनम्
  5. विकिस्रोतःसंवर्धनम्
  6. विस्तृतविकिविश्वस्य ज्ञानम्
  7. विकिसम्पादकानां वर्धनम्

प्रशिक्षणे भविष्यति सम्पादयतु

  1. पाठशोधनक्रमः - विकिस्रोतसि पीडिएफ् पाठ्यस्य अन्वेषणयोग्यपाठ्यरूपेण परिवर्तनम् ओसिआर् द्वारा भवति। ततः तस्य पाठशुद्धिः करणीयाः । तत्र अवधातव्याः अंशाः विचार्यन्ते ।
  2. पुटविन्यास-शिक्षणम् - विकिस्रोतसि प्रतिपुटं विन्यासः आरचनीयः । तत्र अनुस्रीयमाणाः क्रमाः बोध्यन्ते ।
  3. नूतनपुस्तकस्य आरोपणम् - नूतनपुस्कस्य आरोपणावसरे कापिरैट् इत्यादिविषये अनुसर्तव्याः नियमाः पाठ्यन्ते ।
  4. पुस्तकस्य विषयविभाजनज्ञानम् - विकिस्रोतसि पुस्तकप्रकाशनाय कथम् अध्यायादीनां विभागः करणीयः इति ज्ञाप्यते ।
  5. अवधातव्यानाम् अंशानां शिक्षणम् - आहत्य विकिस्रोतसि कार्यकाले सम्भाषणपुटम्, हस्ताक्षरम् इत्यादीनां विषये कथं व्यवहारः करणीयः इत्यादिकमपि सूच्यते ।

भागं वोढुमर्हाः सम्पादयतु

  • विकिस्रोतसः सदस्याः
  • विकिस्रोतसि पाठशुद्धिं ये कृतवन्तः ते
  • देवनागरीलिप्या उट्टङ्कनसमर्थाः
  • विकिपीडियायां सक्रियाः संस्कृतज्ञाः