सदस्यः:Subhasmita 2015/प्रयोगपृष्ठम्

प्राणायामः

सम्पादयतु

विषयसंकलनम् :- दर्शन शब्दोऽयं संस्कृतस्य प्रेक्ष्णर्थकाद् दृश् धातोः (दृशिर् प्रेक्षणे )ल्युट् प्रत्यये ) अन्न्देशे च् ह कृते दर्शनं इति सिध्दम् । येन साधनेन इदम् विश्वं,इदं वस्तु जातम् ,ब्रह्म जीवत्मा प्रकृतिश्च यथातथ्येन दृश्यते निरीक्ष्यते परीक्ष्यते समीक्ष्यते विविच्यते च यत्र तद् दर्शनम् । ऋषयः स्वऽलौकिकचक्षुभिरवलोकितानाम् तत्वानाम् उपदेश ग्रन्थान् निर्मिमिरे तेषामेव् नाम् दर्शनम्। पालसन् वर्याः निरुपतम् यत् समस्तवैज्ञानस्य योगः भवति दर्शन शास्त्रम्। जगतः ईश्वरस्य,जीवस्य,मायायाः प्रकृतेश्च इत्यादीनां ज्ञानं प्राप्त्यर्थं महर्षिणः षट् आस्तिक दर्शनस्य एतेषु षड्षु दर्शनेषु पतञ्जलि महर्षि विरचित योगदर्शनम् अन्यतमम् वर्तते । योगदर्शनस्य परिचयः पाणिनीय व्याकरणानुसारेण योग शब्दः युज् धातुः घञ् प्रत्ययेन निष्पन्नो भवति । यस्य अर्थ संयोजन संयमेन एव कार्य प्रवणता संयोग तथा समाधि इति वर्तते। सामन्य रूपेण कथ्यते चेत् व्द्योः शब्दयोः योजनं एव योगः । श्रीमद्भगवद्गीतानुसरेण कर्मणि कुशलता प्राप्तव्यं एव योगः इति कथ्यते । भारतीय संस्कृतेः वैशिष्ट्यम् यत् प्रत्येक प्रतिष्टित शास्त्रस्य अथवा दर्शनस्य उत्पत्तिझ् वेदात् एव अभिमन्यते । ऋग्वेदस्य दशमे मण्डले योगस्य विशेष वर्णनं प्रदत्तम्। तत्रोक्तम् आदिपुरुषस्य प्राणात् वायुः प्रकटीक्रियते । अथर्ववेद अष्टांग योग तथा षड् योगस्य प्रयोगः दृश्यते । योगशास्त्र कदा प्रारब्धम् कः अस्य प्रवर्तकः अस्मिन् विषये ऐतिहासिक निर्णय संभावनास्ति। पतञ्जल्या योगसूत्र संभवतः प्राचीन व्यवस्थित ग्रन्थः । अथ योगानुशासनम् सूत्र प्रतिपाद्यते यत् अनुशासनं इत्युक्ते पूर्वप्रतिपादित सिध्दान्त्नां पूणोपदेश अस्मात् स्पष्टानुभूयते यत् योगशास्त्रस्य मूल प्रणेता अन्य कोऽपि वर्तते । यत् अनुशासनं इत्युक्ते पूर्वप्रतिपादित सिध्दान्त्नां पूणोपदेश अस्मात् स्पष्टानुभूयते यत् योगशास्त्रस्य मूल प्रणेता अन्य कोऽपि वर्तते । याज्ञ्वल्क्य ग्रन्थे हिरण्यगर्भस्य नाम सर्वादौ आगच्छति । योगदर्शनम् एकं दर्शनम् अस्ति यत् इदम् दर्शनम् अन्यात् दर्शनात् सम्प्रदायात् निष्कास्य मतमतान्तरात् शून्यो भवति योगदर्शने स्वीय अनुभव माध्यमेन तत्व ज्ञानम् मनुष्यम् अन्तिम लक्ष्य पर्यन्तं प्रापयति। अतः भारतीय दर्शनेषु योगस्य स्थानं अग्रगण्यं वर्तते। योगदर्शने चतस्रः पादाः सन्ति । तेषु पादेषु साधना पादः अन्यतमः । विशिष्टरूपेण साधनापादे यमनियमासनप्राणायामप्रत्याहारध्यानधारणासामाधिनां वर्णनं सम्यक् रूपेण महर्षि पतञ्जलिना निगदितम्। तेषु अष्टाङ्गयोगेषु प्रणायामस्य स्थानं अन्यतमम्।

प्राणायामः

सम्पादयतु

प्राणायामस्य कः अर्थः ? इत्युक्ते प्राणानां आयामः अथात् विस्तारः ।परन्तु एषा वार्ता विपरीतः प्रतीयते किमर्थम् इत्युक्ते प्राणायामे तु प्रणाः अवरुध्द्यते । अवरोधेन एव प्राणस्य विस्तारः जायते। अस्माकं दैनिक जीवने अनियमित रूपेण स्वाशस्य गतिः भवति तेन प्राणः क्षीणः भवति तथा विस्तारं प्राप्तुम् न शक्यते । यथा यदा नदीजलं शनैः शनैः प्रवहति तदानीम् तम् जलम् अवरोधायामः चेत् तम् जलम् बहु शक्तिशालि रूपम् धारयति। तथैव प्राणस्य अवस्था वर्तते। वेदेषु प्राणायामस्य चर्चा वर्तते । वेदे उक्तम् यददो वात ते गृहेऽमृतस्य निधिर्हिता। स नो जीवातेव वृधि।पतञ्जल्यानुसारेण प्राणायामस्य त्रयः प्रकाराः सन्ति। बाह्यवृत्याभ्यन्तरवृत्यम्भवृत्यादि श्वासं बहि त्यक्तवं एव बाह्यवृत्ति,श्वासः आभ्यन्तरे स्थापनीयम् आभ्यन्तरवृति इत्यादि तेषाम् अर्थाः सन्ति ।साधकैः परिक्षण आधारेण अनेकेप्राणायामस्य साविष्कारः कृतः तेषाम् नामानि सन्ति १.नाडीशोधान २,उज्जयी ३,भास्त्रिका ४ सूर्युभेदी, ५ चन्द्रभेदी ६भ्रामरी,७ शीत्कारी ८ शीतली ९ मूर्छ आदि। एते प्राणायामाः अतीव महत्वपूर्णाः सन्ति । एतान् प्राणायामान् सावधानतया कर्तव्यं स्यात्। यथा १.प्राणायमार्थं शुध्दवायुः भवेत्। २.उदरः परिपूर्णम् न स्यात्। ३.प्राणायामान्ते स्नानं न कर्तव्यं स्यात्। ४.प्राणायामे शीघ्रता न भवेत् । ५.प्राणायामस्य अभ्यासः शनैः भवेत्। ६.ग्रीष्मकाले उष्णतावर्धक तथा शीतकाले शीतवर्धक प्राणायामः न कर्तव्यम्। एवि नियमानुसारेण प्राणायामः करणीयः तेन स्वास्थ्य साधु भवति तथा शरीरःरोगाग्रस्थः न भवति।