अध्यायः ६

वायु-सम्पीडनम् पम्पश्च (Atmospheric Pressure Pumps)

१ वायुमण्डलम्

पृथिव्याः चतुर्दिक्षु १०० मीलादपि अधिकॊर्ध्वदॆशपर्यन्तं वायुः उपलभ्यतॆ। वायोर्वृत्तमिदम् वायुर्मण्डलमित्यभिधीयते। वायुरित्येकम् द्रव्य। अन्यद्रव्यवत् तस्मिन्नपि भारो वर्तते। अतो तेन सम्पीडनमपि क्रियते। सम्पीडनच्छेदं वायुसम्पीडनमिति नाम्नाभिषीयतॆ।

आधुनिके भौतिकविज्ञाने वायुनामकस्य द्रव्यस्य निर्दुष्टम् लक्ष्णम् अस्मभिर्नाषिगतम्। प्राचीनैः कणादगौतमचरकप्रभ्रुथिभिर् भारतीयाचार्यैः सुस्पष्ट वायुलक्ष्णम् क्रुतम्। तेषाम् मतेन "तिर्यग्गतिमत्वे सतिं रूपरहितत्वविशिष्टस्पर्शवत्वं वायोर्लक्शणम्। अत्रैका विप्रतिपत्तिः समुपतिष्टते। प्राचीनाचार्येः वायो गुरुत्वाभावः प्रतिपादितः। तॆषां मतेन आध्यपतनासमवायिकारणत्वमं गुरुत्वं प्रुथिवीजलवृत्ति। अर्थात् 'भार' इत्यपरपर्यायकं नाम गुरुत्वं प्रुथिव्यां जले च वर्तते न तद्भिन्नषु द्रव्येषु। किन्तु, साम्प्रतिकैर्वैज्नानिकैः वायोभारसत्वमपि प्रतिपाध्यते। न केवलं प्रतिपाध्यत एव अपितु बैरॊमीटरादियन्त्रसहाय्येन तैः वायुव्रुत्तिगुरुत्वम् प्रत्यक्षीक्रियते। प्राचीनमतानुयातिभिर् अत्रॊच्यते यत् बैरॊमीटरादियन्त्रद्वारा प्रत्यक्षीक्रुतं गुरुत्वं वायुमण्डले वर्तमानानां क्षितिजलपरमाणूनामेव धर्मः न तु वायुद्रव्यस्य।

तथाच, केचिद् विद्वाम्स्ः वायॊ रूपिद्रव्यत्वमपि कल्पयन्ति। तदपि सम्यग् निराक्रुतं प्राचीनमतनुयिना श्रीमधुसूधनशर्मणा पान्चभूतसमीक्षात्मकॆ स्वकीये निभन्धॆ। १९३५ स्व्रीष्टाब्दस्य दिसम्बरमासॆ मालवीयमहॊदयै काशीहिन्दूविश्वविध्यालयसम्स्थापकैः महामनामालवीयमहॊदयैः विश्वविध्यलये पन्चभूतसमीक्षार्थं प्राचीनभारतीयमतानुयायिनां अर्वाचीनवैज्नानिकमतानुयायिनाश्च सम्मिलितगॊष्ठ्यां निर्णायकपदासीनानाम् श्रीमता मधुसूदनसशर्मणा प्राचीनप़न्चभूतसिद्धान्तप्रतिपादक्ः निबन्धः पठित आसीत्। समुपस्थितविषयस्य गम्भीरया पर्यालॊचनया परिषदि समवेतैः विद्वदिभिः ऐकमत्यॆन अङगीक्रुत यत् भारतीयषीणां पञ्चभूतसिद्धन्तो‌ध्यपि अक्षुण्ण एव वस्तुतः पञ्चभूतानां यथार्थस्वरूपस्य अवगत्यभावादॆव नव्यवैज्नानिकैः तद्विषयकः सिद्धान्तः आक्षिप्तॊभूत। तस्मान्निबन्धाद् वायो रूपिद्रव्यत्वप्रतिपादकसिद्धान्तस्य निराकरणात्मकः अंशोऽत्र उद्घ्रियते।