सदस्यः:Sukruthii/प्रयोगपृष्ठम्
मनुस्मृतिरीऽया तपोधर्माः
सांतानिकं यक्ष्यमाणमध्वगं सर्ववेदसम् । गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः ॥१॥ नवैतान्स्नातकान्विध्याद्ब्राह्माणान्धर्मभिक्षुकान्। निःस्वेभ्यो देयमेतेभ्यो दानं विध्याविशेषतः ॥२॥ एतेभ्यो हि द्विजाग्र्येभ्यो देयमत्रं सदक्षिणम् । इतरेभ्यो बहिर्वेदि कृतात्रां देयमुच्यते ॥३॥ सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राहाणान्वेदविदुषो यग्नार्थं चैव द्क्षिणाम् ॥४॥ कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु संतति ॥५॥ धनानि तु यथाशात्कि विप्रेषु प्रतिपादयेत् । वेदवित्सु विवित्केषु प्रेस्य स्वर्ग समस्नुते ॥६॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वापि विध्येत स सोमं पातुमर्हति ॥७॥ अतः स्वल्पीयसि ग्रव्ये यः सोमं पिबति द्विजः । स पितसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥८॥ शक्तः परजने दाता स्वजने दुःखजीविनि । मद्वापातो विषास्वादः सधर्मप्रतिरूपकः ॥९॥ भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् । तध्दवत्यसुखोदर्कं जीवतश्च मृतस्य च ॥१०॥ (वृध्दो च मातापितरओ साध्वी भार्या शिशुः सुत । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ यज्नाश्चेत्प्रतिरुध्दः स्यादेकेनाङ्गेनयज्वनः । ब्राहाणस्य विशेषेण धार्मिके सति राजनि ॥११॥ यो वैश्यः स्याद्वहुपशुर्हीनक्रतुसोमपः । कुटुमात्तस्य तद्रद्रव्यमाहरेध्यज्नसिध्दये ॥१२॥ आहरेत्र्त्रीणि वा द्वोवा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्नेषु काश्चिदस्ति परिग्नहः ॥१३॥ योऽनाहिताज्निः शतगुरयज्वा च सहस्त्रगुः । तयोरपि कुटुम्बाह्यामाहरेदविचारयन् ॥१४॥ आदाननित्याच्चादातुरारेदप्रयच्छतः । तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥१५॥ तथैव सप्तमे भक्ते भक्ताअनि षडनश्नता । अश्वस्तनविबधानेन हर्तव्यं हीनकर्मणः ॥१६॥ खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥१७॥ ब्राहाणस्वं न हर्तव्यं क्षत्रियेण क्दाचन । दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति ॥१८॥ योऽसाधुभ्योऽर्थमात्मानं साधुभ्यः संप्रयच्छति । स कृत्वा प्लवमात्मानं संतार्यति तावुभौ ॥१९॥ यध्दनं यज्नाशीलानां देवस्वं तद्विदुर्बुधाः । अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥२०॥ न तस्मिन्धर्येद्दण्डं धार्मिकः पृथिवीपतिः । क्षित्रियस्य हि बालिश्याद्ब्राहाणाः सीदति क्षुधा ॥२१॥ तस्य भृत्यजनं ज्नात्वा स्वकुटुम्बान्महीपतिः । श्रुतशीले च विग्नाया वृत्तिं धर्म्यां प्रकल्पयेत् ॥२२॥ कल्पयित्वास्य वृत्तिं क रक्षेदेनं समन्ततः । राजा हि धर्मषङ्भागं तस्मात्प्राप्नोति रक्षितात् ॥२३॥ न यग्नार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥२४॥ यग्नार्थमर्थं भिक्षित्वा यो न सर्वं प्रच्छति । स यति भासतां विप्रः काकतां वा शतं समाः ॥२५॥ देवस्यं ब्राह्माणास्वं लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृघ्नोच्छिष्टेन जीवति ॥२६॥ इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । क्लृप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥२७॥ आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥२८॥ विश्वैश्च देवैः साध्यैश्च ब्राह्माणैश्च महर्षिभिः । आपत्सु मरणाभ्दीतैर्विधेः प्रतिनिधिः कृतः ॥२९॥ प्रभुः प्रथमकल्पस्य यो॥नुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर्विध्यते फलम् ॥३०॥ न ब्राह्मणोऽवेदयेत किं किंचिद्राजनि धर्मवित् । स्ववीर्येणैव ताञ्छिष्यान्मानवानपकारिणः ॥३१॥ स्ववीर्याद्रजवीर्याच्च स्ववीर्यं बलवत्तरम् । तस्मात्स्वेनैव वीर्येण निगृहणीयादन्द्विजः ॥३२॥ श्रुतीर्थर्वाङ्गिनरसीः कुर्यादित्यविचारयन् । वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्द्विजः ॥३३॥ (तदस्त्रं सर्ववर्णानामनिवार्यं च शक्तितः । तपोवीर्यप्रभावेण अवध्यानपि बाधते ॥) क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोर्द्विजोत्तमः ॥३४॥ विधाता शासिता वक्ता मैत्रौ ब्राह्मणा उच्यते । तस्मै नाकुशालं ब्रूयान्न शुस्कां गिरमीरयेत् ॥३५॥ न वै कन्या न युवतिर्नाल्पविध्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा॥३६॥ नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥३७॥ प्राजापत्यमत्वाश्वमग्नाधेयस्य दक्षिणाम् । अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥३८॥ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्वल्पदक्षिणैर्यग्नैर्यजन्ते ह कथंचन ॥३९॥ इन्द्रियाणि यशः स्वर्गमायुः कीतिं प्रजाः पशून् । हन्त्यल्पदक्षिणो यग्नस्तस्मान्नाल्पधनो यजेत् ॥४०॥ अग्निहोत्र्यपविघ्याग्नीन्ब्राह्मणः कामकारतः । चान्दायणं चरेन्मासं वीरहत्यसमं हि तत् ॥४१॥ ये शूद्रदधिगम्यार्थमग्निहोत्रमुपासते । ॠत्विजस्ते हि शूद्राणां ब्रह्मावादिषु गर्हिताः ॥४२॥ तेषां सततमग्नानां वृषलाग्न्युपसेविनाम् । यदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥४३॥ अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसक्तश्चेन्द्रियार्थेषु प्रायश्चित्तियते नरः ॥४४॥ अकामतः कृते पापे प्रातश्चितं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥४५॥ अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं मोहात्प्रायाश्चित्तैः पृथग्विधैः ॥४६॥ प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । न संसर्गं व्रजेत्सभ्दिः प्रायाश्वित्तेऽकृते द्विजः ॥४७॥ इह दुश्चैरितैः केक्जित्केचित्पूर्वकृर्वकृतैस्ताथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥४८॥ सुवर्णचैरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥४९॥ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्रताम् । भान्यचैरोऽङ्गहीनत्वमातिरेक्यं तु मिश्रकः ॥५०॥