कच्छ रण भूमि

કચ્છ જો રણ
नैसर्गिक प्रदेशः
कच्छ रण भूम्या परिद्रुष्यः
कच्छ रण भूम्या परिद्रुष्यः
Country भारत, पाकिस्थानम्



गुजरातराज्यस्य कश्चन प्रदेशः ।

can't use in sandboxगुजरातराज्यस्य प्रेक्षणीयस्थानानि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxगुजरातराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxचित्रं योजनीयम्]]



भोजः विदर्भानां राजा।तस्य कालः एकादश शतकं आसीत्।भोजः स्वस्य ग्रन्थे काव्यमीमाम्स कर्ता राजशेकरं उल्लेखितवान्।अस्य काव्यशैली अपि "वैदर्भी" इति ज्ञायते । एषः पारमारवंशीयः महाराजः, महाकविः, महाव्याकरणः, महान् आलङ्कारिकश्च एवं चतुर्महान् भोजराजः । अयं भोजराजः प्रथमं उज्जयिन्याम् उवास । ततः कारणान्तरेण राजधानीं धारानगरम् प्रति स्थानान्तरितं कारितवान् इति ऐतिहासिकैः साक्ष्यैः ज्ञातुं शक्यते । यतः कश्चन "अबुल् फसल्" नामकः महम्मदीयः चरित्रकारः स्वस्य "अय्ने अक्बरि" नामात् ग्रन्थे " भोजः स्वस्य राजधानीं उज्जयिन्याः धारानगरं प्रति नीतवान्" इति उल्लिखितवान् । अयं यथा कविः तथा "कलिः" च आसीत् । महम्मद् घस्नि इत्यनेन साकं शौर्येण युद्धं अकरोत् इति शासनैः अवगम्यते । अयं धारानगरे सरस्वतीदेव्याः सुन्दरं भव्यं च मन्दिरमेकं निर्मापितवान्, यदधुना मदरसारूपेण परिवर्तितं दृश्यते । भोपालनगरात् नैरृत्यां दिशि विद्यमानः "भोजसरोवरः" अस्य वास्तुशिल्पप्रबुद्धतायाः साक्षी आसीत् । पञ्चदशशतकपर्यन्तमपि एष सरोवरः दृष्टिगोचर आसीदिति श्रूयते । स्वयं कविः, कवीनां पोषकश्च आसीदिति ऐतिहासिकैः भोजप्रबन्धादिभिः ग्रन्थैः अवगन्तुं शक्यते । बल्लालसेनविरचिते "भोजचरिते" भोजराजस्य कथा विस्तरशः वर्णिता । यद्यपि बल्लालसेनस्य ग्रन्थः यथार्थं इतिहासं न निरूपयति । किन्तु भोजराजस्य वैदुष्यविषये वास्तविकीं परिचितिं ददाति । भोजः अनेकान् शास्त्रग्रन्थान् तथा काव्यानि च विरचित्वान् । तेषु अन्यतमम् "चम्पूरामायणम्" ,"सरस्वतीकण्ठाभरणम्","शङ्करप्राकाशः" च।