रस:


रसः काचित् कलायाः सारः। एषः कलाकारः प्रेक्षकाः सन्त्वरा अनुभवन्ति। एषः एकेन न अनुभूयते। एकस्य प्रदर्शनस्य सम्पूर्णता रसानुभवेन भवति। नाट्यशास्त्रे भरतः अष्ट रसानां वर्णनं करोति। ते सन्ति- शृङ्गार, हास्य, करुण, रौद्र, वीर, भयानक, भीभत्स तथा अद्भुत। रसः विभव-अनुभव-व्यभिचारि भावानां योगः अस्ति। प्रेक्षकाणां तृप्तिः तथा आनन्दानुभवः एव रसानां प्रभावः। जनाः प्रश्ननन्ति, भावः रसानाम् उत्पादस्रोत: अस्ति वा अथवा रसः भावानां उत्पादस्रोत:? उत्तरम् अस्ति, रसाः भावेभ्यः उत्पद्यन्ते। एषौ द्वौ अनुषक्तौ स्तः। भाव इति नाम अभवत् यतः रसः भावात् उत्पतति, अनेक प्रकार अभिनयेन। (भावस्य व्युत्पत्ति)



रसानां वर्णनम्  :-

१. शृङ्गारम् - शृङार इत्युक्ते रतिः, कामः, प्रियम् इति। शृङ्गारं द्विविधम् अस्ति : सम्भिग तथा विप्रलम्ब च। कलाप्रदर्शने, कलाकारेण लीलावतैक्षणैः, मधुर वचनैः, मन्दहासेन, अभिरुचित हावभावैः सह एषः रसः प्रकटितव्यः।

उदाहरणं - रामायणे, सीता-रामयोः प्रथम मेलनम्।


२. हास्यम् - अत्र विनोदः स्थायी भावः अस्ति, हास्यं स्वस्य उपरि भवति अथवा उपहासः अपि भवति। हास्यं षड्विधम् अस्ति : स्मित, हसित, उपहसित, अपहसित तथा अतिहसित।

उदाहरणं - कृष्णस्य नवनीत चौर्यम्।


३. कारुण्यम् - अत्र करुणा भावस्य प्राधान्यं अस्ति। एषः भावः शापेन, पीडया, विपत्त्या, अनुकम्पया सह दीप्तः। एषः रसः रोदनेन, मूर्च्छया, लापेन, उपकार इत्यादि भावैः प्रदर्शितम्।

उदाहरणं - महाभारते, दुर्योधन-चित्रसेनयोः युद्धे,पाण्डवानां वनवाससमये, गर्न्धवराजेन चित्रसेनेन, दुर्योधनः बद्धः आसीत्। युधिष्ठिरः एतत् श्रुत्वा अर्जुनं प्रेशितवान्, दुर्योधनस्य विमोचनार्थम्। युधिष्ठिरस्य कारुण्य भावेन दुर्योधनः गन्धर्वेभ्यः रक्षितः।


४. रौद्रम् - अत्र क्रोधः स्थायी भावः। एषस्य रसस्य सम्बन्धः पापात्मैः, राक्षसैः, तथा घोर जनैः सह अस्ति। एषः रसः कलहं कारयति।

उदाहरणं - महादेवस्य क्रोधाग्निना मन्मथः दग्धः। महाकाल्याः क्रोधेन शुम्भ-निशुम्भौ मृतौ।


५. वीरम् - एषः रसः महानुभावैः, तथा धैर्यशालिभिः सह संयुक्तः। अस्मिन् रसे, रक्तहीन धृतेः, दृढनिश्चयतायाः, न्यायस्य च गुरुत्वम् अस्ति। प्रदर्शने, प्रधान क्रियाः सन्ति, उत्साहः, स्थिरता, आश्चर्यजनक कार्याणि तथा सम्भ्रमकार कार्याणि।

उदाहरणं - कुरुक्षेत्र युद्धे शोडशवर्षी अभिमन्योः वीरं प्रसिद्धम्।


६. भयानकम् - अत्र भयम् अथवा भीतिः स्थायी भावः अस्ति। अस्य रसस्य प्रधान लक्षणाः सन्ति, श्रवणात्, दर्शनात् च उत्पन्नः भीतिः, उलूकेभ्यः शयालुभ्यः भयं, रिक्तगृहगमानात् भयं, नेत्रान्दोलनं, भयात् मुखस्य रङ्गं पाण्डु: भविष्णु, भयात् कण्ठशोषः इत्यादयः।

उदाहरणं - कंसः स्वमृत्योः आकाशवाण्याः भीतः।


७. भीभत्सम् - अत्र जुगुप्सा स्थायी भावः अस्ति। प्रदर्शने कलाकारः घृणापूर्ण वस्तून् न स्पर्शयति, न स्वादयति , न पश्यति, न शृणोति, न च आघ्राणयति|

उदाहरणं - महाभारते, भीमेन दु:शासनस्य रक्तं पीतम् दृश्यं भीभत्सपूर्णम् अस्ति।


८. अद्भु्तम् - अत्र आश्चर्यं स्थायी भावः अस्ति। एषः रसः दैवपुरुषदर्शनात्, उपलब्धयेभ्यः ,उद्यान-देवालयानां सौन्दर्यात्, इन्द्रजालात् ज्ञातः।प्रदर्शने, रोमहर्षणं ,सन्तोषाश्रु, श्लाघायुक्त शब्दाः इत्यादयः एतं रसं निवर्णयति।

उदाहरणं - कृष्णस्य राक्षसवधं गोकुलस्य जनेभ्यः अद्भुतमासीत्।

नाट्यशास्त्रे रसानां बहुविध वर्णैः सह समन्विताः सन्ति :-

१. शृङ्गार - असित नील अथवा श्याम

२. हास्य - श्वेत

३. कारुण्य - पारावत वर्णम्

४. रौद्र - रक्त

५. वीर - पाण्डु

६. भयानक - असित

७. भीभत्स - नील

८. अद्भु्त - पीत


रस-देवयोः अपि सम्बन्धः वर्तते :-

१. शृङ्गार - विष्णुः

२. हास्य - प्रमथः

३. कारुण्य - यमः

४. रौद्र - रुद्रः

५. वीर - महेन्द्रः

६. भयानक - कालः

७. भीभत्स - महाकालः

८. अद्भु्त - ब्रह्मा


शास्त्रीय सङ्गीते अपि, रस-रागयोः सम्बन्धः अस्ति :-


१. शृङ्गार - खमास्, सिन्धु भैरवी, बागेश्री, मियाँ की मल्हार्

२. हास्य - कदनकुतूहल, मोहनम्, केदार्

३. कारुण्य - सहाना, नीलाम्बरी, बसन्त्

४. रौद्र तथा भीभत्स - रेवती, बैरागि भैरव्, मधुकौँस्

५. वीर - अठाणा, दर्बारी , मार्वा

६. भयानक - पुन्नागवराळि, पन्तुवराळि, पुरिया धनश्री, सोहिणी

७. अद्भुत - वलजि,कलावती


एते रसाः सर्वे नाट्यशास्त्रानुसारम् अस्ति। कतिचन अन्य रसाः अपि सन्ति यथाविध - शान्तं , शोकम्, आनन्दः इत्यादयः। एतेषाम् उल्लेखः नाट्यशास्त्रे न् विद्यते।

References:

1. Natya Shastra (Library Book)

2. http://padminirao.com/rasa_theory.php

3. http://www.karnatik.com/rasas.shtml


Done by -

Talin Subbaraya - 1631142 (4 PEP)

Supreetha Krishna - 1640899 (4 EMS)