भूमिप्रदूषणम् : भूमिप्रदूषणं मृदावरणं मलिनीकरोति। मनुष्याणां विविधदुष्प्रवृत्तिभिः भूमेः उर्वराशक्तिः न्यूना जायते। कृषिकार्ये पाकवृद्धयर्थं कीटकविनाशकरासायनिकौषधि पदार्थानां दुष्प्रभावेणापि भूमिप्रदूषणं उत्पद्यते। नगरौद्योगीकरणे सति कृषिकार्यार्थं भूमेर्प्रमाणं न्यूनं जातम्। औद्योगिक पदार्थानामुत्पादनेन समुद्भूतं जलं भूमिः शोषयति तेन भूमिप्रदूषणं वृद्धित्वं प्राप्तमिति। वायुवर्षादीनां जलप्रवाहेणापि भूमिघर्षणरूपं भूमिप्रदूषणं भवति। वनानां वायौ प्रसृतक्षारप्रभावेणापिभूमिप्रदूषणं सततं वर्धमानमस्ति। भूमेः प्रदूषणनिवारणायोपायाः : भूमिः अस्माकं निवासाय जीवनस्य आधारभूता च वर्तते अस्याः प्रदूषणेन अस्माकं जीवनं सुरक्षितं न स्यात् तदर्थं अस्याः प्रदूषण निवारणाय वयं कटीबद्धाः तदर्थ निम्नोपायाः वर्तन्ते - १) रसायनिक पदार्थनामुपयोगात् भूमेः उर्वरता क्षमता न्यूना जायमाना तद्निरोधाय प्राकृतिक गोमयोर्वरकानामुपयोगः करणीयः। २) कीटनाशकानां पदार्थानामुपयोगेन जायमाना क्षतेः निवारणं कर्तुं प्राकृतिक कीटनाशकानामुपयोगः गोमयात्निर्मितानां कीटनाशकानाम् उपयोगः। ३) वनानां रक्षणं तुलसीप्रभ्रृतीनां पादपानां रोपणम्। ४) सर्वेषां प्रदूषणानां निवारणं विशेषतया प्राचीनकालात् "माता भूमिः पुत्रो अह्ं पृथिव्याः" इति मूलमातृभावनायाः प्रचार प्रसारकारणात् भावात्मकतायाः प्रचारेण अनुपालनेन च मानवसर्जितप्रदूषणानामवरोधः कर्त्तुं शक्यते। तद्विषयक जागृतिरावश्यकी।