सदस्यः:Vivek k m 1910379/प्रयोगपृष्ठम्

इंटरनेट पर संस्कृत निबंध - (Sanskrit Essay on Internet)

अन्तर्जालम् इत्येतत् अत्यधिकानां सङ्गणकानां कश्चन जालबन्धः वर्तते। विश्वव्यापकमिदं राष्ट्रियान्तराष्ट्रिय-सङ्गणक-जालबन्धानां सम्पर्कं कल्पयति। दूरसंचारक्षेत्रे संगणकानां प्रयोगेन महद् परिवर्तनं संलक्ष्यते। साम्प्रतं सर्वाऽपि दूरवाणी-विनिमय-व्यवस्था संगणकानां माध्यमेनैव विधीयते। इन्टरनेट, ई-मेल, ई-कामर्स-प्रभृतयः संगणकस्य प्रयोगेण नूतनां क्रान्तिं विदधति। संगणक-संबद्धा इन्टरनेट-प्रणाली महासागरवद् वर्तते। सर्वस्मिन् जगति यत् किञ्चिद ज्ञानं विज्ञानं, शोध-संबद्धकार्यजातं च वर्तते, तत् सर्वम् एकत्रैव प्राप्तुं शक्यते। संसारे लघु-बृहद्-संगणकाणाम् कश्चन विशालजालबन्धः वर्तते एषः, येन दूरभाष-माध्यमेन एकः अपरेण सह सम्पर्कं करोति। जगति सम्पूर्ण-जालबन्धाः अन्तरजालैः संयुक्ताः वर्तन्ते। जगतः कोट्यधिकाजनाः अन्तरजालस्य लाभान्विताः भवन्ति। अन्तरजाले मुख्यतः ई-मेल (E-Mail), वर्ल्ड्-वैड्-वेब् (worldwide web-www), एफ् टि पि (FTP) ई कामर्स् (E-Commerce) इत्यादयः सौविध्यमुपलभ्यन्ते। अन्तरजालम् (Internet) इत्यस्य लोकप्रियतायाः कारणं तस्या सुगमता-सरलता च। येषु जालबन्धेषु जगति कस्याऽपि कम्प्यूटर / साइट इत्यनेन संयोगः यथा सरलः स्यात् तद्वदेव चलदूरवाणीनां सम्पर्कः सरलः भवति।

कानिचित् गणकयन्त्रस्य पदानि “Com” वाणिज्यव्यवहार सेवासंस्था। “Edu” शिक्षण सेवासंस्था। “Gov” सर्वकारस्य सेवासंस्था। “Org” वाणिज्येतर सेवासंस्था। “Net” अनार्जाल सेवासंस्था। “In” भारतदेशः। “Uk” इंग्लण्डदेशः। “To” आस्त्रेलियादेशः।

Importance of Internet-

बहवः जनाः अन्तरजाल-वर्ल्ड्-वैड्-वेब् (world Wideweb-www) इत्यनयोः एकैव मन्यन्ते, किन्तु तन्न समीचीनम्। अन्तरजालस्य एका शाखा वर्तते वर्ल्ड्-वैड्-वेब् (World Wide Web-WWW), तेन माध्यमेन विभिन्न-विषयेषु सूचना-प्राप्त्यर्थम् अन्तरजालद्वारा संगणकानि योजयति। अस्मिन् कार्ये इन्टरनेट एक्सप्लोरर (Internet Explorer) तथा च ब्रौसर् (Browser) साहाय्यं करोति। यथा-याहू (Yahoo), नेटस्कोप (Netscape), इण्डिया टैम्स् (India-times), वेबदुनिया (Webdunia) इत्यादयः सन्ति। ' वल्र्ड वाइड वेब "अन्तरजालस्य अतिदीर्घप्रमुखभागः वर्तते। अन्तरजालमाध्यमेन सम्पूर्ण-संसारस्य सूचनाः क्षणाभ्यन्तरे प्राप्तुं शक्यते। यथा- १.कश्चित् कम्पनी एवं तस्य उत्पादनानां (Products) विषये ज्ञानम् ।। २.अन्तरजालसंस्करणे विभिन्न-समाचारपत्राणां समाचारम्। ३.रोगाणां चिकित्सा, ४.चल-चित्रणि, ५.प्रचलन्त्याः क्रीडायाः विवरणम्। ६.समृद्धपुस्तकालयेभ्यः पुस्तकचयनम्। ७.संवादः, सन्देशादीनां प्रेषणम् इत्यादीनि। सूचनाः सङ्गणक-दूरभाषामाध्यमेन अन्तरजाल-सेवाप्रदातासंस्थायाः महासङ्ग्रहेण (Server) सह संयोजितम्। एतादृशं लोके बहवः सङ्ग्रहाः सन्ति ये परस्परं ग्रहाणां माध्यमेन संयुक्ताः सन्तः उपभोक्तृभ्यः अन्तरजालीयसेवां प्रदास्यति।