सदस्यसम्भाषणम्:1940884vijithraghavendra/प्रयोगपृष्ठम्
महारज: जयचामराजेन्द्र वडियर्
सम्पादयतुमहारज: जयचामराजेन्द्र वडियर् मैसूरु राजसंस्थानस्य पन्चविम्शततम महराज: आसीत्।असौ महान् तत्त्वज्न:, सङ्गीतज्न:, राजनैतिकचिन्तक: चापि आसीत्।
बाल्यं यौवनं च
सम्पादयतुजयचामरज वडियर् महोदय: १९१९ तमे वरषे जुलै मासस्य अश्टादशतमे दिवसे संजात:। एष: युवराज: कण्टीरव नरसिंहराज वडियर् युवराणि केम्पुचेलुवजम्मण्णि तयो: अपत्य:। अस्य विद्याभ्यासं मैसूरु नगरस्य महारजास् कालेज् मध्ये अभावत्। अस्य पितृव्यस्य नाल्वडि श्रिकृष्णराज वडियर् महोदयस्य मृत्योरनन्तरम् जयचामराज महोदयेन १९४० तमे वर्षे सेप्तेम्बर् मासस्य अष्टमे दिने मैसूरु राजसंस्थनस्य राजसिंहासनम् आरुह्यते। पश्चात् १९४४ तमे वर्षे महोदय: महाराणीं त्रिपुरसुन्दरी अम्मण्णीं विवाहितवान्। यदा १९४७ तमे वर्षे भरतदेश: परतन्त्रात् मुक्तो अभवत् सार्वभौमत्वम् त्यक्त्वा प्रजातन्त्रम् प्रति उपकर्तुम् प्रथम: जयचमराज वडियर् महोदय: एव आसीत्।
सङ्गीतप्रेम:
सम्पादयतुमहराज महोदय: पाश्चात्य तथा कर्णाटकशास्त्रीयसङ्गीते परिणीत: आसीत्। लन्डन् नगरस्य गिल्डाल् स्कूल् आफ् म्यूसिक् इत: "लैसेन्शियेट्" पदवीं तथा विश्वख्यात: ट्रिनिटि कालेज् आफ् म्युसिक् इत: सम्मानार्थक फेल्लो पदवीम् प्राप्तवान्। विद्वान् वेङ्कटगिरियप्प महोदयस्य पालने वीणवादनं आस्थानविद्वान् श्रिवासुदेवाचर्यस्य गुरुत्वे शास्त्रीयसङ्गीतम् च महाराजेन अधिगत:। "ब्रह्माण्ड वलये", "चामुण्डेश्वरी पालय माम्", "भजरे मानस", "श्रीविद्यां ललिताम्" इत्यादय: महाराजेन विरचित कृतय:।
अद्वैतवेदान्त: भगवत्गीता कुण्डलिनियोग: इत्यादि विषयेषु महाराजमहोदय: ग्रन्थानि रचितवान्। ऋग्वेदस्य पुराणानां कन्नडभाषाया: प्रचीनग्रन्थानां कन्नाडानुवादं महाराजमहोदयेन प्रायोजितम्। १९७४ तमे वर्षे सेप्तेम्बर् मासे २३ तमे दिने बेङ्गळूरु नगरस्थे राजप्रासादे महाराज: जयचामराजेन्द्र वडियर् महोदय: स्वर्गं प्राप्तवान्। तेषां विषये ख्यातकविकुवेम्पु महोदय: उक्तवान् - "अन्ये जना: तु सिंह्मासनम् आरुह्य राजान: भवन्ति, परं एतै: सिंह्मासनं परित्यज्य महाराजो भूत:" इति।