सदस्यसम्भाषणम्:2010466hemantkumawat/प्रयोगपृष्ठम्

==

सञ्चिका:Save Environment.jpg
==

पर्यावरणविज्ञानं वेदेभ्यः उद्भूतं भवति। 'माता भूमिः पुत्रोऽहम् पृथिव्याः' इति अथर्ववेदः । पृथिव्याः वसून् उपभुञ्जानाः भारतीयाः तेषां पुनः वर्धने उद्यमं कुर्वन्तः आसन्। 'यत् ते भूमे विखनामि क्षिप्रं तदपि रोहतु' इति च अथर्ववेदः कोऽपि मातरं हिंगां न करिष्यति इति 'पृथिवी मातर्मा हिंसी मा अहम् त्वाम्' इति यजुर्वेदवाक् भवति ।

प्रदूषणात् वायुमण्डलस्य पालनं कर्तव्यमेव ऋग्वेदः वातः अस्माकं पिता इति भाषते। वायुः भूमौ स्थितानां विविधानाम् औषधीनां सुगन्धं वहन् अस्माकं भेषजं भवतु, आयुरारोग्यं च तनोतु इति ऋग्वेदः कथयति। शान्तिपाठे 'शं नो अस्तु द्विपदे; शं चतुष्पदे' इति पक्षीणां मृगाणां च मङ्गलं भवतु इति प्रार्थितम्। मत्स्यपुराणं 'दशपुत्रसमो द्रुमः' इति वाक्येन द्रुमस्य श्रेष्ठत्वं प्रकटीकरोति । जीवराशीनां पुनरावर्तनपालनार्थं सर्वे जन्तवः आवश्यकाः । एकस्याः जीवजात्याः सर्वनाशं पुनरावर्तनपालनस्य विनाशाय इति ज्ञानवन्तः महान्तः वदन्ति । द्वैतवने वासं कृतवन्तः पाण्डवाः तत्र आखेटेनेन जीवराशीनाम् अत्यन्तं नाशं भवेयुः इति विचिन्त्य वनान्तरम् अगच्छन् ।

जलम् अमृततुल्यं भवति । तस्य शुद्धत्वपालनं सर्वथा करणीयम् । पुण्यतीर्थेषु निमज्जनात् पूर्वं स्नात्वा एव निमज्जनीयम् इति शास्त्राणि वदन्ति अप्सु अशुद्धं न करणीयम् इति तैत्तरीय-आरण्यके निर्दिष्टम् । स्मृतिः अपि 'जलं न प्रदूषयेत्' इति शास्ते।

तथैव जनमेजयेन कृते सर्पयागे अस्तीको नाम ऋषिः सर्पाणां सर्वनाशं पुनरावर्तनपालननाशाय इति राजानम् अवोधयत् । ततः जनमेजयेन सर्पयागः त्यक्तः । ऋषीणां आश्रमे मृगाः पक्षिणः च न हन्तव्याः इति विधिः । महाकविभिः तेषां काव्येषु पर्यावरणसंरक्षणं भारतीयैः कृतम् इति निरूपितं विद्यते। 'शकुन्तला आश्रमे वृक्षान् स्वयमेव परिषिव्य सोदरस्नेहेन वर्धयति स्म' इति वर्णयति शाकुन्तलम् । वसिष्ठस्य आश्रमे ऋषिपत्न्यः स्वपुत्रान् इव मृगान् अपालयन् ।

सांप्रतिके काले अस्माकं प्रमादेन समग्रमपि भूमण्डलं दूषितं भवति। पर्यावरण प्रदूषणस्य प्रभावात् भविष्यत्काले मानवसभ्यताया विनाशमपि भवेत् एव । अतः पर्यावरणतोलनार्थं विश्वस्वास्थ्य संघटनेन उपायाः प्रतिपादिताः विद्यन्ते । अस्माकं देशेऽपि सर्वकारद्वारा 'स्वच्छ भारतम्' इति नाम्ना पर्यावरणप्रदूषणस्य निवारणार्थं व्यवस्था क्रियते। जनजागरणं प्रचलति । प्रदूषणनिवारणोपायाः विधयश्चापि निर्दिश्यन्ते । एवं विविधोपायैः पर्यावरणपालनं आवश्यकम् इति निश्चप्रचम् ।

प्राचीन भारतस्य संस्कृत

सम्पादयतु

भारतस्य संस्कृतिः अति प्राचीना। न केवलं संस्कृतेः वर्धनाय संस्कृतभाषायाः भागः अतीव विद्यते। अपि तु पुरातन, आधुनिक विज्ञानस्य पोषणाय अपि विद्यते । विज्ञानमपि एकं शास्त्रम् इत्येव अस्माभिः मन्यते । विज्ञाने विविधाः शाखाः वर्तन्ते । ताः संस्कृतभाषायां सूत्ररूपेण एवं श्लोकरूपेण अस्माकं पूर्वजैः रचिताः । तत्र बह्वः विज्ञानग्रन्थाः अधुनापि उपलभ्यन्ते । तत्र शिल्पशास्त्रे केचन ग्रन्थाः विद्यन्ते तेषु ग्रन्थेषु आलयनिर्माणं, ग्रामनगरनिर्माणं, शिलादि विग्रहकरणं च विवरीकृतानि । शिल्पशास्त्रं ज्ञातुं गणितस्य ज्ञानम् आवश्यकं भवति । समग्रे विश्वे इदं शास्त्रमनुसृत्यैव अद्यापि देवालयाः निर्मीयन्ते

भरद्वाजः स्वस्य वैमानिकशास्त्रे विविध विमान यानानां निर्माणविषयम् अधिकृत्य स्पष्टतया प्रतिपादितवान् । एवं भास्कराचार्यः स्वस्य लीलावती इति ग्रन्थे बीजगणितं व्याख्यातवान् । एवं च वराहमिहिरस्य स्वस्य बृहत्संहितायाम् वैज्ञानशब्दकोशः दृश्यते

जीवने सुखशान्त्यादीनां प्राप्तिः आरोग्येन साध्यते । रोगनिवारणापेक्षया रोगनिरोधमेव वरमिति तु आरोग्यसूत्रम् । मनुष्याणां स्वास्थ्यलाभाय आयुर्वेदः सर्वोत्तमः हेतुः अस्ति। बहुकालात् आयुर्वेदस्य प्रचारः प्रयोगः च भारतदेशे प्रचलत्येव । लोके तु धन्वन्तरिः आयुर्वेदस्य तु | देवः इति पूज्यते । चरकः सुश्रुत - वाग्भटादयः आयुर्वेदस्य प्रसिद्धाः आचार्याः आसन् । ते बहून् आयुर्वेदग्रन्थान् अरचयन्। आयुर्वेद: आरोग्येन जीवितुं मार्ग प्रदर्शयति । स्वास्थ्य जीवनाय आहार, औषध, शरीरादीनां ज्ञानम् आवश्यकम् । एतान् विषयान् चरकसंहिता, अष्टाङ्गहृदयादि ग्रन्थाः बोधयन्ति| भारतस्य संस्कृतिः अति प्राचीना

सुश्रुतः इति कश्चन पुरातन वैद्यः । सः शस्त्रचिकित्सायां निपुणः तेन लिखितस्य ग्रन्थस्य नाम सुश्रुतसंहिता इति । एषः सुनम्यशस्त्रचिकित्सायां चतुरः एतस्मात् कारणात् एषः तच्छास्त्रस्य जनकः इति श्रूयते । भरद्वाजः स्वस्य वैमानिकशास्त्रे विविध विमान यानानां निर्माणविषयम् अधिकृत्य स्पष्टतया प्रतिपादितवान् । एवं भास्कराचार्यः स्वस्य लीलावती इति ग्रन्थे बीजगणितं व्याख्यातवान् । एवं च वराहमिहिरस्य स्वस्य बृहत्संहितायाम् वैज्ञानशब्दकोशः दृश्यते । आधुनिक गणिनी विषयेऽपि पाणिनीयपन्थाम् अनुसृत्य आधुनिकविज्ञानिनः प्रयत्नं कुर्वन्ति अतः एतेन संस्कृते यत् विज्ञानं पूर्वाचार्यैः अन्विष्टं तदेव आधुनिककाले प्रशोभमानं दृश्यते

https://exambaaz.com/essay-on-save-environment-in-sanskrit-%E0%A4%AA%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A4%A3-%E0%A4%AA%E0%A4%B0-%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A5%83%E0%A4%A4/ http://www.sanskrit.nic.in/ASSP/geervanbharatam/6frame3.htm

सदस्य "2010466hemantkumawat/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ